सामग्री पर जाएँ

सदस्यः:Subrat Majhi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मूल्यशिक्षा

सम्प्रत्यय

           भारतीयधर्मग्रन्थेषु मूल्यशब्दस्य प्रयोगः मानवीय युगानां शीलं  शब्दार्थे कृतोअस्ति । अयं मूल्यशब्द आग्ङल भाषायाः  VALUE इति पदात् निष्पन्नः भवति । VALUE इति शब्दः लाटिन भाषायाः VALERE इति शब्दात् उत्पन्न अस्ति । यस्य च अर्थः कस्यचन वस्थुनः मूल्यम् , गुणम् ,विशेषताम् , योग्यताम् एवं महत्वम् वा सुचयति ।

इदं मूल्यम् सदगुणानां समूहः भवति । यत् मूल्यमाधारिकुत्य व्यक्तिः व्यक्तित्वविकासं कर्तु समर्था भवति । अत्र मानवस्य धारणा, विचार, विश्वास¬ , मनोवृति तथा स्थितिः  च समन्विताः भवन्ति । जीवने मूल्यमेव सदगुणसाधनमं वर्तते । यत्र मूल्यं तत्रैव धर्मः ,सत्यं , तेजो , वलं च निवसति । अतः सर्वेषां गुणानामाधारः  मूल्यं (शीलम्) वर्तते । मूल्येन त्रिलोकं अपि जेतुं शक्यते । यथा –

महाभारते उक्तम –

शीलने हि त्रयो लोकाः शक्या जेतुं न संशय

न हि किञ्चिदसाध्यं वै लोके शीलवतां भवेत ।।

अर्थात् मूल्यस्य अयं अर्थः भवति यत् मानव स्वस्य जीवनकौशले परीस्थित्यानुसारं व्यक्तित्वकज्ञानं  भवति । मूल्यशिक्षा माध्यमेन  छात्रस्य दायित्वम् , समूचितदिशायां जीवनस्य महत्वम् ,लोकतान्त्रिकंमाध्यमेन जीवनमपनम् , संस्कृतिज्ञानम् ,अत्यन्तमहत्वपूर्ण भावनादि ज्ञानम् इत्यादयः अर्न्तभवति । मानवस्य गुणानां भावनादि च मूल्यशिक्षा भवति ।

मूल्यशिक्षायाः परिभाषा

1 – जाँन जे काने - महोदयाः वदन्ति यत् – मानवमूल्यानि आदर्शस्वरूपाणि विश्वसनीयानि मानकरूपाणी च भवन्ती , यानि सामाजिकसदस्याः उत समाजस्य स्वजीवने अङ्गिकुर्वन्ति ।

2 – बार्टन पेरी महोदयः - मूल्यविषये इत्थं निरूपयति यत् – यः मूल्यं प्रददाति तस्य तथा च तत् वस्थुनः मध्ये विद्यमानपरस्परसम्बन्ध एव मूल्यम् ।

3- लिण्ङजे – महोदयः एव वदति यत् - मूल्यं नाम यो यदि इच्छति तत् वस्तुनः अंशस्य वा विषये तस्य वैयक्तिकाभिप्रायप्रकटनं भवति । तथा च अन्यैः कथमभिलष्यते इत्याधारेण अपि मुल्यं निर्धारण भवति । कदाचित अयं मूल्यकर्ता किं वाञ्छतीति मूल्यनिर्धारणविषये परिगणनस्य सर्वदा आवश्यकता नास्ति ।

मूल्यशिक्षायाः प्रकृति

           मूल्यशिक्षायाः प्रकृति मानवगुणानामुपरि आधारिता भवन्ति। मानवे यदि समूचितगुणाः विकसिता भवन्ति , तर्हि व्यक्तित्वस्य विकासः  अवश्यं भवति । तस्मात् व्यक्तेः व्यक्तित्वविकासाय या आचारसंहिता ये सदगुणाः समूहोपकाराः मानवं उपकृर्वन्ति  ते एव मानवीयधाराः मानवीयमुल्यत्वेन स्वीक्रियते । वस्तुतः मूल्यानाम् अवधारणां स्पष्टतया ज्ञातुं तस्य प्रकृतिः ज्ञातव्या एव । मूल्यशिक्षायाः प्रकृतिः त्रिधा विभज्यते यथा-

