सदस्यः:Sunitapradhan97/प्रयोगपृष्ठम्
दिखावट
आधुनिकयुगे संस्कृतभाषायाः महत्वं उपयोगिता च
भाषयति या सा माषा। भावाभिव्यक्तेः तथा विचारविनिमयस्य सांकेतिक साधनं भवति भाषा। मानवः स्वस्य अन्तर्निहितज्ञानं अन्य समक्षे यया माध्यमेन भावं प्रकटयति सा भाषा। भाषा एका ध्वनेः स्वरूपा भवति। यस्य ध्वनेः सार्थकं वर्णं प्रकाशयति।।
भाषा शब्दस्य व्युत्पत्तिः –
‘गुरुश्च हल्’ इति सूत्रमाध्यमे संस्कृतशब्दः ‘भाष्’ धातोः ‘टाप् ‘प्रत्ययः संयोगेन भाषा इति शब्दस्य व्युत्पत्तिः भवति। भाष् इत्यस्य अर्थः भवति ‘वक्तायां वाचः’।इमाम् आङ्गलभाषायां language इति उच्यते। ग्रीक्-भाषा logos तः language शब्दस्य निष्पन्नः भवति। यस्य अर्थः भवति विचारः, चिन्तनशक्तिः, आत्माभिव्यक्तिः च। भाष्यते व्यक्तवाक्-रूपेण अभिव्यञ्जते इति भाषा।
भाषायाः परिभाषा –
भाषायाः परिभाषा विषये विभिन्न भाषावैज्ञानिकैः भिन्नः भिन्नः मतं अभिव्यक्तं क्रियन्ते।
महर्षिः पतञ्जलिमतानुसारम् – ‘व्यक्ता वाचि वर्णा येषां त इमे व्यक्तः वाचः।‘ भाषाविज्ञानवेत्ता प्लेटोमहोदयमतेन – ‘उच्चारणवाक्येभ्यः निसृतः ध्वन्यात्मकविचारः एव भाषाऽस्ति। ‘ हेनरी-स्वीटमहोदयेन उक्तम् – ‘ध्वन्यात्मकैः शब्दैः विचार-प्रकटिकरणमेव भाषाऽस्ति। ‘ श्यामसुन्दरदासमहोदयमतानुसारम् – ‘भाषा ध्वनिः संकेतस्य व्यवहारः भवति। ‘
आधुनिकयुगे संस्कृतभाषायाः महत्वम्-
सम् उपसर्गपूर्वकं कृञ् धातोः क्त प्रत्यये कृते सति सुडागमे संस्कृत इति शब्दः निष्पन्नो भवति। सम्यक् कृतं संस्कृतम्। संस्कृतभाषा न केवलं भारतवर्षस्य अपितु समग्रविश्वस्य प्राचीनतमा, पवित्रा, सांस्कृतिकभाषा च वर्त्तते। संस्कृता वाक् देववाणी, गीर्वाणवाणी, सुरवाणी, देवभाषा इत्यादिभिः नामभिः एतद्भाषा सुप्रसिद्धा। इयं भाषा अतीव रमणीया मधुरा च अस्ति। सा भाषा न कठिना अपितु सरला सरसा एव। संस्कृतभाषा एव आधुनिक प्रान्तीयभाषाणां जननी इति भाषावैज्ञानिकैः उच्यन्ते। पुरा इयं भाषा व्यावहारिकी भाषा आसीत्। आधुनिकयुगे अस्याः भाषायाः महत्वं विशदी कर्त्तुं शक्यते।
भारतीय-संस्कृतेः स्रोतः संस्कृतभाषा एव भवति। अस्माकं सभ्यता संस्कृतिश्च वेदेभ्यः, स्मृतिभ्यः, पुराणेभ्यः च निःसृता भवति। संस्कृतभाषा माध्यमेन भारतीयसंस्कृतिः सुप्रतिष्ठता अस्ति। बालकस्य जन्मात् आरभ्यः क्रियमाणं जातकर्म-नामकरणादि षोडशसंस्काराः संस्कृत-भाषायामेव क्रियन्ते। देवपूजा, हवनं, यज्ञ इत्यादयः क्रियाः अपि अस्यां भाषायां माध्यमेन सम्पादयति।
