सदस्यः:Sushree subhadarsini

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मूल्यशिक्षा परिचयः

भारतीयधर्मग्रन्थेषु मूल्यशब्दस्य प्रयोगः 'शील शब्दार्थे कृतोऽस्ति । शब्दोऽयं न मूल्यशब्दस्य पर्यायः अपितु तत्समवाची शब्दः । अस्य च आङ्गलपदं भवति ‘value’ इति।  ‘value’ इति शब्दः लैटिनभाषायाः ‘valere’ इति शब्दात् उत्पन्नोऽस्ति । यस्य च अर्थः कस्यचन वस्तुनः मूल्यम्, गुणम्, विश्लेषताम्उपयोगितां वा सूचयति । इदं मूल्यम् एतादृशी एका आचारसंहिताव अहोस्वित् सद्गुणानां समूहः भवति, यत् मूल्यमाधारीकृत्य व्यक्तिः स्वीयं व्यक्तित्वविकासं कर्त्तुं समर्थः भवति । अत्र मानवस्य धारणा, विचारः, विश्वासः, मनोवृत्तिः, तथा स्थितिः च समन्विताः भवन्ति । जीवने शीलमेव सद्गुणसाधनम् । यत्र शीलं तत्रैव धर्मः, सत्यं, तेजो, बलं च निवसन्ति । शीलेन त्रिभुवनमपि जेतुं शक्यम् उक्तं च महाभारते-

″शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।

नहि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ।।‶

भर्तृहरिणाप्युक्तम् –

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।

महात्मना बुद्धेन शीलगुणस्य महत्वं वर्ण्यते यत् –

चन्दनं लगरं वापि उत्पलम् अथ वस्तिकी । एतेसं गन्धजातानं शीलगन्धो अनुत्तरो ।।

तेषां सम्पन्नशीलतानां अप्पमादविहारिनं । सम्मदञ्चाविमुत्तानं मारो मग्गं न विन्दति ।।

जॉन. जे. काने (Jhon. J. Kank)महोदया वदति –

मानव-मूल्यानि आदर्शस्वरुपाणि विश्वसनीयानि मानवरूपाणि च भवन्ति । यानि सामाजिकसमस्याः समाजश्च स्वजीवने अङ्गीकुर्वन्ति ।

(Values are Ideals, beliefs or norms which as society or the large majority of a society’s members hold. “Jhon.J.Kank)

Barten Parry महोदयस्य मते –

″यः मूल्यं प्रददाति तस्य, तथा च तत् वस्तुनः मध्ये विद्यमान परस्परसम्बन्ध एव मूल्यम् इति ‶

(Value can be defined as the relation of an object to a valuing subject Barten Parry)

अर्थात् बोधयति । तथा च साररुपेण वदामश्चेत् समाजे व्यवहर्तुं योग्याः गुणाः आत्मसात्करणीयाः गुणाः अनुष्टेयाः गुणाः एव मूल्यम् इती वक्तुं शक्यते ।

मूल्यधारितशिक्षायाः दश आधारस्तम्भाः (The Tem Pillars of value based Education) –

भवनस्य दृढता तदा न सम्भवति यदा तस्याधारभूतस्तम्भाः सशक्ताः न भवन्ति । अत एव भवननिर्माणकारः स्तम्भान् दृढीकृत्य तस्योपरी अट्टलिकां रचयति । एवमेव यदा शिक्षाशास्त्रिणः आदर्शबालकरुपभवनस्य निर्माणं चिकिर्षन्ति तदा ततः पूर्वं मूल्याधारित दशस्तम्भान् दृढीकृत्य बालकस्य मस्तिष्के निवेशयेयुः , येन बालकः पूर्णरुपेण सशक्तः भवेत्, ते च दश आधारस्तम्भाः निम्नोक्ताः – 1) सदाचारपालनम् , 2)अहिंसापालनम्, 3)सत्यपरिपालनम्, 4)मातृपितृगुरुभक्तिः , 5)पारलौकिकभावनायाः जागरणम् , 6)धर्माचरणम्, 7)परोपकारः , 8)समाजसेवा (राष्ट्रसेवा), 9)विश्ववन्धुत्वभावना, 10)पुनर्जन्मभावनायाः जागरणम् ।

