सदस्यः:Soundarya.hiremat/प्रास्ताविकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्ताविकम्

  प्राचीनकालादारभ्य अध्यदवधि बहूनां समूहसंचारमाध्यामानां विकासः संलक्ष्यते । मनुष्य-मनुष्ययोः मध्ये सततं सम्पर्कं साधयितुं समूहसञ्चारस्य साधनानामुपयोगो भवति । आधुनिककामस्य सन्दर्भे पश्यामश्चेत् अनेकैः माध्यमैः वयं कस्यापि क्षेत्रस्य, विषयस्य, स्थलस्य,कार्यस्य वा सूचनां क्षणेनैव प्राप्तुं शक्नुमः । समूहसञ्चारस्य माध्यमैः मनुष्य अध्यतनीययुगेन सह सामञ्जस्यं स्थापयितुं समर्थोऽभवत् । इत्थं समूहसञ्चारस्य माध्यमानां समाजेन सह घनिष्ठसम्बन्धः वर्तते । मनुष्यस्य सम्पूर्णविकासेऽपि एतेषां माध्यमानां विशिष्टं योगदानं वर्तते । 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति वेदवचनं समूहसञ्चारमाध्यमैः सार्थकं भवति । अध्य मानवः एतषां यथोचितमुपयोगं कृत्वा निजसमस्याभिः मुक्तो भवितुं शक्नोति । अध्य कस्यापि देशस्य कामपि वार्तां वयम् एतैः माध्यमैः ग्नातुं शक्नुमः । इत्थं वक्तुं शक्नुमः यत् समूहसञचारमाध्यमानि अस्माकं दैनिकजीवनस्य मूलभूतावश्यकतारूपेण सन्ति । 


सञ्चारस्यार्थः

  सञ्चारशब्दस्य निष्पतिः संस्कृतभाषाया 'चर्' इति धातुः भवति । 'चर् गतिभक्षणयोः' इति धातुः पाणिनीयधातुपाठे पठितः । ' कोमुनिस्' इति लेटिनभाषायाः 'कोम्युनिकेशन' शब्धः निष्पन्नः । कोमन अर्थात् समानः यदा कश्चिज्जनः केनापि सामाजिकेन जनेन सह सम्पर्के आयाति तदा परस्परं कमपि विचारं, भावं, दृष्टिकोणं सूचनाञ्च प्रापयितुं प्रयत्नशीमलो भवति तदा सा प्रक्रिया सञ्चारशब्देन ग्नायते । 

जोर्ज ए मिलर् नामा समूहसञ्चारस्य अर्थं करोति समूहसञ्चारस्य तात्पर्यं सूचनानां एकस्थानात् अपरत्र प्रापणमेव । चार्ल्स राइटमतेन सञ्चारस्य प्रक्रिया त्रिभिर्प्रकारैः ग्नायते-प्रथमं मनुष्याणां स्वभावेन पध्दत्या च द्वितीयं मानवानां वर्गेण व्यवहारेण च तृतीयं च ये अन्यैः जनैः सह अपरिचिताः भवन्ति तेषां जनानां स्वभावेन । सञ्चारमाध्यमैः अध्य सम्पूर्णं विश्वं लघुग्राम इव संलक्ष्यते । देशस्य विदेशेन सह सर्वेऽपि सम्बन्धाः एतेषां माध्यमेनैव भवन्ति । एतेषां माध्यमानां 'वसुदैव कुटुम्बकम्' इति भावनायाः प्रचारः प्रसारश्च भवति । अतः सर्वथा लाभप्रदानि सञ्चारमाध्यमानि ।


सञ्चारस्य प्रक्रिया

  अत्र चत्वारः पदार्थाः भवन्ति - १- प्रषकः
                         २- सन्देशः
                         ३- माध्यमम्
                         ४- प्राप्तकर्ता ।
पारस्परिकसञ्चारः - अस्मिन् माध्यमे द्वौ अथवा ततोऽधिकाः जनाः आदान-प्रदान यत् माध्यमं प्रयुञ्जन्ति सः पारस्परिकसञ्चारः अभिधीयते । पारस्परिकसञ्चाराः समक्षं स्थितानां जनानां कृते अथवा पार्श्वक्षेत्रीयजनानां कृते शक्यो भवति ।    
समूहसञ्चारः - समक्षस्थितजनान् यथा वयं वार्तालोपेन सरलतया निजभवान् प्रकटयामः तथा दूरस्थितान् जनान् न् बोधयितुं शक्नुमः ।