सदस्यः:Tapaswin Das
वर्तमानशिक्षायां सांस्कृतिकशिक्षायाः समुपादेयता
वर्तमानशिक्षायां सांस्कृतिकशिक्षाया तात्पर्यं वर्तते यत् संस्कृतिः सा जटिलसमग्रता वर्तते, यस्यां ज्ञान-विश्वास-कला-नैतिकता-प्रथा-अन्योग्यतानां च अभिवृत्तयः सम्मिलिताः भवन्ति, यं मानवाः समाजस्य सदस्य रूपे प्राप्नुवन्ति। संस्कृतिः अस्माकं स्वभावस्य अभिव्यक्तिः वर्तते। या अस्माकं परिवेशस्य चिन्तनस्य च रीतिषु-कलासु-साहित्येषु धर्मे मनोरञ्जने समुल्लासेषु च अस्माकं प्रतिदिवसं समागमनं प्रकटितं भवति इति। संस्कृतिविषये भारतीयानां मतं वर्तते यत् संस्कृतेः संस्कारयोश्च अभिन्नसम्बन्धो वर्तते। यतो हि संस्कृतेः मूले संस्कारास्य आवश्यकता वर्तते। अतः उत्तमसंस्कारः एव संस्कृतिः वर्तते। अतः पञ्चतन्त्रे निहित-सांस्कृतिकशिक्षायाः आवश्यकता एतदर्थं महत्वपूर्णां वर्तते। येन मानवमस्तिके प्रवृत्तिः निर्मितो भवेत् यत् संस्कारः एव अस्माकं संस्कृतेः रक्षणे समर्थोऽस्ति । अस्माकं संस्कारस्य नष्टे सति संस्कृतिः स्वयमेव नश्यति। पुनः यस्य राष्ट्रस्य संस्कृतिः सभ्यता न नष्टो भवति तद्राष्ट्रं स्वयमेव अस्तित्वहीनो भवति। आचार्यचाण्क्येन कथितं यत् "कश्चित् पराजितराष्ट्र तावत् पराजितो न भवति यावत् सः स्वकीयसंस्कृतेः सभ्यतायाश्च संरक्षरणे समर्थो भवति।" अतः अस्माकं संस्काराणां संरक्षणे पञ्चतन्त्रे निहितशैक्षिकतत्त्वानि समर्थानि सन्ति। अतः तानि शैक्षिकतत्वानि वर्तमानशिक्षायामापेक्षितानि सन्ति।