सामग्री पर जाएँ

सदस्यः:Surajkumarpatel2015/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

काव्यालङ्कारसूत्राणि आचार्य वामन विरचितः

    भारतीयसम्स्कृतसाहित्यपरम्परायां विद्यमानेषु आलङ्कारिकेषु अयं वामनः अन्यतमः । षट्षु सम्प्रदायेषु एषः रीतिसम्प्रदाये अन्तर्भवति । अस्य मते रीतिः एव काव्यस्य आत्मा भवति । अतः एषः रीतिसम्प्रदाय । अस्य भाषा शैली शूक्ष्मं शरलं च विद्यते । अस्य अलङ्कार ग्रन्थः भवति काव्यालङ्कारसूत्राणि । यथावत् सर्वेऽपि प्राचीनाः विंद्वासः स्व परिचयं कदापि न दत्तवन्तः तथैव एषोऽपि । आचार्य वामनः राष्ट्रकूत वंशे उत्पन्नः काश्मीरनरेशः जयपीदस्य सभापण्डितः आसीत् । 

उक्तञ्च राजतरङिगण्याम् –

 “ मनोरथः शङ्खदत्तश्चतकः सन्धिमास्तथा ।
  बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥ “
    जयपीडस्य शासनकालः ७७९-८१९ ख्रीष्टाव्दः एवं काश्मीर नरेशः गोविन्द तृतीयस्य शासनकालः ७९४-८१३ इति मन्यन्ते । एतेन स्वीकर्तुं शक्यं यत् वामनः अष्टम शतकस्य अन्तिमभागे, नवमशतकस्य च आदिम भागे आसीत् । “ प्रत्यभिज्ञान दर्शनस्य “ लेखकः अभिनवगुप्तः स्वग्रन्थे वामनस्य स्मरणः कृतः वर्तते । अतः एषः तस्य पूर्ववर्ती विद्वान् वर्तते । एवं स्वयं वामनः स्व लघुकाये “ काव्यालङ्कारसूत्राणि “ इत्यस्मिन् ग्रन्थे ‘उत्तररामचरितम’, ‘कादम्बरि’, तथा ‘शिशुपालबधम्’ इत्यादि काव्याणां श्लोकानि उदाहरणत्वेन स्वीकृतः अतः एषः भवभूती, बाण, माघानां परवर्तीः विद्यते । अस्य समकालिकः भवति आचार्यः उद्भटः “ काव्याङ्कारसारसंग्रहस्य “ रचयिता । 

ग्रन्थपरिचयः –

    अनया रचितं “ काव्यालङ्कारसूत्राणि “ इति लघुकायः ग्रन्थः रीतिसम्प्रदायस्य चरमोत्कर्षं वर्धयति । प्रारम्भे एषः ग्रन्थः सूत्रमात्रं आसीत् । अनन्तरं एतस्य वृत्तिमपि तेन रचितः । प्राचिनैतिहासिकाः अस्य सूत्रसंख्यां ३१९ इति वदन्ति तथापि उपलब्धे संस्करणे सूत्रसंख्या न्यूनाधिक्यं वर्तते इति अर्वाचिनाः मन्यन्ते । प्रस्तुतोऽयं ग्रन्थः १२०० वर्षं प्राचिनम् । एतस्य रचनाकालः ८०० शतकम् । उक्तपूर्वं रीतिसम्प्रदायस्य चरमोत्कर्षकमिति तेनैव उक्तत्वात् “ रीतिरात्मा काव्यस्य “ इति । तेन अलङ्कारशास्त्रस्य सर्वमपि सिध्दान्तं पञ्च अधिकरणे सूत्ररुपेण कृतः । तत्रापि अधिकरणेषु अध्यायाः विद्यन्ते । 

(१) प्रथमाधिकरणम् - शारीरम् । तत्र काव्यस्य प्रयोजनं तथा रीतिनां वर्णनम् । (२) द्वितीयाधिकरणम् – दोषदर्शनम् । तत्र पदगत, वाक्यगत, काव्यार्थगत दोषः प्रतिपादितः । पदगतम्-“ दुष्टं पदमसाधु रुष्टं ग्राम्यमप्रतीतमनर्थकं च “ इति ॥ वाक्यगत – अन्यार्थनैयगूढार्थाश्लीलक्लिष्टानि च ॥ वाक्यार्थगत – व्यर्थैकार्थसन्दिग्धाप्रयुक्तापक्रमलोकविद्याविरुध्दानि च ॥ (३) तृतीय अधिकरणम् – गुणविवेचनम् । अत्र अनेन गुणस्य शब्दार्थगतत्वात् उभयोः दस भेदं प्रतिपादयति । (४) चतुर्थाधिकरणम्- आलङ्कारिकम् । अत्र क्रमेण शब्दार्थालङ्कारयोः लक्षणोदाहरण विवेचनम् । (५) पञ्चमाधिकरणम् – प्रायोगिकम् । (६) अत्र अधिकरणे पूर्वाक्तेषु चतुर्षु अधिकरणेषु विद्यमानं व्याकरणगतदॊषान् उध्दृत्य तस्य औचित्येन प्रयोगं दर्शितम् ।