सदस्यः:Tejhas/प्रयोगपृष्ठम्
भारतीयसंस्कृतिः
1.) विश्वे प्रसिद्धो जनतत्न्त्रयुत: देश: एष: । 2.) सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । 3.) बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । 4.) भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । 5.) विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । 6.) एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन । 7.) हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । 8.) समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । 9.) तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । 10.) चतुर्थे स्थाने अस्ति बौद्धधर्मः । 11.) एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । 12.) भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । 13.) अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । 14.) भारतस्य पमुखः धर्मः हिन्दुधर्मः । 15.) यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । 16.) १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । 17.) सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । 18.) हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत्। 19.) अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति। 20.) पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।
धन्यवाद:।