क)आत्मनिष्ठा – आत्मनिष्ठपक्षानुसारं मूल्यम् इच्छा,रुचि, कार्यकरणक्षमता, संकल्पशक्ति ,सन्तोषादि ,करकाणामुपरि आधारितं भवति । एतानि कारकाणि मानवजीवने मूल्यरुपेण विकासितानि भवन्ति ।

ख)वस्तुनिष्ट – एतस्य पक्षस्य आधारेण मूल्य स्वतन्त्र भवति । व्यक्तेः निहितं न भूत्वा वस्थूनिष्टरुपेण प्रतिभाति .

ग)सम्वन्ध – मूल्य मानववातावरणयोः मध्ये सूसम्बन्धस्थापनस्य माध्यमिति परिज्ञायते ।  

मूल्यनां प्रकाराः –

1- नैतिकमूल्यानि

      नैतिकमूल्यानि मानवव्यवहारस्य मार्गदर्शककानि भवन्ति ।नैतिकमूल्यैः विना मानवीयव्यवहारः अमानुषः भवेत् । नीतिवर्धनम्,क्षमाचरण, परोपकारः, सहिष्णुता, सत्यवाक् परिपालनम् , न्यायमार्गचरणम्, दयाप्रदर्शनम् इत्यादीनि कानिचित् नैतिकमूल्यनि सन्ति ।

    नैतिकमूल्यनां विषये तैत्तरीयोपनिषादि उक्तं वर्तते – सत्यं वद। , धर्म चर । ,स्वाध्यायान्माप्रमदः । , मातृदेव भव, पितृदेव भव । , आचार्यदेवो भव ।  इत्यादि ।

2- आध्यात्मिकमुल्यानि

     सर्वषु जीवेषु मानवः श्रेष्टः । किंमिदं मानवस्य श्रष्टतायाः रहस्यमिति प्रश्ने उच्यते आध्यात्मिकतैव तस्य श्रेष्टस्य प्रमूखं तत्वमेव । आध्यात्मिक इत्यर्थ आत्मशान्त । मानवजीवनस्य प्रमूखभागरूपेण इमानि मूल्यानि आध्यत्मिकसत्तायाः प्रतिबोधनाय दया , शान्ति , क्षमा , मैत्री , प्रीति ,सेवा ,परोपकारः , तितिक्षा , स्वाध्याय , यज्ञः , इत्यादिनां दिव्यगुमानां मूल्यानि एव भवन्ति ।  अहिंसा परम धर्म , ऐतदाम्त्यमिदं सर्वम , परोपकारार्थमिदं शरीरम्  इत्यादीनि आद्यात्मिकमूल्यानि सन्ति ।

3- सामाजिकमूल्यानि

        मानवः एकः सामाजिक प्राणी वर्तते , अतः तेषां किञ्चिच कर्तव्य वर्तते समाजाय  यथा समाजसेवा , उत्तरदायित्वम् , परोपकारदीनि कानिचन सामाजिकमूल्यनि विकासितव्यानि । समग्रं विश्यंमेव एकः परिवार इति चिन्तन आवश्यकम् । यथा उक्तम् –

     

अयं निजः परवोति गणनां लघुचेतसाम्

उदारचरितानां तु वसुधैव कुटुम्बकम् ।।

सामाजिकमूलैर्विना सामाजिकविकासः कदापि न संभवति एव अतः शिक्षाया सामाजिकमूल्यानि  प्रदेयानि ।

4- शैक्षिकमूल्यानि

        सामाजिकविश्वासः , महापुरुषाणां जीवनदशाः , सत् प्रवर्तनम् , सर्वाङिगक अभिवृद्धि च शैक्षिकमूल्यत्वन अवश्यमभिवर्धनीयाः भवन्ति । शैक्षिक मूल्यां विचारे अधोनिर्दिष्टाः विषयाः अवधेयाः। ते च –