मूल्यानां प्रकाराः (Kinds of Values)

सत्य मतभेदेषु सन्ति पञ्चधा मूल्यानां प्रकाराः इति वदन्ति शिक्षाशास्त्रिणः तानि –

नैतिकमूल्यानि(Moral values)

आध्यात्मिकमूल्यानि (Spiritual values)

सामाजिकमूल्यानि(Social values)

शैक्षिकमूल्यानि (Educational values)

राष्ट्रियमूल्यानि(National values)

शिक्षाक्षेत्रे मूल्यसमक्षोभकारणानि –

शिक्षाक्षेत्रे मूल्यसंक्षोभकारणानि अद्योलिखितानि भवन्ति तानि च –

अस्माकं देशे प्रजातन्त्रव्यवस्था वर्तते । परम् इदानीं यावत् वास्तविकरुपेण सामाजिक-आर्थिक-प्रजातन्त्र-व्यवस्था न संसाधिता । अतः शिक्षाक्षेत्रे मूल्यसंक्षोभः जायते ।

परम्परागतमूल्यानां स्थाने नवीनानि मूल्यानि समाजावश्यकतानुगुण्येन परिवर्तितानि ।

वैदेशिको शिक्षापद्धतिमाद्धत्य सम्प्रति भारतीय शिक्षा प्रचलति ।

शिक्षायाः औद्योगिकीकरणम् ।

अध्यापकेषु नैतिकमूल्यानां क्रमशः ह्रासः भवति ।

छात्रेषु विनयप्रवृत्तेः सुतरामभावः, नैतिकगुणानाञ्च ह्रासः, जायमानः अस्ति ।

महाविद्यालयेषु विश्वविद्यालयेषु च छात्रसंघल्थापनम् छात्राणां नेतृत्वकामना राजनैतिक-दल-सम्बन्धद्वारा महत्त्वाकांक्षा-पूर्ति कामना च ।

शिक्षापद्धतेः दोषपूर्णत्वम् ।

परीक्षाप्रणाल्याः अत्यन्तदोषाकुलत्वम् ।

मूल्यसंक्षोभपरिष्काराय उपायाः –

शिक्षाद्वारा प्रजातन्त्र-व्यवस्थायाः विकासः सम्पादनीयः ।

नैतिकताया, साम्यवादभावनायाः च विकासः सम्पादनीयः ।

राष्ट्रैक्यता, विश्ववन्धुत्वादिभावना छात्रेषु संवर्धनीया ।

मानवतावादः , आदर्शवादः , ईश्वरवादः तथा आध्यात्मवादः प्रचारे आनेतव्याः ।

आचारवन्त एव शिक्षकाः शिक्षणालयेषु विनियोज्याः ।

छात्रेष्वाचारशिक्षायाः अनिवार्यत्वं स्यात् ।

छात्रसंघ-सदस्यत्वम् ऐच्छिकं स्यत् ।

परीक्षा-प्रणाली-दोष-वारणार्थ मासिक-परिक्षा-शलकापरीक्षा-मौखिकपरीक्षादिकम् आयोजनीयम् ।

अध्यापकाध्येतृषि प्राचिनो गुरुशिष्यसम्बन्धः संस्थापनीयः ।

सन्दर्भग्रन्थाः –

1)शिक्षायाः दार्शनिकाधाराः   2)मानवाधिकारोपेतमूल्यशिक्षा   3)महाभारतम्    4)भर्तृहरिनीतिशतकम् 2.1.83    5)धर्म्मपदम् 4.92


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sushree_subhadarsini&oldid=442756" इत्यस्माद् प्रतिप्राप्तम्