सामग्री पर जाएँ

सदस्यः:Sushree swayam pragnya 51

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
             व्यक्तित्वम् 
          (Personality)

शिक्षायाः उद्देश्येषु अन्यतमं वर्तते सम्पूर्णव्यक्तित्वस्य विकासः। अतः अध्यापकाः व्यक्तित्वस्य अर्थः, सिद्धान्ताः, मापनम् इत्यादिविषयान् जानीयुः। सामान्यतः लोके शारीरिकसंरचना, स्वास्थ्यं, सौन्दर्यम्, वेषभूषा इत्यादीन् सामान्यगुणान् व्यक्तित्वम् इति लौकिकाः प्रयुयुञ्जुः। कदाचित् अन्नपानादिन् भाषणशैली चलनशैलीञ्च दृष्ट्वा व्यक्तेः विषये सामान्यीकरणं कुर्मः। यथा - अयं भोजनप्रियः, अयं वाग्मी, अयं मितभासि, अयं भ्रमणशिलः इत्यादि। यथोक्तं पञ्चतन्त्रे -

    आकारैरिङि्गतैर्गत्या चेष्टया भाषणेन च |
    नैत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मन:|| इति|

पुनः कदाचित् व्यक्तेः चरित्रस्य नैतिकतायाश्च पर्यायत्वेन व्यक्तित्वशब्दस्य प्रयोगं लोके अवलोकयामः। यथा - अयम् उत्तमः, अयं दुष्टः, अयं कामुकः, अयं लोभी, अयं भीरुः, अयं सूरः, अयं सामाजिकः, अयम् एकाकी इत्यादयः गुणाः अथवा अबगुणाः प्रतिपादिताः। मनोविज्ञानदृष्ट्या व्यक्तित्वम् इति व्यापकभावना वर्तते। व्यक्तित्वम् इत्यस्य आङ्लभाषायां personality इति समानार्थकशब्दः वर्तते। आङ्ग्लभाषायां personality शब्दः व्यक्तेः बाह्यगुणान् आचारव्यवहारांश्च द्योतयति। वस्तुतः लाटिनभाषायाः persona इति शब्दात् personality इति शब्दः निष्पन्नः। Persona इत्यस्य लाटिनभाषायां मुखाबरणम् (Mask) इत्यर्थः। अर्थात् रङ्गमञ्चे विविधाः नटाः आत्मनः स्वभावं गोपयित्वा अन्यव्यक्तिनाम् अभिनयं कुर्वन्ति। तथैव नित्यजीवने जनाः वास्तविकव्यवहारं गोपयित्वा भिन्नव्यवहारं प्रदर्शयन्ति। अतः विविधाभिः प्रक्षेपकअप्रक्षेपकपरीक्षाभिः व्यक्तेः गूढव्यवहारं ज्ञातुं प्रयत्नः क्रियते।

व्यक्तित्वस्य परिभाषा :-

मनोबिज्ञाने व्यक्तित्वस्य बहवः परिभाषा समुलभ्यन्ते । एताः परिभाषाः कस्याश्चित् व्यक्तेः शारीरिक - मानसिक - सांबेगिक - सामाजिक - आध्यात्मिकगुणान् द्योतयन्ति। ताः यथा -

गिल्फोर्ड महोदयस्य मते - व्यक्तित्वं गुणानां समष्टिस्वरूपं वर्तते।

बुडबर्तमहोदयस्य मते - सामाजिकसमायोजनेन प्राप्तव्यवहार बिशेषताः एव व्यक्तित्वम् इति कथ्यते।

द्रेवरमहोदयस्य मते - कस्यचित् व्यक्तेः शारीरिक - मनसिक - नैतिक - सामाजिकगुणानां समष्टिस्वरूपमेव व्यक्तित्वम् इति कथ्यते। एतत् सामाजिकजीवने अनैः सह विचाराणाम् आदानप्रदाने स्पष्टीभवति।

