सामग्री पर जाएँ

सदस्यः:Sunil Sahoo1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानस्य सम्प्रदाया:


आत्मनः विज्ञानमिति मनोविज्ञानम्। अस्य शव्दस्य उत्पतिः न्युनानी भाषायाः “ psyche “ यस्य अर्थः भवति आत्मा। एवं च ” soul”,”logus” यस्य अर्थः अध्ययनम्। अस्य विस्तृतार्थोऽभवत् “आत्मनः विज्ञानम्। मनोविज्ञानस्य सम्वन्धः सर्वादौ दर्शनशास्त्रेण एव आसीत्। परन्तु कालान्तरे मनोवैज्ञानिकैः दार्शनिकविचारधारां विहाय वैज्ञानिकाधारेण एव व्यवहाराध्ययनं प्रारव्धम्। उन्नविंशतिशताव्ध्याः अन्ततः विंशतिशताव्द्याः प्रारम्भं पर्यन्तं मनोवैज्ञानिकानां मध्ये मनोविज्ञानस्य विषयवस्तु-दृष्टिकोणेषु मतभेदः अभवत्। मनोविज्ञानसम्प्रदायानां संख्याविषये विदुषां मतभेदः वर्त्तते। अतः मुख्यतः पच्ञसम्प्रदायाः सन्ति। 1-संरचनावादः(structuralism) अस्य वादस्य प्रवर्तकः जर्मनदेशस्य मनोवैज्ञानिकः विलियम्ऊण्टमहोदयः आसीत्। सः 1879 संवत्सरे मनोविज्ञानस्य व्यवस्थिताध्ययनाय जर्मनदेशस्य लिपजिनगरे विश्वस्य मनोविज्ञानस्य प्रथमप्रयोगशालां संस्थाप्य मनोविज्ञानम् एकं स्वतन्त्रविज्ञानरुपेण स्थापितवान्। ऊण्टमहोदयः तस्य अनुचराश्च संरचनावादिनः इति कथ्यन्ते । 2- प्रकार्यवादः(Functionalism) अस्य वादस्य प्रवर्तकः विलियम् जेम्समहोदयः आसीत्। सः मनसः अध्ययनं जीवविज्ञानाधारेण कृतवान्। संरचनावादिनः मनसः किमपि वक्तुं न शक्नुवन्ति। यतः मानसिकानुभवं तत्वरुपेण विभाजनं कर्तुं न शक्यते इति तेषां मतम् आसीत्। प्रकार्यवादिनां मतानुसारं मनसः संरचनाविषये ज्ञानार्जनस्य आवश्कता नास्ति। 3- व्यवहारवादः(Behaviourasim) विंशतिशताद्व्याः द्वितीयशतके एवं तृतीयशतके मनोविज्ञानस्य अस्य वादस्य विकासः बभूव। अस्य वादस्य प्रवर्तकः जे वि बाटसन् महोदयः आसीत्।व्यवहारवादिनः मानवव्यवहारोपरि अध्ययनं कृतवन्तः । एवं मानवव्यवहारस्य विज्ञानमेव मनोविज्ञानम् इति स्वीकृतवन्तः। व्यवहारस्य अध्ययने ते वलं दत्तवन्तः। 4- समग्रवादः(Gestaltism) विंशतिशताद्व्याः आरम्भे जर्मनदेशे समग्रवादनाम्ना एकमनोविज्ञानसम्प्रदायस्य उद्भवः अभवत्। गेष्टाल्ट अस्मात् जर्मनशव्दात् समग्रवादः इति पदं जातम्। अस्य अर्थः भवति पूर्णकारः समग्रव्यवस्थितः वा। व्यवहारवादिनः मनोविज्ञानस्य अध्ययनं कर्तुम् असाधुमार्गं सीकृतवन्तः । अधिगमप्रक्रियायाः अध्यापनाय ते अन्तदृष्टिभूमिकायाः उपरि अधिकं वलं दत्तवन्तः। 5- मनोविश्लेषणवादः(Psycho-Analysis) विंशतिशताव्द्याः प्रारम्भे मनोविज्ञाने भिन्नसम्प्रदायस्य प्रादुर्भावः अभवत्। यस्य नाम मनोविश्लेषणवादः। सिगमण्ड फ्रायडमहोदयः अस्य सम्प्रदायस्य जनकः आसीत्। तेन अचेतनमानसिकप्रक्रियायाः अध्ययनकाले उक्तं – मानसिकद्वन्दस्य मानसिकव्यतिक्रमस्य च अधिकांशमुलकारणं भवति अचेतनमनः। अचेतनमनसः अध्ययनाय फ्रायडमहोदयेन मनोविश्लेषणविधेः आविष्कारः कृतः। यः विधिः मुख्यतः मुक्तसाहचर्याविचारप्रवाहे एवं स्वप्नविश्लेषणे आधारितः आसीत्। उपर्युक्ताः पच्ञसम्प्रदायाः यद्यपि परस्परभिन्नाः वर्तन्ते। तथापि तेषां समन्वयेन एव सम्पुर्णमनोविज्ञानस्य संरचना ज्ञायते। एते सम्प्रदायाः प्राचीनाः जाताः। वर्तमानकाले अध्ययनाय मानवतादृष्टिकोणे एवं संज्ञानात्मकदृष्टिकोणे च अधिकलं दीयते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sunil_Sahoo1&oldid=442854" इत्यस्माद् प्रतिप्राप्तम्