वेदेषु, पुराणेषु, उपनिषत्सु, रामायणे, महाभारते, स्मृतिग्रन्थेषु, महाकाव्येषु इत्यादिषु ग्रन्थेषु भारतस्य तत्कालीन समाजस्य इतिहासः उपलभ्यते।
धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकादि विषये अपि ज्ञानं समुपलभ्यते। भूतकालस्य परंपराः अस्मभ्यम् अग्रेसर्तुं प्रेरणा ददति। परंपरांणां विस्मरणेन समाजस्य संस्कृतिः विनाशं भविष्यति। अस्माकं संस्कृतिः सभ्यता च संस्कृतग्रन्थेषु वर्त्तते। अतः विभिन्नदृष्टिकोणतः ससंस्कृभाषायाः महत्वम् अनिर्वचनीयं भवति।
आधुनिकयुगे संस्कृतभाषायाः उपयोगिता –
सम्प्रतियुगे संस्कृतभाषायाः उपयोगिता अत्यधिका वर्त्तते। संस्कृतभाषा अस्माकं सांस्कृतीकि भाषा अस्ति। यतः अस्माकं सर्वे धार्मिकसंस्काराः अस्यां भाषायामेव विद्यन्ते। संस्कृतभाषायाम् अनेकानि सुवचनानि सुभाषितानि च सन्ति। यानि मानवेभ्यः प्रेरणां यच्छन्ति। इमां भाषां अध्ययनेन मानवानां गुणे, व्यवहारे, चरित्रनिर्माणे च परिवर्त्तनं जायते। यथा – वसुधैव कुटुम्बकं इति इत्यादयः भावना मानवस्य मनसि जाग्रतं भवति।
वेदेभ्यः, पुराणेभ्यः, उपनिषदभ्यः, रामायणात्, महाभारतात्, स्मृतिशास्रेभ्यः, महाकाव्यभ्यः इत्यादिभ्यः इतिहासग्रन्थेभ्यः प्राचीनभारतस्य सामाजिकं राजनैतिकं च जीवनं विषये ज्ञायते।
एषा भाषा सर्वासां भारतीयभाषाणां जननी इति, प्रादेशिकभाषायाः संस्कृतभाषायाः च संरक्षणार्थं वृद्ध्यर्थं संस्कृतभाषाज्ञानम् अपरिहार्यम्। बौद्धिक-आध्यात्मिक-नैतिकादि ज्ञानार्थं संस्कृत-भाषायाः आवश्यकता वर्त्तते। भाषा-साहित्य-व्याकरणादि ज्ञानार्थं संस्कृतभाषायाः ज्ञानं भवेत्।
उपसंहार –
संस्कृतभाषा वैज्ञानिकभाषा वर्त्तते। समाजशास्त्रं, दर्शनं, चिकिसत्साशास्त्रं, अर्थशास्त्रं, ज्ञानं, विज्ञानं, गणितं, ज्योतिषं इत्यादयः सामाजिकाः, राजनैतिकाः, अर्थनैतिकाः, वैज्ञानिकाः ग्रन्थाः संस्कृतभाषायामेव दरीदृश्यते। अस्माकं जीवनस्य जन्मतः मृत्युं यावत् षोडश-संस्काराः संस्कृतभाषायामेव सम्पन्नो भवन्ति। आधुनिकभारते आदर्शव्यक्तित्वम्, चरित्रनिर्माणं, अनुभूतिं, आत्मानुशासनम्, ज्ञानार्थम्, भारतीयभाषाणां संरक्षणार्थम्, राष्ट्रीय-अन्तराष्ट्रीय-ऐक्यता-संवर्धनार्थम्, परोपकारार्थं संस्कृति-संरक्षणार्थं च संस्कृताध्यापनमावश्यकमुपयोगिताञ्च वर्त्तते।