मर्टन प्रिन्समहोदयस्य मते - व्यक्तेः जैविकान्तर्गत गुणाः, प्रचोदनाः, प्रवृत्तयः, इच्छाः, सहजाताः इत्यादीनां समष्टिस्वरूपमेव व्यक्तित्वम् इति कथ्यते। अत्र अनुभबेन प्राप्तगुणाः, प्रवृतयश्च अन्तर्भवति।

आर.वि. केटिलमहोदयस्य मते - प्रदत्तपरिबेषे कस्याश्चित् व्यक्तेः व्यवहारस्य भाविकथनमेव ब्यक्तित्वमिति बक्तुं शक्यते।

व्यक्तित्वं प्रभाबयन्ति कारकाणि :-

व्यक्तित्वे शारीरिक - मानसिक - सामाजिक - सांबेगिक चारित्रिकादयः गुणाः अन्तर्भवन्तीति पूर्वोक्तपरिभाषभिः ज्ञायते। पूर्वोक्तगुणान् कानि कारकाणि प्रभावयन्ति? इति जिज्ञासायां तत्रासङ्ख्याकानि कारकाणि अन्तर्भवन्ति। परन्तु अध्ययनसौकयार्थं शारीरिककारकाणि, पारीबेषिककारकाणि इति द्विधा विभागं कर्तुं शक्नुमः।

शारीरिक कारकाणि(Physical factors) --:

  प्रत्येकं व्यक्तिः जन्मतः कानिचन शारीरिक - मानसिकलक्षणानि पूर्वबंशजेभ्यः प्राप्नोति। व्यक्तेः बर्णः,  शरीराकृतिः, भारः, शारीरिकसामर्थ्यम्, स्वास्थ्यम् इत्यादयः बहबोप्यशाः बंशानुक्रमेण प्रभाबिताः भवन्ति। तत्र अधो निर्दिष्टांशाः प्रधानतया भवन्ति। 
  • शरीराकृतिः। व्यक्तेः सौन्दर्यम्, शारीरिकदृढता, दुर्बलता च व्यक्तित्वं प्रभावयन्ति। सुन्दराः जनैः शीघ्रमाकृष्टाः भवन्ति। सामान्यतः तेषाम् आत्मविश्वासोऽपि अधिकः भवति। दुर्बलानां विषये जनेषु किंचितुपेक्षाभावः भवति। पुनः बिकलाङ्गेषु (अन्धः, बधिरः, पङ्गुः इत्यादिषु) आत्मन्युनताभावः भवति। अतः शरीरकृतिः व्यक्तित्वं प्रभाबयतीति वक्तुं शक्यते।
  • ग्रन्थयः। शरीरस्य अन्तः बिद्यमानग्रन्थयः व्यक्तित्वं प्रभावयन्ति। पिट्युटरी(pituitary), थैरायिड(Thyriod), गोनाड(Gonad) इत्यादिभ्यः ग्रन्थिभ्यः विविधस्राबाः निर्गत्य रक्ते सम्मिलन्ति। एते व्यक्तेः अभिवृद्धिबिकासौ साक्षात् प्रभावयन्ति। यथा - पिट्युटरी ग्रन्थिः शरीरस्य सर्वग्रन्थीन् नियन्त्रयति। एतस्य स्रावः अधिकश्चेत् उन्नतः, न्यूनश्चेत् वामनः भवति। कदाचित् खर्वोऽपि (Dwart) जायते। थैरायिडग्रन्थिः, शरीराकृतिं, कण्ठस्वरं, मानसिकसामर्थ्यानि च नियन्त्रयति। अड्रिनलग्रन्थि: संवेगान् प्रभावयति। एतस्य न्युनतायां क्रोधस्वभावः आधिक्ये सति पलायनप्रवृतिश्च भवति। गोनाडग्रन्थ्या बालकबालिकासु गौणलैङ्गिकलक्षणानां, पुनरुत्पादकावयवानाञ्च विकासः जायते।
  • नाडीमण्डलम्। इन्द्रियैः रूप - रस - गन्ध - ध्वनि - स्पर्श आदिज्ञानप्राप्तये नाडीमण्डलम् अत्यन्तमुपकरोति। केन्द्रनाडीमण्डलं, स्वयंचालितनाडीमण्डलं, संयोजकनाडीमण्डलं च व्यक्तेः सर्वाणि कार्याणि नियन्त्रयति। नाडीमण्डलस्य तन्तवः शरीरे सर्वत्र प्रसार्य सर्वकार्याणि सम्पादयन्ति। यथा - व्यक्तेः प्रत्यक्षीकरणम्, रक्त्सञ्चारः, श्वासनिश्वासः, जीर्णव्यवस्था, शारीरिक - मानसिक - प्रतिक्रियाः इत्यादिकार्याणि नाडीमण्डलं प्रभावयति। एतत् व्यक्तेः विविधसंवेगानां नियन्त्रणं करोति। अतः नाडीमण्डलस्य समुचितविकासः व्यक्तित्वविकासे अत्यन्तं साहाय्यमाचरति।
  • स्वास्थ्यम्। उत्तमशारीरिक - मनासिकस्वास्थ्यमपि व्यक्तित्वं प्रभावयति। दीर्घकालिकाऽस्वास्थ्यं मानसिकाऽस्वास्थ्यञ्च व्यक्तित्वस्य घातके भवतः। स्वस्थः मनुष्यः विद्यालये समाजे च सर्वकार्यक्रमेषु भागं गृह्णाति। अतः तस्य व्यक्तित्वविकासः वेगेन संभवति।
     इथं शरीराकृतिः, ग्रन्थयः, नाडीमण्डलं, स्वास्थ्यम् इत्यदिशारीरिककारकाणि व्यक्तित्वं प्रभावयन्ति। वस्तुतः सर्वाण्येतानि वंशानुक्रमेण प्रभाविताः भवन्ति। अत एतेषां वंशानुक्रमकारकाणि इत्यपि वक्तुं शक्नुमः। 

