सामग्री पर जाएँ

सदस्यः:Sunita rani Behera

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाठयोजनायाः विशेषताः -

पाठयोजनायां कक्ष्याः वास्तविक-प्रक्रियायाः सम्भावितां रूपरेखां प्रस्तोतुं प्रयत्नः भवति ।

पाठयोजना विधिवद लिखिता भवति ।

पाठयोजनायां शिक्षणोद्देश्यानां विवरणं स्पष्ट व्यावहारिकं च भवति ।

शिक्षणे प्रयुज्यमानानां सहायक-शिक्षण-सामग्रीणां विस्तृतं विवरणं पाठयोजनायां भवति ।

पाठयोजना छात्राणां पूर्वज्ञानाधारिता भवेत् ।

छात्राणां क्रियायाः प्रतिक्रियायाः सम्यग् ज्ञानं पाठयोजनानिर्माण सहायकं भवति ।

पूर्वज्ञानेन सह नूतनज्ञानस्य सामञ्जस्यम् ।

शिक्षकस्य इदम् अभिज्ञानं भवति यत् शिक्षणं सार्थकम् आसीत् न वा।

पाठयोजनायां छात्राणां वैयक्तिकवैविध्यम् अनुसृत्य शिक्षणस्य व्यवस्था क्रियते ।

पाठस्य समुचितः विभागः अपि पाठयोजनां प्रभावयति ।

पाठयोजनायां सरला स्पष्टा च भाषा प्रयोक्तव्या ।

पाठयोजनायाम् उपयुक्तस्य शिक्षणविधेः स्पष्टतया प्रायोगिकं विवरणं दीयते।

पाठयोजनायाम् उदाहरणानां पर्याप्त-प्रयोगः करणीयः ।

पाठयोजनायायाः प्रश्नेषु उपयुक्तता, सम्बद्धता शृङ्खलाबद्धता च भवेत् ।

पाठयोजनायाः वैयक्तिकवैविध्यनुगुणं शिक्षणं कर्तुं यथासम्भवं प्रयासः करणीयः ।

विकासात्मकप्रश्नानां विचारात्मकप्रश्नानां च प्रयोगः करणीयः ।

गृहकार्यस्य निर्माणम् अत्यन्तं विचिन्त्य करणीयम् ।

पाठयोजना कक्ष्यानियन्त्रणे वैयक्तिकभिन्नतायाः आधारेण शिक्षणप्रक्रियायाः नियोजने सहायतां करोति ।

पाठयोजनया शिक्षणं प्रभावि क्रमबद्धं च भवति ।

पाठयोजनया शिक्षणम् आरम्भतः अन्तपर्यन्तं सुव्यवस्थितं भवति ।

पाठयोजनया शिक्षकः आवश्यकतानुसारं पाठ्यवस्तुनः शिक्षणार्थं शिक्षणस्य समयविभाजनं कर्तुं शक्नोति ।

पाठयोजनया शिक्षणात् पूर्वमेव शिक्षणविधीनां शिक्षणोपकरणानां सहायक-शिक्षणसामग्रीणां वा पूर्ण प्रायोगिकं ज्ञानं भवति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sunita_rani_Behera&oldid=496926" इत्यस्माद् प्रतिप्राप्तम्