सदस्यः:Sipra Mohanty14
दिखावट
संशयात्मा विनश्यति
अस्मिन् जगति केनापि दृष्टेनाअदृष्टेन वा भावेन प्रेरिताः सर्वेपि प्राणिनः किमपि कर्तुम् तत्परा भवन्ति।तत्र तत्र कर्मसु प्रयतमाना अपेक्ये जनाः स्वकीयसामथ्या कार्ज्याफले च सदा संशेरत् एव। इत्थं संशयात्मानः पुरूषाः कार्याणां पूर्वापरकर्तोव्यतापि न जानन्ति, प्रमद्यान्ति।तेन सर्वं जीवनमेव तेषां ब्यग्रतापूर्णं निःसारं च जायते। संशयात्मानो मन्दा भवन्ति दाने, तपसि, स्वाध्यायो,सदाचारे, लोकव्यवहारे, वाणिज्ये च।संशयस्तानन्यवलोक्य ये भीता बिषिदन्ति,ते कदापि भद्रं न लभ्यन्ते,ये च संशय क्षेत्रेषु गताः कुशलाः जीवन्ति, संशयं निश्चयसात् कुर्वन्ति, नूनं भद्रभाजनानि जायन्ते। संशयरहितानां कृतप्रतिज्ञानां कृते सकला वसुधारागंण वेदोव भवति, सुमेरुः सदृशानां महापर्वतानामारोहणमपि भवति। एतादृशानां महापुरुषाणां सौहृद्यं न विलीयते, धनानि क्षीयन्ते न तु मानधनं, धर्मानुरागा नापचीयन्ते च।अतएव मनुष्यः संशयात्मा न स्यात्।