पारिवेषिककारकाणि(Environmental factors)--:

                 वंशानुक्रमादनन्तरं परिवेषः  व्यक्तित्वम् अत्यन्तं                                                                         
      प्रभावयति। मनुष्यस्य     अभिवृद्धिविकासयोःपरिवेषस्य  प्रभावं   द्वितीयाध्याये      अपठाम। तथैव व्यक्तित्वे परिवेषस्य       प्रभावं   परिशीलयामः।
            *गृहं परिवारश्च।  बालकः जन्मतः वर्षत्रयं यावत् गृहे        एव तिष्ठति। अतः तस्मिन् समये गृहवातावरणं बालकम् अत्यन्तं प्रभावयति। मातापित्रोः शिक्षा, तयोः परस्परसम्बन्धः, तयोः इच्छा:, अभिरुचयः, तयोः सामाजिक सांबेगिक व्यवहारश्च बालानां व्यक्तित्वमत्यन्तं प्रभावयन्ति। तथैव परिवार सदस्यानां मध्ये सम्बन्धः, बालके तेषां प्रीतिः आदरः, परिवारे बालानां संख्या, बालकस्य जन्मक्रमः, परिवारस्य सामाजिक आर्थिकस्थितिः, समष्टिपरिवारः, व्यष्टिपरिवारः इत्यादिकारकाणि अपि विशेषरीत्या व्यक्तित्वं प्रभावयन्ति। 
             *विद्यालयः।   आधुनिकयुगेऽस्मिन् बालान् तृतियबर्षे एव क्रीडाविद्यालयं(Play school) प्रेषयामः। ततः प्रभृति १२ अथवा १३ वर्षाणि बालः निरन्तरं विद्यालयं गच्छति। विद्यालये अध्यापकस्य, प्रधानाध्यापकस्य सहच्छात्राणाम् च गुणाः, पाठ्यक्रमः, शिक्षणपद्धतयः, पाठ्येतरकार्यक्रमाः, अनुशासनम् इत्यादयः बालान् प्रभावयन्ति। तत्रापि विशिष्य शिक्षकस्य पाण्डित्यं, भाषा, व्यक्तित्वं, प्रीतिः, स्नेहः, आदरः, अनादरः,इच्छा, अभिरूचयः च बालान् प्रभावयन्ति। यतः शिक्षकः च्छात्राणाम् आदर्शः(Role model) भवति। तस्य सर्वाणि कार्याणि बालाः अनुकुर्बन्ति।
        *समाजः।  गृहबिद्यालययोः अनन्तरं सामाजिकपरिवेषः बालकान् अत्यधिकं प्रभावयति। बालकः प्रतिवेशिनां गृहं गत्वा     समवयस्कै: सह क्रीडति। क्रीडादिकार्यसमये सः भाषा, अनुशासनम्, आत्मविश्वासः, नेतृत्वं, सामाजिकता इत्यादिगुणान् अर्जयति।
