सामग्री पर जाएँ

सदस्यः:Suneel kumar mishra

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मूल्याङ्कनम्

                                 मूल्यस्य अङ्कनमेव मूल्याङ्कनम्। अर्थात कस्यापि वस्तुनः,पदार्थस्य व्यक्ते:वा गुणस्य विशेषताया: योग्यतायाः अङ्कनं मूल्याङ्कनमिति कथ्यते। पूर्वनिर्धारित लक्ष्यस्य शिक्षणकार्यस्य प्रणाल्या:वा विशिष्टरूपेण निर्णयस्य प्रक्रिया एव मूल्याङ्कनं भवति। प्रथमतया लिखित-परीक्षा केम्ब्रिज-विश्वविद्यालये 1702 तमे वर्षे प्रचलिता आसीत्। मौखिक परीक्षाया:प्रारम्भ:(1300)त्रयोदशशताब्दौ प्रारब्ध:जातः।भारते वुड् जेसपाट् महोदयस्यादेशानुसारं 1854 तमे वर्षे आङ्ग्लशासकै:संस्थापितेषु विश्वविद्यालयेषु परीक्षा प्रारब्धा। कक्षाशिक्षणे अधिगमस्य शिक्षणं मूल्याङ्कनेन सिध्यति। शिक्षणं सफलं भवति न वा? छात्रा:कियत् अध्ययनं कुर्वन्ति? अवगमने समर्था:न वा अस्य परिणाम:मूल्याङ्कनेन एव विज्ञायते। मूल्याङ्कनेन छात्रा:अपि स्वाध्याये जागरूका:भवन्ति। मूल्याङ्कनेन छात्राणां योग्यतायाः परिक्षणेन साकं छात्राणां प्रगते:निर्धारणमपि क्रियते अनेन शिक्षका:कक्षायां कक्षायाः का स्थिति: इति ज्ञातुं शक्यते शिक्षणस्य उद्देश्यानि सफलानि भवन्ति न वा इति ज्ञातुं मूल्याङ्कनं क्रियते । 
मूल्याङ्कनस्यावश्यकता        
                                        किमपि कार्य क्रियते चेत् तत् कियत्पर्यन्तं सफलं जातमित्यपि ज्ञातव्यम् यदुद्देश्येन कार्यं कृतं तदुद्देश्यं सम्पन्नं वेति चिन्तनीयम्। अध्यापकानां शिक्षणं कियत्सफलम्? छात्राणां विषयग्रहणं कियत्? इत्यादिविषयान् परम्परागतपरीक्षाणां द्वारा ज्ञातुमशक्यत्वात् मूल्याङ्कनस्य अवलम्बनम् आवश्यकं भवति। शिक्षणविधीनां समीकरणे,शिक्षास्तरस्य उन्नतीकरणे च मूल्याङ्कनं सहायकं भवति।
 मूल्याङ्कनस्य प्रकारा:-

मूल्याङ्कनं द्विविधं भवति ।

1. आन्तरिकमूल्यांकनम् -

          छात्राणां द्वारा शैक्षणिकसत्रे कृतानां सर्वेषां कार्याणां दैनिकगतिविधीनाञ्च परीक्षणम् आन्तरिकमूल्याङ्कनं भवति। एतादृशं मूल्याङ्कनमत्युत्तमं भवति। सम्पूर्णे वर्षे कृतानां कार्याणां फलं केवलमेकया परीक्षया ज्ञातुं न शक्यते। आन्तरिक मूल्याङ्कनं छात्राणां दैनिकप्रगतिं,गृहकार्यं, विभिन्नसाहित्यिककार्यक्रमेषु प्रदर्शितं कौशलं,सामयिकपरीक्षाणां परिणामञ्चाश्रित्य भवेत्। 

2. बाह्यमूल्याङ्कनम् -

        बाह्यमूल्याङ्कनं विद्यालयै:, शैक्षिकसंस्थाभि:,विश्वविद्यालयैश्च आयोजितानां परीक्षाणां द्वारा भवति। एतासु परिक्षासु छात्रै: लिखितानामुउत्तराणां,कृतस्य कार्यस्य चाधारेण अङ्कानां वितरणं क्रियते। सम्पूर्णस्य विषयस्य समाप्ति:अनन्तरं एका परीक्षा सम्पाद्यते। पाठ्यसम्बन्धा:विविधा:प्रश्ना: क्रियन्ते। प्रश्नोत्तरप्रक्रियायां लिखितमौखिकयो:मूल्याङ्कनं क्रियते। मूल्याङ्कनमेतत् मुख्यतया छात्राणां कक्षोन्नतायै सहायता प्रदानं करोति बाह्यमूल्यांकनस्य फलं सर्वमान्यं भवति ।

मूल्याङ्कनविधयः

परिमाणात्मकविधयःगुुुणात्मकविधय: 
                                 
