सदस्यः:Sujata Rout
सम्बिधानस्य अष्टमसूचौ प्रान्तीयभाषाः च
भाष्यते अनया इति भाषा। भाष् व्यक्तयां वाचि इति धातोः 'गुरोश्च हलः' इति सूत्रॆण 'अ' प्रत्यये 'टाप्' प्रत्यये कृते सति भाषा इति शब्दं निष्पद्यते। भाषाया़ः अर्थः- भाष्यते व्यक्त वाक् रूपेण अभिव्यज्यते इति भाषा। परस्परं विचारणाम् आविष्काराणां भवति भाषा। अर्थात् मानवीय विकासं बौद्धिकाभिव्यक्तेः एकं साधनं भवति भाषा। मुख्यतः राष्ट्रस्य सुरक्षार्थं शृंखलार्थं मंगलाय सम्बिधानस्य व्यवस्था भवति।अस्माकं भारतस्य सम्बिधाने वहवः नियमाः सन्ति। सम्बिधाने भाषा विषयेऽपि उल्लेखमस्ति। तस्मिन् मध्ये सम्बिधानस्य अष्टमसूचौ प्रान्तीयभाषा विषये किंचित् निम्ने प्रदतम्। भारतसम्बिधानम् इत्युक्ते भारतदेशे प्रचलितानां नीति-नियमानां समाहारः, सम्बिधानेऽस्मिन् केन्द्रसर्वकारः, राज्यसर्वकारः, प्रशासनिककार्यं, निर्वाचनमादिप्रशासनेन साकं सम्मिलितानां समस्यानां विषयाणामुपरि विस्तारतया लिखितमस्ति। एतेषु सर्वेषु स्तरेषु विहितानां कार्याणां तथा नीतिनियमसम्बन्धिताविषयाणाम् अत्र उल्लिखिताः सन्ति। भारतमेव संसदीयसर्वकारसंयुक्त प्रभुत्वसंपन्न समाजवादी, धर्मनिरपेक्ष, लोकतान्त्रिकं गणराष्ट्रं भवति। एतत् राष्ट्रं सम्बिधानस्य नीतिनियमे परिचालितं शासितं च भवति। १९४९ तमे वर्षे नभेम्बरमासस्य २६तमदिनांके एतत् सम्बिधानं सर्वैः अङ्गीकृत्वा १९५० तमे वर्षे जनवरी मासस्य २६ तमे दिनांके कार्यकारी अभवत्। अतः तं दिनम् अस्माभिः साधारणतन्त्रदिवसरूपेण परिपाल्यते। सम्बिधनस्य निर्माणे ड़ भीमराव अम्बेडकर महोदयस्य गुरूत्वपूर्णभूमिका अस्ति। अतः तं भारतीयसम्बिधानस्य जनकः इति जनाः वदन्ति। सम्बिधानस्य प्रारम्भसमये ३९५ अनुच्छेदाः आसन्। ये २२ भागेषु विभक्ताः आसन्। परन्तु सम्बिधानस्य बारम्वारसंशेधनकारणात् तस्याकरः इदानीं वर्द्धितं भवति। संप्रति सम्बिधानेऽस्मिन् ४६५ अनुच्छेदाः सन्ति। एतत् सम्बिधानं २२ भागेषु विभक्तं भवति। संप्रति सम्बिधाने १२ अनुसूचयः सन्ति। तासु अष्टमानुसूचेः आरम्भः अनुच्छेदः ३४३(१)तः ३५१ अनुच्छेदपर्यन्तं भवति। अस्यां अनुसूचियां २२ भाषाणां विषये उल्लेखं विद्यते। सम्बिधानस्य अष्टमसूच्यां ३४३१(१) अनुच्छेदतः आरभ्यते। सम्बिधानस्य ३४३ तमे अनुच्छेदे राजभाषा विषये वर्णना विद्यते।यस्या सम्बन्धः अष्टमी-अनचसूचीगतविषयेन साकं भवति। अनुच्छेदषु वर्णितविषयाः- • अनुच्छेदः ३४३- अत्र लिखितमस्ति यत् संघस्य अर्थात् राज्याणां संघस्य राजभाषा हिन्दी तथा लिपिः देवनागरी अस्ति। सम्बिधानस्य पंचदशवर्षं यावत् सर्वाणि शासकीय कार्याणि आङ्गलभाषया, पंचदशवर्षादनन्तरं देवनागरी भाषायाः प्रयोगं भवितुं शक्यते। • अनुच्छेदः ३४४- अनुच्छेदऽस्मिन् राजभाषायोगविषये वर्णना अस्ति। राजभाषा आयोगः राष्ट्रपतिः सम्बिधानस्य प्रारम्भतः पंचवर्षादनन्तरं तदनन्तरं दशवर्षादनन्तरं एकस्य आयोगस्य निर्माणं करिष्यति। यत्र एकः अध्यक्षः भविष्यति। अनुसूच्यां निर्दिष्टभाषाणां प्रतिनिधिस्वरूपाः सदस्याः भविष्यन्ति। येषां चयनं राष्ट्रपतिः करिष्यति। • अनुच्छेदाः ३४५, ३४६, ३४७ एतेषु अनुच्छेदेषु प्रादेशिकभाषाणां विषये विद्यते। अनुच्छेदः ३४५ –
कस्यापि राज्यस्य विधानमंडलस्य विधिमाध्यमेन राज्ये प्रयुक्तभाषायाः प्रयोगः अथवा हिंदीभाषायाः प्रयोगः शासकीयप्रयोजनाय कर्त्तुं शक्यते।परन्तु यावत् काल पर्यन्तं राज्ये एतादृशं कार्यं न भवति, तावत् काल पर्यन्तं सर्वाणि कार्याणि आन्ग्लभाषा माध्यमेन भविष्यति।
• अनुच्छेदः ३४६ – राज्यराज्ययोर्मध्ये तथा राज्यसंघयोर्मध्ये पत्राचारस्य भाषा सा भाषा भविष्यति या शासकीय प्रयोजनार्थं प्रचलिता भवति।ते भवन्ति यथा-असमीया,वंगला,लोड़ी,डोगरी,गुजराती,हिन्दी,कन्नड़,कोंकणी, मलयालम्,मणिपुरी,मराठी,नेपाली,पंजाबी,ओड़िआ,संस्कृतम्,सन्ताली,तामिल्,सिन्धी,तेलुगु्,उर्द्धु, मैथिली च। निष्कर्षः- भारतं एकं वहुभाषी राष्ट्रं भवति। अतः अस्य सम्बिधाने विविधभाषाः विद्यन्ते। भारतं एकं धर्मनिरपेक्षराष्ट्रं वर्त्तते। अपि च अत्र वहुभाषाभाषिणः जनाः निवसन्ति। यद्यपि जनाः वहुभाषाभिः वदन्ति , तथापि याः भाषाः संख्याधिकैः जनैः कथिताः तासां समावेशः सम्बिधानस्य अष्टम्यानुसूच्यां वर्त्तन्ते।