सामग्री पर जाएँ

सदस्यः:Swarnalata 2015/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वसिष्ठस्मृतिः

स्मॄतेः अपरं नाम धर्मशात्रम् । वेदात् सर्वेषां यर्थाथ ज्ञानं न सम्भवति । वेदानां वैभिन्न्याव्देदज्ञानानां कालक्रमेण विपर्ययच्च कृत्याकृत्यज्ञानय जनसाधारणेन वेदज्ञानामनुशासनत्याश्रितनि। तस्मात् वैदिकर्मनुयाज्ञवल्क्यगौतमवैसिष्ठादिमहर्षिभिः वेदतत्वार्थाभिधायकानि  कृत्याकृत्यप्रतिपादकानि धर्मशात्राणि उपनिबद्धनि । तान्येव धर्मशात्राणि कथ्यन्ते  । “आचार- व्यवहार-प्रायश्चित्तभेदेन पादत्रितयविशिष्टं सकलं धर्मशात्रम्” ।धर्मशात्रे वसिषठस्मृतिः - 

                धर्मशात्रे वसिष्ठस्मृतिः विशिष्टं स्थानं धर्ते । वैसिष्ठस्मृतेः श्रौतसूत्रं गृह्यसूत्रं चोभयमनुपलभ्यते ।अस्यां स्मृतौ ॠग्वेद-कृष्णयजुर्वेदीयतैतरीय-संहिता-शुक्लयजुर्वेदीयशतपथब्राह्म्ण-मैत्रायणीसंहिता मनुस्मृतिप्रभृतिनां प्रभावः परिलक्ष्यते।इयं स्मृतिः विशेषतः ॠग्वेदानुयायिभिः परिगृहीतेति कुमारीलभट्टः तन्त्रवार्तिके पू-१७९ प्रतिपादयतिपुराणमानवेतिहासव्यतिरिक्तगौतमवसिष्ठशंखलिखितहारीतापस्तम्बबैधायनादिप्रणीतधर्मशात्राणां गृह्यग्रन्थानाम् च प्रातिशाख्यलक्षणवत् प्रतिचरणं पाठव्य्वस्थोपलभते। 
 =वैसिष्ठस्मृतेःविषयाः-=
प्रथमाध्याये-धर्मजिज्ञासा, आर्यावर्तदेशमहत्वम्,महापातकोपपातकानि,षड्विवाहश्च । अथातः पुरुषनिः श्रेयसार्थं धर्मजिज्ञासा॥ एबम् रुपेण ग्रन्थम् प्राम्भ्म्   भवति।    
व्दितीयाध्याये- वर्णत्रयस्य व्दिजत्वम्, अध्ययनावश्यकत्वम्,जीविकाविचारश्च।
तृतीयाध्याये-वेदमनधीयानस्य व्दिजस्य शूद्रवत् स्थितिः, आततायिब्राह्मणवधे न दोषः, धर्मकथने अधिकरणः,आचमनप्रकारः,भूम्यादीनां शुद्ध्युपायाश्च ।  
चतुर्थाध्याये-  संस्कारविशेषतश्चातुर्वर्ण्यम् ,देवतातिथिपूजायां पशुवधे न दोषः, अशौचविचारश्च ।  
पंचमाध्याये –स्त्रीणां स्वातन्त्र्यअभावः , रजस्वलास्त्रीणां नियमाश्च ।                             
षष्ठध्याये- आचारादर्शः ।
सप्तमाध्याये – ब्रह्माचारिधर्मनिरुपणम् ।
अष्टमाध्याये – गृहस्थाश्र्मधर्माः                                                             
नवमाध्याये- वानप्रस्थधर्मणां निरुपणम्।
दशमाध्याये- यतिधर्मनिरुपणम्।  
एकादशाध्याये- षट्कर्मणो    व्दिजस्यातिथिभोजनविचारःशार्द्धविचारः,व्दिजानामुपनयनकालदन्दजिनवस्त्रभिक्षाविचारश्च                                                                  
द्वादशाध्याये-स्नातकव्रतानांनिरुपणम्                                                                                                         
त्रयोदशाध्याये –स्वाध्यायोपाकर्मनिरुपणम् ।
चतुर्दशाध्याये-  भक्ष्याभक्ष्यविचारः ।   
पन्चदशाध्याये- पुत्रदानप्रतिग्रहविचारः, दत्तकपुत्रस्य धनप्राप्तिविचार श्च ।
षोडशाध्याये- व्यवहारनिरुपणम्,   साक्षिप्रश्नविधानम्, सत्यसाक्ष्यस्य महत्त्वञ्च
सप्तदशाध्याये- पुत्रप्रशंसा दायभागश्च
अष्टादशाध्याये – प्रतिलोम्येनोत्पन्नानां चाण्डालादीनां निरूपणम्, शूद्रस्य धर्मोपदेशानार्हत्वदथनञ्च
एकोनविंशाध्याये-राजधर्मनिरुपणम्
विंशाध्याये- ब्रह्मघ्नादीनां प्रायश्चित्तनिरूपणम्
एकविंशाध्याये-वर्णत्रयस्य ब्राह्मणीगमने प्रायश्चित्तं, गोहत्याप्रायश्चित्तयं च 
द्वाविंशाध्याये- ब्रह्महत्यप्रायश्चित्तम्
त्रयोविंशाध्याये- स्र्तीसङ्गमन- मध्यपानकारणात् ब्रह्मचारिणाः प्रायश्चित्तम्
चतुर्विंशाध्याये – कृच्छतिकृच्छप्रायश्चित्तम्
पञ्चविंशाध्याये- गोपन प्रायश्चित्तम्, स्वल्पप्रायश्चित्तंच 
षड् विंशाध्याये – प्राणायाममहत्वम्
सप्तविंशाध्याये- पापशोधकसूक्तादीनि
अष्टाविंशाध्याये- स्र्तीजातिप्रशंसा, अघमर्षणादिसूक्तप्रशंसाच
एकोनत्रिंशाध्याये- विविधदानम्
त्रिंशाध्याये- धर्मप्रशंसा, सत्यप्रशंसा, ब्राह्मणप्रशंसाच |

..........