सामग्री पर जाएँ

सदस्यः:Suryakant tiwari sk

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षणम् शिक्षणम सा प्रक्रिया भवति। या निरन्तरं प्रचलति। अस्यां प्रक्रियायां शिक्षक: विभिन्नकौशलानां प्रयोगं कृत्वा छात्रेभ्यः ज्ञानं प्रददाति यद् ज्ञानं छात्रेभ्यः जीवनोपयोगी भवति। अस्यां प्रक्रियां शिक्षकः शिक्षणेन व्यवहारस्य परिवर्तनं ज्ञानस्य विकास: करोति शिक्षणस्य अर्थः “शिक्षणम्’’ इति शब्दः “शिक्ष्’’ धातोः ल्युट् (अन्) प्रत्यये कृते निष्पन्नो भवति। यस्यार्थो भवति शिक्षते अनेन इति शिक्षणम् शिक्षकेन शिक्षार्थिभ्यः कमपि विषयं अधारीकृत्य ज्ञानप्रदानस्य प्रक्रिया शिक्षणमुच्यते शिक्षणं शिक्षक:, छात्र:, पाठ्यक्रम: एतेषां मध्ये सम्बन्धं स्थापयति शिक्षणं गतिशीलप्रक्रिया वर्तते । जॉन डीवी. महोदयानुसारेण शिक्षणमेका त्रिध्रुवीयप्रक्रियास्ति , अस्यां प्रक्रियायां त्रीणि तत्त्वानि प्रमुखानि भवन्ति - छात्रः , शिक्षकः , पाठ्यवस्तु च । एतेषु सम्बन्धस्थापनं शिक्षणेन भवति । शिक्षणम् द्विधा विभक्तुं शक्यते १.व्यापकार्थे २.संकुचितार्थे च व्यापकार्थे - शिक्षणप्रक्रिया मनुष्यस्य जन्मत:मृत्युपर्यन्तं प्रचलति मनुष्य: जीवने विभिन्नक्षेत्रेषु परिस्थितिषु च पृथक पृथक विषये शिक्षणेन ज्ञानं प्राप्नोति संकुचितार्थे- निश्चितयोजनानुसारं निश्चित समये निश्चितविषयस्य यत् ज्ञानं विद्यालये विभिन्नकालांशे विभज्य छात्रेभ्य : दीयते तदेव शिक्षणम् । शिक्षणास्य परिभाषा: डॉ . बी.ओ स्मिथ् ( Dr.B.O.Smith ) महोदयानुसारम् - " शिक्षण क्रियाणां तादृशी काचित् व्यवस्था या अधिगमम् उत्पादयितु पेरयति । बर्टन ( Burtom ) महोदयस्य मतानुसारम् - " शिक्षणम् अधिगमस्य प्रेरणा , पथप्रदर्शन , निर्देशनं , प्रोत्साहनञ्च भवति । डमविल ( Dumville ) महोदयस्यानुसारम्- " शिक्षणस्य सामान्यार्थस्तावत् शिक्षकः यत् जानाति , तच्च सः छात्रान् कथयति । क्लार्क ( Clarke ) महोदयस्य शब्दैः - " छात्राणां व्यवहारपरिवर्तनार्थ प्रक्रियायाः प्रारूपं परिचालनस्य व्यवस्था च शिक्षण भवति ।

एमीडन ( Edmund Amidon ) महोदयस्य कथनानुगुणम् " शिक्षण काचित् अन्तःक्रियात्मिका प्रक्रिया या मुख्यतया कक्षागतपरिस्थितिषु कानिचित् वाच्छितलक्ष्याणि प्राप्तुं छात्रशिक्षकयोर्मध्ये जायते ।

शिक्षणस्य उद्देश्यानि १.शिक्षणस्य मुख्योद्देश्यमस्ति अधिगमस्य सरलीकरणं यस्मात् छात्रा: स्वक्षमतानुसार विषयं अवगन्तुं तस्य प्रयोग: कर्तुं समर्थ: भवेत्। २.शिक्षणस्य अर्थ: केवलं तथ्यानां सूचना प्रदानमेव नास्ति अपितु छात्रेषु अन्तर्निहित योग्यतानां कौशालानां विकास: शिक्षणेन भवति। ३.जीविकोपार्जनं प्रत्येकं व्यक्ते: जीवने महत्वपूर्णं भवति अत: छात्रेषु स्वावलम्बनस्य क्षमतोत्पादनम्। ४.छात्रेषु नेतृत्व क्षमताया: नैतिकसामाजिकं मूल्यानां विकास: ५.छात्रा: स्वास्थ्य स्वच्छता स्व परिवेशस्य प्रति जागरूका भवेत्। शिक्षणस्य स्तरत्रयं वर्तते

1. स्मृतिस्तरः 

2.बोधस्तरः 3.चिन्तनस्तरः स्मृतिस्तरः स्मृतिस्तरे बालकं कतिपयसूचनाः यथावत् स्मरणे बलं दीयते । वस्तुतः स्मृतिस्तरस्य प्रयोगः प्राथमिकस्तरीयशिक्षायां भवति । अस्मिन् अवस्थायां रटनक्षमतोपरि बलं ददाति । स्मृतिस्तरस्य प्रणेता अस्ति- हरबर्टस्पेन्सरमहोदयः 2.बोधस्तर : बोधस्तरस्य शिक्षणं तादृशी प्रक्रिया वर्तते यस्मिन् छात्रान् सामान्यीकरण - सिद्धान्त - तथ्यानां सम्बन्धे बोधः भवन्ति । स्मृतिस्तरस्य आवश्यकता बोधस्तरे भवति येन बोधस्तरीय शिक्षणं सफलं भवति । बोधस्तरशिक्षणस्य जनकः प्रो . मारीसनमहोदयः वर्तते । अस्य स्तरस्य विकासः अमेरिकायाः शिकागोविश्वविद्यालये कृतवान। 3.चिन्तनस्तर : शब्दकोशानुसारं चिन्तनशब्दस्यार्थः भवति- चिन्तनस्य कला अथवा मननस्य अत्यधिकचिन्तनम । चिन्तनस्य अवधारणं परितः भ्रमति , कस्यापि वस्तोः परिभ्रमणे नवीननिष्कर्षाणां प्राप्तिः भवति । अस्मिन् स्तरे छात्राणां चिन्तनं - तर्क कल्पनाशक्तीनामभिवर्धनं क्रियते । अस्य स्तरस्य प्रतिपादकः हूण्टमहोदयः वर्तते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Suryakant_tiwari_sk&oldid=461073" इत्यस्माद् प्रतिप्राप्तम्