       परिमाणात्मकविधयः                                             ■ ज्ञानात्मकपक्षेण सम्बद्धा:                                                          ■ क्रियात्मकपक्षेण सम्बद्धा:                                                                  ● मौखिक परीक्षा - शलाका परीक्षा,शास्त्रार्थ:,सम्वाद:,प्रश्नावली,वाचनम्,भाषणम्                                                                         ● लिखित परीक्षा - निबंधात्मक परीक्षा(प्रायोजनकार्य माध्यमेन)                                           ● वस्तुनिष्ठ परीक्षा                                                                           (प्रत्यास्मरणधारितपरीक्षा)(प्रत्यभिज्ञानाधारित परीक्षा)                         ● सामान्यरिक्तस्थानपूर्ति:प्रत्यास्मरणम् -अन्यर्तेपरप्रत्युतर प्रकार:,बहुविकल्प:प्रकार:,संयोजन प्रकार:,वर्गीकरण प्रकार:,सादृश्यानुभवरूपम् । 
        गुुुणात्मकविधयः                                                  ■ भावपक्षेणसम्बद्धा:                                                                    ● प्रायोगिक परीक्षा                                                                        1. निरीक्षणम्                                                                               2. साक्षात्कार:                                                                           3. प्रश्नावली                                                                                4. मतसूची                                                                                5. क्रमनिर्धारणम्                                                                         6. सञ्चिताभिलेख:    
आदर्शप्रश्नपत्रनिर्माणम् - 
        कार्यकारणात् प्रागेव कार्यस्य सम्पादनाय पूर्वयोजनानुसारं क्रियमाणाभिकल्पं नीलपत्रम् इति कथ्यते। तदनु परीक्षणस्य नीलपत्रनिर्माणं भवति। छात्राणाम् आन्तरिकमूल्यांकनाय बाह्यमूल्यांकनाय च  अध्यापक:प्रश्नपत्रं निर्माति। तदनु निश्चितावध्यानुसारम् एकस्य प्रश्नपत्रस्य समाधनं छात्रा:कुर्वन्ति। छात्राणां परीक्षा मासिक-त्रैमासिक-षाण्मासिक-वार्षिक इति भवति। अतःप्रश्नपत्रस्य निर्माणम् उद्देश्यानुसारमं भवेत्। 
                                                       विशेषता -                     
   व्यापकता,विश्वसनीयता,वस्तुनिष्ठता,विभेदीकरणं, व्यावहारिकं,निश्चितोद्देश्यञ्च।  


      प्रश्न्नपत्रनिर्माणस्य प्रक्रिया -            
       प्रश्नपत्रे प्रश्नानां कृते अङ्कविभाजनस्य योजना मुख्यतया त्रिधा क्रियते।                                                     1. उद्देश्यानुसारम्                                                                         2. विषयवस्तु दृष्टया                                                                   3. प्रश्नानुसारम्  
                                          
          संस्कृतम्                                               समय:-घण्टात्रयम्      आदर्शप्रश्नपत्रम्      पूूूर्णाङ्क:-50                                                       
           कक्षा-10                                                            
"क"खण्ड अनुप्रयुुक्तव्याकरणम्  अङ्का:50      1.  अधोलिखितेषु वाक्येषु रेखांकितपदेषु सन्धिविच्छेदम् अथवा सन्धिं कृत्वा समक्षं प्रदत्तस्थाने लिखत ।          (10)                                                               (1) हे हरे$त्र तिष्ठ,  ………………।                                                         (2) प्रवाति मन्द:पवनः,  ………………।                                              (3) एतच्छुत्वा सर्वे अतुष्यन् , ………………।                                        (4) उपायेन यत् शक्यं न तत् शक्यं 
  पराक्रमै:……………।                      2. निम्नलिखितवाक्येषु रिक्तस्थानानां पूर्तिम् उचितेन शब्देन(समस्तपदेन)कुरुत। शुद्ध पदं कोष्ठकात् चित्वा समक्षं प्रदत्तस्थाने लिखत।(10)                          (1)त्वम्…………प्रक्षालय। (पाणिपादौ/पाणिपादम्)                                                       (2)……………गाव:भवितव्याः। (गृहं गृहं/प्रतिगृहं)                          (3) मुनिना वने………खादितानि। (कन्दफलमूलम्/कन्दफलमूलानि)                         (4)सः……………आसीत्। (कार्येचतुर:/कार्यचतुरः)                      3.अधोलिखितेषु अंशे रेखाङ्कितपदानां प्रकृति प्रत्ययं च पृथक्-पृथक् कृत्वा प्रदत्तसमक्षस्थाने लिख्येताम् (10)                            (1) मया पाठः पठितव्यः ……………………।                                            (2) सेवमान: शिष्यः विद्यां लभते ……………।                                    (3) बुद्धिमान् सफलतां लभते …………………।                                            (4) परिश्रमस्य महत्त्वं सर्वे जानन्ति………………।                                      (5) सर्वशून्या दरिद्रता ……………।                                                          4.उचितैः अव्ययपदैः रिक्तस्थानानि पूरयत।(10)  (अव्ययानां सूची अधः प्रदत्ता)                                                         (1) कथं त्वम् …………… वदसि।                                                        (2) अहं …………… गृहं गमिष्यामि।                                                                    (3) ……………… विदधीत न क्रियाम्।                                                             (4) अहम् ……………… न वदामि।                                                                                    (5) भवान् भोजनं ………… कृतवान्।                            (अव्ययशब्दा:-मिथ्या,श्वः,शनैः शनै:,सहसा,कदा।)                                        5. अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत।                                   ध्यायतः विषयान् पुंसः संगस्तेषूपजायते।                             सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते॥                                    प्रश्ना:(1) सङ्गात् कः जायते?……………।                                                  (एकपदेन लिखत)                                                          (2) यदा कामस्य पूर्तिः न भवति तदा कस्य भावस्य उत्पत्तिः भवति? ……………। (एकवाक्येन)                                                                           (3)'तेषु'संगः उपजायते। अत्र'तेषु'कस्मै प्रयुक्तम्? ……………।                 (4)'सङ्गात्’अत्र का विभक्तिः? …………… ।


            समाप्तम्
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Suneel_kumar_mishra&oldid=461162" इत्यस्माद् प्रतिप्राप्तम्