सदस्यः:Sudeshna1996/प्रयोगपृष्ठम्
दिखावट
देवभाषा संस्कृतम्
संस्कृतभाषा देवी-देवतानां मुखनिसृतः वाणी अस्ति। तदनुसारेण संस्कृतभाषा दैवीयाः वर्त्तते। समाजे ये तावत् शुभकार्यानि सन्ति, (यथा-पूजापाठसमये, विवाह-अन्नप्राशन-श्राद्ध-यज्ञादिकार्यसम्पादने च) ब्राह्मणाः मन्त्ररूपेण संस्कृतभाषायाः उच्चारणं कुर्वन्ति। विश्वस्य प्राचीनतमग्रन्थः वर्त्तते ऋग्वेदः। तत्र मण्डलक्रमानुसारेण १० मण्डलाः सन्ति। तत्र देवतायाः स्तुतिं वर्णनमस्ति। प्रत्येकं मण्डले एकम् एकं कृत्वा १० देवतायाः सन्ति।तत्र अग्नि, वरुणः, सूर्यः, इन्द्र इत्यादयः देवतायाः वर्णनं प्राप्यन्ते, वेदः अपौरुषेयः। कोऽपि जनाः न रचितवान् इति कारणात् सायणाचार्येण भणितं यत् – “अपौरुषेयवाक्यं वेदः। “कोऽपि जनाः यदि वेदः न रचितवान् तर्हि वेदः अपौरुषेयः अर्थात् ईश्वरप्रदत्तः तथा वैदिकीभाषा संस्कृतभाषाऽपि ईश्वरप्रदत्ताः वर्तते। दैवीय प्रेरणया मानवाः भाषणे प्रवृत्ताः वर्तन्ते।
भारतीयभाषावैज्ञानिकाः मन्यन्ते यत् वाक् संसारस्य सम्राटः कथ्यते। सा परब्रह्मापि कथ्यते। यथा- “वाग्वैः सम्राटः परंब्रह्मा “। संस्कृतभाषा सर्वेषां भाषायां जननी अस्ति। तस्य व्याकरणं पाणिनी विरचितं ”अइउण “इत्यादयः चतुर्दश(१४) महेश्वरसूत्रेषु आधारितः वर्त्तते। येषां प्रादुर्भाव शिवस्य ढक्कनादात् मन्यते। तद्यथा –
“नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
उद्धर्तकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्।। “
चर्तुदश महेश्वरसूत्र यथा- १.अइउण्, २.ऋलृक्, ३.एओङ्, ४.ऐऔच्, ५.हयवरट्, ६.लण्, ७.ञमङणनम्, ८.झभञ्, ९.घढधष्, १०.जबगडदश्, ११.खफछठथचटतव्, १२. कपय्, १३.शषसर्, १४. हल्। एतानि चर्तुदशमहेश्वरसूत्राणि नित्या पाणिनीमहोदयः वर्णमाला प्रकटयति। संस्कृतभाषा देववाणी, सुरभारती, ब्राह्मलिपि, देवनागरीलिपि अपि कथ्यते।
अतः संस्कृतभाषा न केवलम् एकं सामान्य भाषा अपितु देवप्रदत्तः भाषा इति कथ्यते।