                     समाजस्य आचरव्यवहाराः, जीवनपद्धतिः, मूल्यानि च व्यक्तित्वम् प्रभावयन्ति। तथैव समाजे प्रसिद्धव्यक्तयः, राजकीयनेतारः, धार्मिकपुरुषाः, कवयः, विनोदकार्यक्रमाः, क्रीडा उत्सवाः, सेवाकार्यक्रमाः, धार्मिक उत्सवाश्च बालेषु परिवर्तनम् आनयन्ति। बालाः भाषां, बेषभूषाम्, अभ्यासान्, अभिवृत्तीः, मूल्यानि, विश्वासान्, अभिरुचींश्च सामाजिकपरिवेषात् प्राप्नुवन्ति। 
         *सांस्कृतिकवातावरणम् ।   भारतदेशः धर्मप्रधानदेशः  वर्तते। अत्र विभिन्न धर्मीयाः(हिन्दु, मुस्लिम, बौद्ध, क्रिस्त) सह जीवनं कुर्वन्ति। विभिन्नप्रान्तेषु भिन्नधर्माणां प्रभावः वर्तते। पुनश्च भारते बह्व्यः भाषाः सन्ति। एकस्मिन्नेव राज्ये विभिन्नवर्गेषु आचारव्यवहाराः समानाः न सन्ति। अतः धर्म- जाति - वर्ग - प्रान्त - भाषाभेदेन तेषां संस्कृतिः, जीवनविधानम् च भिद्यते। मन्दिरादिषु धार्मिक प्रवचनान्यपि व्यक्तित्वं प्रभावयन्ति। देशप्रेम, गुरुभक्तिः, ज्येष्ठेष्वादरः, आज्ञापालनं, कर्तव्यपालनं, दया,  सहिष्णुता   इत्यादयः गुणाः धर्मेण संस्कृत्या च प्रभाविताः भवन्ति।                    *जनसंचारमाध्यमानि। २१ तमशताब्धां  सामाजिकविकासे आकाशवाणी, दूरदर्शनम्, चलनचित्रम्, समाचारपत्रम्, अन्तर्जालम् इत्यादिजनसंचारमाध्यमानां महद्योगदानं वर्तते। दूरदर्शनादिषु प्रसार्यमाणाः विविधाः कार्यक्रमाः परोक्षतया व्यक्तितत्वं प्रभावयन्ति। चलनचित्रेषु धारावाहिककार्यक्रमेषु च नायक - नायिकयोः नटानाञ्च वस्त्रधारणम्, अलङ्कारः, भाषा इत्यादयः कौमारान् अन्यांश्च प्रभावयन्ति। एतेषु प्रसारितैः असामाजिक - हिंसात्मक - घटनाभिश्च  लोकः प्रभावितो दृश्यते। 
               एवं बुद्धिशक्तिः, मानसिकसामर्थ्यम्, इच्छा:, अभिरुचयः, आकांक्षास्तरः, अभिप्रेरणम्, इच्छाशक्तिः(Will power), सकारात्मकचिन्तनम्, इत्यादीनि मनोवैज्ञानिककारणानि अपि व्यक्तित्वं प्रभावयन्ति।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sushree_swayam_pragnya_51&oldid=461051" इत्यस्माद् प्रतिप्राप्तम्