सदस्यः:Snehalata Paikaray
शिक्षायाः अर्थ परिभाषा प्रकार्याणि च :-
“शिक्षयति या सा शिक्षा”,शक्तुं शक्तो भवितुं इच्छा शिक्षा । संस्कृत भाषायां शिक्षा इति पदस्थ ब्युत्पत्तिः शिक्ष “विद्योपादाने” इति धातोः गुरोश्च हलः इति पाणिनी सूत्रण ‘अ’ प्रत्ययन सती निष्पन्ना भवति। शिक्षा भवति मानव जीवनस्य मूलाधार। शिक्षा इति पदं संस्कृत भाषाया अधिकतया विद्या इति पदेन ब्यवह्रियते। “अवाद्ययामृत्यं तित्वा विद्ययामृतमश्नुते” इति वेदोद्धरिणः उक्तवन्तः। सा विद्या एव परमा या विद्या मोचनं दाति। अर्थात् ”सा विद्या या विमुक्तये”। अस्या माध्त्रमेन जीवन शृंखलित तथा परिमार्जित भबति। लोकेअस्मिन विद्या एव तत्त्वतः यत् मानवे जान ज्योतिं ज्वलयति, अविद्यान्धतमः व्याप्ति, दुर्गुणगणं वारयति,सद्गुणं सन्चारयति, कीर्ति प्रथयति गोरवं विकासयति, यशः वितनेति, राजसी च आदरं आहति। एषा मातृवत् संरक्षिका, पित्रृवत् सत्पथप्रदर्शिका, कान्तावत् वैभवदायी दुर्गुणनाशेन मनसः पावयत्रि च। एवं च मानवानां सर्वविध मोचनाय इयं सर्वोपकारिणी भवति शिक्षा। इयं शिक्षा साध्य साधनं च भवति। आन्विक्षिकि,त्रयि,वार्ता,दण्डनीतिः इति अस्मिन् लोके चरमोदेश्य मोक्षप्रदायिनी भवति। संयं विनयन पात्रतां,पात्रत्वात् अर्थः,अर्थेन धर्मः, धर्मेण परमार्थः च साहयता। भारयस्य मानदण्ड हिमालयवत् अस्माकं सांस्कृतिक मानदण्ड स्वरुपेण एतानि राराजन्ते। सेयं विद्या तू पाण्डित्यमुपार्जयन्ति जागर्ति लोकद्वयसाधनाय इति उभयलोक साधनाय इति उभयलोकप्रयोजनसिद्धेः कारणभूता इव देदिप्यते। इयं ही शिक्षा हितसाधकं शुभावहं कृत्यं सर्बं बोधयति, आत्मशुद्धिंधियः प्रचोदन, संयमशीलता, दमन, शान्तिं पुण्यं च समनुष्ठेयं, संजेयम् इदमन्तरा,अकृत्यम् अहितं च निर्णय उपदिशा, एवं प्रबृत्तिं निबृत्तिं च सन्दर्शय मार्गयति शिक्षा। शिक्षानाम सर्बसाध्य उपायं भवति। सुधियः समाजहितं,, विश्वहितं काम्यमानाः लोकस्यदुःखददाबाग्निं संचिकीर्षन्ति। नेत्रसमानं भुत्वा दिशंदर्शयन्ति। सर्बसंसय नाशक नेत्र शदृसं ही शास्त्रं भवति। शास्त्रेण एव चक्षुसा लोकजानं अनुभवश्च जायते। विद्या च अस्मिन् लोके श्री वचस्वं कीर्तिः दुःख अपनोदनं बात्सल्यं सन्नियोजनम् अविराम इति सर्बमातनोति। सर्वार्थसाधिकेयं शिक्षा शिक्षा प्राक्काले जानन जानार्थमिति उदेश्यमाश्रिता एव आसीत्। शिक्षा च प्रकाशस्त्रोतः भवति। तेन स्त्रोतसा सर्वार्थः अभिचियते।तत्च स्रोतः सर्वस्यापि जगतः प्रवृतिमत् भवति।अतेव सा शिक्षा मानवस्य त्रुतियनेत्रत्वेन परिगणिता दृश्यते। जान अथवा शिक्षायाः ऋते न हि किंचित प्रशस्ततमं वर्तते इहलोके। शिक्षा हि सर्वोपेक्षयापवित्रं मन्यते। एवं चतुर्बिधपुरुषार्थेषु मोक्षस्यैब नित्यत्वं कल्पयति। तथा शिक्षा एव अस्माकं कृते समाधानं भवति इति निश्चप्रचम्।
शिक्षा शब्दस्य प्रमुख अर्थ भवति विद्याग्रहणमेव। परन्तु, मुनिऋषि समये तथा पुराकाले “सा विद्या विमुक्तये” इति आसित्। शिक्षाशब्दः आंग्लोभाषायां Education इति विदियते। Education इति शब्दः लाटिन् भाषयाः Educatum, Educare, Educate इति पदत्रयस्य आधारेण उत्पन्नः इति केचन शान्ति। शिक्षायाः विभिन्न कर्थःवर्तते, यथा:-
शिक्षायाःव्यापकअर्थः -शिक्षायाः व्यापक अर्थे ते सर्बे प्रभावाः अन्तर्भवन्ति ये व्यक्तिं जन्मतः आरभ्य मृत्युपर्यन्तं प्रभावहीनता। शिक्षा प्राप्तयानन्तरं मानवः शनै शनैः स्वयमेव सर्वेषु वातावरणेषु सामन्जस्यं स्थापयति। शिक्षायाः संकुचितार्थः -शिक्षायाः संकुचितार्थः वद्यालये प्रदीयमान शिक्षा इति अवधेययः। अत्र विद्यालये निश्चितार्थस्य कृते निश्चितयोजनानां अनुसृत्य निर्धारित विधिनां निर्धारित प्रकारेण शिक्षा वालाय दिये। शिक्षायाःविश्लेषणार्थः -मनुष्य यदाकदापि यत्रकुत्रापि यस्माद्कस्मादपि शिक्षां प्राप्नोति एवं च शिक्षा वालकस्य जन्मजात शक्तेः विकासार्थं भवति। शिक्षायाः वास्तविकार्थः -शिक्षायाः वास्तविकार्थः भवति मानवस्य सर्बांगीण विकास। अर्थात् शिक्षा तादृशि एका प्रक्रिया भबति यया मनुष्यस्य जन्मजात शक्तिनां स्वभाविक सामन्जस्यपूर्ण वगकासश्च प्रस्फुटितः भवति।