क) शिक्षणे नियमितता निष्टा च स्यात् ।

ख) मूल्याङ्कने वस्तूनिष्टता निष्पक्षता च भवत् ।

ग) छात्राणां सृजनात्मकतायाः विकासः स्यात् ।

घ) मौलिकतायाः उपरि श्रद्धा भवेत् ।

5 – राष्ट्रियमूल्यानि

           अस्माकं जीवनस्य उद्देश्यं राष्टमेव भवति । तस्य इतार्थ सर्वदा यत्नः करणीयम् । सर्वदा राष्टस्य सेवाः कर्तव्या ।  राष्टस्य उन्नत्यार्थ यानि यानि कर्तव्या  करणीयानि तानि राष्टियमूल्यानि भवन्ति । यदि राष्टस्य अवनतिः जायते  तर्हि समाजस्य स्वस्य अवनतिः भवति । अतः राष्टियमूल्यै विना सामाजिकविकासः स्वस्य विकासश्च न संभवति इति हेतोः राष्टियमूल्यानि शिक्षाया प्रदेयनि भवन्ति ।

मूल्यशिक्षायाः महत्वम् –

     मूल्याधारितशिक्षायाः महत्वं भवति यत् आदर्शछात्रः निरूपण एव । प्रत्यक अध्यपाक शिक्षाशास्त्रिणः आदर्शवालकः निर्माण इच्छति । अतैव अधोलिखित मूल्याधारेण छात्रस्य जीवनं आदर्शरुपे निर्माणं भवितुर्महति । यथा –

1- सदाचारपालनम्

क)आचारः परमो धर्मः इति सिद्धान्तमाश्रित्य सदाचारः                   सर्वोत्तमं तप इति पालनिया ।                                           

ख)सदाचारपालने ब्रह्मचर्यस्य महत्वमं वर्तते । एव च चरित्ररक्षा ,शीलरक्षा चेत्यादि सदाचारपालनेन एव भवन्ति ।

2 – पुरुषार्थ – भारतीयसमाजस्य लक्ष्यं पुरुषार्थचतुष्ट्यं  वर्तते । यथा उक्तम् – भामह

धर्मार्थकाममोक्षेषु वैचक्षणं कलासु च ।

करोति  कीर्ति प्रीति च साधुकाव्यनिबन्धनम् । ।

3 – सत्यपालनम्

क) जीवनस्य राष्ट्रस्य च उन्नति कामयमानानां कृते सत्यमेव प्रमुखं मन्त्रं वर्तते ।

ख) विचारेसत्यम्,भाषणेसत्यम्, कर्मणि च सत्यं चेत् इश्वरस्य प्राप्तिः अवश्यमेव भवेत् ।

4- अहिंसापालनम्

क)समस्तजीवान् प्रति सत् भावनायाः प्रर्दशनम् एव अहिंसा ।

ख)अहिंसायाः विनम्रता , दानं , धैर्य , अनुराग , ह्दयस्य विचारस्य च पवित्रता कर्मस्य मोहात् मुक्ति भवति ।

5- सहनशीलता

क) इयम् अस्माकं संस्कृते महत्त्वपूर्णा विशेषता वर्तते ।

ख) वयं सर्वान् देशान्, राज्यान्, नागरिकान् च प्रति सहनशीलता उदरता ,     स्नेहपूर्ण अस्तित्वस्य भावनां प्रकटयामः ।

6 – आध्यात्मिकता

क) इश्वरे विश्वासः आत्मबलस्य जागरणम् , आत्मनः विकासेन परमात्मनः साक्षात्कारः इति आध्यत्मिकता .

7- स्वानुभुति –

समाजे मानवः परस्य हतसाधनार्थ यत् किञ्चित् मनसा वाचा कर्मणा वा करोति तदेव स्वस्य कृते व्यवहारम् इच्छति । परेषां कृते तदेव करणीयम् इति विचारधाराः  स्वीकरणम् ।  

           

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Subrat_Majhi&oldid=460875" इत्यस्माद् प्रतिप्राप्तम्