सदस्यः:Siddharthdhodapkar/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Infobox tree



अयम् औदुम्बरवृक्षः सामान्यतया वाटिकासु वर्धते । अस्य वृक्षस्य फलानि आहारत्वेन अपि उपयुज्यन्ते । सामान्यतया तेभ्यः फलेभ्यः व्यञ्जनं निर्मीयते । औषधत्वेन अस्य वृक्षस्य पञ्च अपि अङ्गानि उपयुज्यन्ते । अधिकतया अस्य औदुम्बरस्य त्वक् औषधानां निर्माणे उपयुज्यते ।

इतरभाषासु अस्य औदुम्बरस्य नामानि[सम्पादयतु]

अयम् औदुम्बरः आङ्ग्लभाषया Clustor fig अथवा Country fig इति उच्यते । अयं वृक्षः सस्यशास्त्रे Ficus Racemosa अथवा Ficus Glomerata इति कुटुम्बे अन्तर्भवति । अयं च वृक्षः हिन्दीभाषया“गूलर्” इति, तेलुगुभाषायाम् “अत्तिमानु” इति, तमिळ्भाषया “अत्तिमरम्” इति, मलयाळभाषया “अत्ति” इति, कन्नडभाषया “अत्तिमर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य औदुम्बरस्य प्रयोजनानि[सम्पादयतु]

अस्य औदुम्बरस्य प्रयोजनानि अनन्तानि सन्ति । अस्य वृक्षस्य रसस्य रुचिः मधुरमिश्रितकषायः । अस्य त्वचि “ट्यानिन” इत्ययम् अंशः अधिकप्रमाणेन अस्ति ।
१. अस्य औदुम्बरस्य त्वक्, पर्णं, अपक्वफलं चापि अतिसारे उपयुज्यते ।
२. गर्भवत्यः अतिसारेण पीडिताः चेत् ताभिः अस्य औदुम्बरस्य पक्वानि फलानि मधुना सह सेवनीयानि ।
३. मधुमेहरोगेण पीडिताः अपि अस्य औदुम्बरस्य पक्वानि फलानि सेवन्ते चेत् उत्तमं फलितांशं प्राप्नुवन्ति ।
४. अस्य औदुम्बरस्य त्वचः कषायेन स्नान्ति चेत् चर्मरोगाः निवारिताः भवन्ति ।
५. अस्य औदुम्बरस्य किसलयानि पर्णानि शुष्कीकृत्य सज्जीकृतं चूर्णम् अथवा पक्वानि फलानि वा मधुना सह अथवा शर्करया सह सेवनेन पित्तविकाराः अपगच्छन्ति ।
६. महिलाः अधिकस्रावेन पीडिताः चेत् अस्य औदुम्बरस्य मूलस्य कषायं सेवेरन् । तत् च कषायं तावतः एव प्रमाणस्य जलेन सह दिने द्विवारं सेवनीयम् ।
७. मधुमूत्रस्य, अतिपिपासायाः, अतिमूत्रस्य लक्षणानि यदि मधुमेहरोगिषु दृश्यन्ते तर्हि अस्य औदुम्बरस्य बीजस्य चूर्णं मधुना सह उपयोक्तव्यम् ।

can't use in sandboxऔषधीयसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]