सामग्री पर जाएँ

सदस्यः:Sundarasasi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वस्थ वृत्तम् - सर्वॆषाम् स्वास्थ्य परिरक्षणार्थम् आयुर्वेद दत्त अमूल्य संपदा

आयुर्वेद शास्त्रम् अन्य वैद्य शास्त्रेभ्यः भिन्नमस्ति यतः अन्य शास्त्रेषु रॊग निवारणम् कथम् क्रियतॆ इत्यस्य वर्णनम् एव भवति किन्तु आयुर्वेदस्य प्रत्यॆकस्मिन् ग्रंथॆ अधिकाधिक भागम् स्वस्थ मनुष्यस्य स्वास्थ्य रक्षणं कथम् करणीयम्, रोगाणां अनुत्पत्यै किम् करणीयम् इति सविस्तरेण वर्णनं अस्ति। स्थूल रूपॆण अस्य स्वस्थ वृत्तमिति नाममस्ति। स्वस्थ वृत्तॆ १ दिनचर्या , २ ऋतु चर्या ३ सद्वृत्तम् इति भाग त्रयं वर्ततॆ। तॆषां पालनॆन भयंकर रॊगाणां अनुत्पत्ति सुसाध्यं भवति। अस्मिन् विषयॆ सविवरणं लॆखितुं प्रयत्नं करिष्यामि