सदस्यः:Sumesh soman/प्रयोगपृष्ठम्
विदुरनीतिः - महाभारते उद्योगपर्वे त्रयस्त्रिंशत्तमाध्यायतः चत्वारिंशत्तमाध्यायपर्यन्तंअष्टसु अध्यायेषु सङ्गृहीता अस्ति विदुरनीतिः। विदुरनीतिः - धृतराष्ट्राय विदुरस्य उपदेशाः विदुरनीतिः
अथ प्रथमोऽध्यायः
वैशम्पायन उवाच
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः। विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम्।।1।।
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्। ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति।।2।।
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्। अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय।3।।
द्वाःस्थ उवाच
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्।।4।।
प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्। अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने।।5।।
द्वाःस्थ उवाच
प्रवीशान्तःपुरं क्षत्तर्महाराजस्य धीमतः। नहि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम्।।6।।
वैशम्पायन उवाच
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्। अब्रवीत् प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्।।7।।
विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात्। यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम्।।8।।
धृतराष्ट्र उवाच
सञ्जयो विदुरप्राप्चो गर्हयित्वा च मां गतः। अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति।।9।।
तस्याद्य कुरु वीरस्य न विज्ञातं वचो मया। तन्मे गात्राणि तदाकर्षीत् प्रजागरम्।।10।।
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि। तद् ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि।।11।।
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः। सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वीक्ष्यतीत्येव हि मेऽद्य चिन्ता।।12।। (तन्मे ब्रूहि विथुर त्वं यथावन्मनीषितं सर्वमजातशत्रोः। यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः।।)
विदुर उवाच
अभियुक्तं बलवता दुर्बलं हीनसाधनम्। हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः।।13।।
कच्चिदेतैर्महादोषैर्नस्पृष्टोऽसि नराधिप। कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे।।14।।
धृतराष्ट्र उवाच
श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः। अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्सतः।।15।।