सामग्री पर जाएँ

सदस्यः:Subhashree bhuyan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
     					याज्ञवल्क्यस्मृतिः

याज्ञवल्क्यस्मृतिः - आचाराध्यायः – उपोद्घात-प्रकरणम् । श्री गणेशाय नमः । “धर्माधर्मौ तद्विपाकास्त्रयोपि क्लेशाः पञ्च प्राणिनामायतन्ते । यस्मिन्नेतैर्नो परामृष्ट ईशो यस्तम् वन्दे विष्णुमोंका: वाच्यम् ”।

“याज्ञवल्क्यमुनि भाषितं मुहुर्विश्वरुपविकटोक्तिविस्तृतम् ।

धर्मशास्त्रमृजुभिर्मिताक्षरैर्बालबोधविधये विविच्यते ” ।

याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररुपं याज्ञवल्क्यमुनिप्रणित्ं धर्मशास्त्रं सक्षिप्य कथयामास । यथा मनुप्रणितं भृगुः । तस्य चायमाद्यः श्लोकः – “योगीश्वर याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।

वर्णाश्रमेताणां नो ब्रोहि धर्मानशेषषतः ॥ योगिनां सनकादीनामीश्वरः श्रेष्ठस्तं याज्ञवल्क्यं संपूज्य मनोक्कायकर्माभिः पूजयित्वा मूनयः साम श्रवः प्रभृतयः श्रवणधारणयोम्या अब्रुवन् उक्तवन्तः- धर्मान्नोऽस्मोभ्यम् ब्रुहिति । कथमा । अशेषतः कार्त्स्न्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णाब्राह्मणादयः, आश्रेमा ब्रह्मचारि प्रभृतयः इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतर शब्दस्य ”द्वन्द्वे च ” सर्वनाम संज्ञाप्रतिषेधः । अत्रुच । धर्मशब्द षड् विधस्मार्तधर्म विषयः । तद्यथा – वर्णधर्म आश्रमधर्मो वर्णोश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्म श्चेति । तत्र वर्णधर्मो ब्राह्मणो नित्यं मद्यं वर्जयेदि स्यादिः । आश्रमधर्मोऽग्निन्धनभैक्षचार्यादिः । वर्णाश्रमधर्मः पालाशो दण्दो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकदिगुणयुक्तस्व राज्ञः प्रज्ञा परिपालनादिः । निमित्त्धर्मो विहिताकरण प्रतिषिद्ध सेवननिमित्तं प्रायश्चितम् । सधारणधर्मोऽहिंसादिः । न हिंस्यात्सवाभूतानीत्याचण्डालं साधारणो धर्मः । शौचाचारांश्च शिक्षयोदित्याचार्यकरणविधिः प्रयुक्तत्वाद्धर्मशास्त्र अध्ययनस्य प्रयोजनादि कथनं नातिब उपयुज्यते । तत्र चायं क्रमः । एवं पृस्टः किमुवाचेत्याह - मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ॥

  मिथिलानाम नगरी तत्रावस्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा कांचित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पच्छन्तिति युक्तमेतेभ्यो वक्तुम् इत्युक्तवान्मुनीन् । किम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन् धर्मालिबोधतेति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे वक्ष्यमाणलक्षणा धर्मो अनुष्ठेया नान्यत्रेत् अभिप्रयः । ” अथ ब्रह्मचारिप्रकरणम् ” -  “
ब्रह्मक्षत्रियविशूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मेशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥
 ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणा एतेषाम् आद्यास्त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः द्विर्जायन्त इति द्विजाः तेषां द्विजानां वै एव न शूद्रस्य । निषेकाद्याः निषेको गर्भाधानम् आद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्संवन्धि कर्म अन्ते यासां ताः क्रिया मन्त्रैभवन्ति ।  “अथ विवाह प्रकरणम् “ -  गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । वेदं व्रतानि वा पारं नित्वा ह्यूभयमेव वा ॥  पुर्वोक्तेन न्यायेन वेदं मन्त्रब्राह्मणात्मकम् । व्रतानि ब्रह्मचारिधर्माननुक्रन्तानुभयं वा पारं नीत्वा समाप्य गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्वा स्नायात् । अशक्तो तदनुज्ञया अदत्तवरोऽपि । एषां च पक्षाणां शक्तिकालाद्यपेक्षया व्यवस्था ।  “ अथ गृहस्थधर्म प्रकरणम्  “  - श्रोत स्मार्तानि कर्माणि अग्निसाध्यानि दर्शयिष्यन् कस्मिन्ननो किं कर्तव्य मित्याह -  “ कर्म स्मार्तं विवाहाग्नौ कुर्वीत् प्रत्यहं गृही । दायकालाह्रूते वापि श्रौतं वैतानिकाग्निषु ॥ स्मृत्युक्तं वैश्वोदेवादिक कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहाग्नौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा । वैश्यकुलादग्निमानीय इत्यादिनोक्तं संस्कारसंस्कृते । अपिशब्दात् प्रते वा गृहपतावाहृते संस्कृते एव । व्यवहाराध्यायः – “ साधारणव्यवहारमातृकाप्रकरणम् “ -  अभिषेक आदि गुणयुक्त्तोस्य राज्ञः प्रजापालनं परमो धर्मः । तत् च दुष्टनिग्रगमन्तरेण् न संभवति । दुष्टपरिज्ञानं च न व्यवहार दर्शनम् अन्तरेण संभवति । तद्यहार दर्शनम् अहरहः कर्मव्यम् इत्युक्तं – ’ व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम्’ इति ।  “प्रायश्चित्ताध्यायः “ – प्रायोश्चित्त प्रकरणम्  -  वर्णाश्रमेतराणां नो ब्रुहि धर्मानशेषतः ’ इत्यत्र प्रतिपाद्यतया प्रौतज्ञात षड् विध धर्ममध्ये पन्चप्रकारं धर्मम् अभिध्याय अधुना वशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्त पदाभिलप्यं प्रारिप्सुः प्रथमतः तत् प्ररोचनार्थम् अधिकारिविशेष प्रदर्शनार्थं चार्थवादरूपं कर्मबिपाकं तावदाह – 
”महापातकजान्घोरान्नरकान्प्राप्य दारुणान् ।
कार्मक्षयात्प्राजायन्ते महापातकिनस्त्विह ॥