सदस्यः:Swatisibani nayak123

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगदर्शने जीवस्वरूप विश्लेषणम्

अस्य दर्शनस्य प्रवर्त्तकः महर्षि पतञ्जलिः आसीत् । श्री पतञ्जलिः शेषवतारभूतः विद्वान् व्याकरण महाभाष्यकारश्च आसीत् । योगश्चित्तवृत्ति निरोधः इति योगस्य परिभाषा योगसूत्रकारेण उदाहरणम्।
  चित्तस्य पञ्चअवस्थाः सन्ति । क्षिप्त –  मूढ-विक्षिप्त-एकाग्र – निरुद्धरस्यासु विद्यमानं भवति । क्षिप्तभूमिं रजगुणवहुला भवति । मुढभूमिः तमगुणवहुला भवति। 

विक्षिप्तभूमिः सत्वप्रधाना मन्यते । चित्तस्य सर्वासु वृत्तिषु तत्ववृत्तिनां संस्कारमात्रेण युक्तं चित्तं निरूढं च भवति । योग दर्शने पुरुषस्य दैविध्यं स्वीकृतम् । जीवः ईश्वरश्चेति । तत्र योगसूत्रकारेण ईश्वरारः एवं लक्षितः यथा क्लेशकर्मविपाकशयैः अपरामृष्टः पुरुषविशेषः ईश्वरः ।किमयम् ईश्वरः स जीव एव यः सत्वपुरुषा- त्यताख्यातिः प्राप्य क्लेशादिभिः अपरामुष्टताम् अभ्युपयति।

            वादरायणेन एवम् यत् कश्चित् जीवः किन्तु जीवचर्या भिन्नः । जीवास्तु कैवल्यं प्राप्ताः वहवः ईदृशाः भवति । ये कैवल्यं काले क्लेशादिभिः अपरामृष्टतां लभते । यत् क्लेशकर्मविपाकाशयैः परामृष्टः पुरुषः जीवः इति । किन्तु इदमत्रावधेयम् यत् सांख्यशास्त्र इव योगशास्त्रः अपि जीवः पुरुषशब्ददेश्चः क्लेशादयः अपि वस्तुनां वुद्धिरेव धर्माः । चित्तनदीनि-                  

मग्नत्वादेव पुरुषस्य तस्याः संसार कैवल्यं लक्षणाभ्यं तरङ्गाभ्याम् उपगृहनम् । एतन्मते जीवो हि द्रष्टा । शब्दाद्याकारेण परिणता वुद्धिश्च दृश्चा । तयो संयोगे हेयस्य सर्वविध दुःखजातस्य हेतुः । दुःखजातमपि सर्व वुद्धिगतमेव पुरुषतत्व प्रति संवेदनं च चितिच्छायापत्या एव उपपद्यते ।तथा हि चित्या वस्तुदृशा असम्पृक्तमपि वृद्धिसत्वम् समापत्र चैतत्यामिव शब्दद्यनुभवति ।तादृशं च अस्य वुद्धिसत्वं स्वं भवति । तदएव वुद्धिसत्वं शव्दाद्या कारणात् दृश्चम् अयस्कातर्माण कल्पं पुरुषस्य स्वं भवति दृश्चरुपस्य अस्ति ।

                       दृष्टादृश्यर्याः संयोगश्च न स्वाभाविकः । तथा सति सम्वर्धिना नियतया सम्वन्धास्चपि स्वाभाविकतया च तदुच्छया पुरुष कैवल्यस्यानुपपत्तिः । अतः कारणतः तस्मनिसत्वे परास्पराश्रनप्रसङ्गात् अनादि संसारस्य च स्यात्।सांख्यनये वृद्धितत्वेन सह अविवेकवशात् तद्धमति अखिलान् स्वस्मिन् प्रतिविम्बयन् पुरुषः एव जीवः स यदा बुद्धिर्ण्यापरिणैव वृद्धिः सम्पद्दते तदा पुरुषः स्वस्वरुपावस्थानलक्षणं कैवल्यं लभन्ते। दृश्य अर्थात् प्रकृति स्वरुप –प्रकर्षण करोतिः भवति।सृष्टिः मूलभृतः सत्वरजस्तमसां साम्यवस्यां एव प्रकृतिः प्रकृतिस्वरुपः विषये योगसुत्रे अस्ति ।
     प्रकाश क्रियास्थितिशीलं प्मृर्तान्दियात्याकं र्भागपदर्गाथ दृश्यम् ।अतः पुरुषःसदाज्ञात विषयत्वात् स्वार्थः वुद्धिः ज्ञातज्ञात विषयात् परार्थः अतः सृष्टि कर्ता ईश्वरः अङ्गीक्रीयते । ईश्वर सत्वे अनुमानमपि प्रमाणम् । यदि सर्वस्यापि मूलम् अत्विष्यते तर्हि सर्वास्यापि ज्ञानस्यापि मूलम् ईश्वरः उच्यते । प्रकृतिपुरुषयोः संयोगवियोगयोः कारण किञ्चित् अस्तित्वैव सः हेतु ईश्वरः ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Swatisibani_nayak123&oldid=449703" इत्यस्माद् प्रतिप्राप्तम्