सदस्यः:Swastika98
प्रायश्चितम्
प्रायश्चित्तेषु प्ररोचनार्थ कर्मविपाकाधिकारिणः
विहितस्याननुष्वानान्निन्दितस्य च सेवनात् । अनिग्रहाच्येन्द्रियाणां नरः पतनमृच्छति ।। तस्मात्तेनेह कर्त्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकचैव प्रसीदति ।।
प्रायश्चत्तमूलानि कारणानि विधार्य एवं यानि यानि वेदविहितकर्माणि सन्ध्योपासन अग्निहोत्रादीनि सन्ति तेषाम् अकरणात् नैमित्तिकस्नानादि अभावात्. निषिद्धस्य सुरापानादिकरणात्, वेदप्रतिषिद्ध अभक्ष्याभक्ष्य अपेयापेयसेवनात्, तथाविध अन्यदपि कामवादकामभक्षयथेच्छाचरणात् इन्द्रियाणामनिगृहात्, ऐ न्द्रियविषयेषु शब्दरूपरसगन्धस्पर्शादिषु अनियन्त्रितप्रवृत्तिवशात् नरः पतन प्राप्नोति नरकं गच्छति।
अकुर्वन्विहित कर्म निन्दितं च समाचरन्। प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ।।
श्लोकस्यार्थः यत् विहित् कर्माणि अकुर्वन्, निन्दितकर्माणि समाचरन् इन्दियार्थेषु च अत्यधिक उपभोग कुर्वन् नरःप्रायश्चित्तं कर्तुं शक्यते। एतादृशो नरः प्रायाचित्ताधिकारी भवति। अस्मादेवकारणात् पापक्षयार्थं प्रायश्चित्तविधानाद्, जन्मजन्मांतरेषु आचरितनिषिद्धकर्मजन्यपापानां समाप्यर्थ। अतः प्रायश्चित्तशब्दोऽयं पापक्षयार्थं निमित्तिके कर्मणि विशेषे रुढः।
पञ्चमहापातकानि
ब्रह्महा मद्यपः सोनस्तथैव गुरुतल्पगः। एते महापातकिनों पह तैः सह संवसेत् ।
ब्रह्महा बाह्मणवधकर्ता। मद्यपः निषिद्धसुरापानकर्ता। स्तेनः । बाह्मणादीनां सुवर्णहर्ता। गुरुतल्पगः (गुरुभार्यागामी। एते सर्वे महापातकिनी भवन्ति तथेतैः सह ये निवसन्ति ते अपि महापातकिन एवं भवन्ति। अत एवं पञ्चमहापातकिनो भवन्तीति भावः । अन्यान्यपि पापानि एतेषा समानानि भवन्ति ।