सदस्यः:ThejasN/प्रयोगपृष्ठम्9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऊटि

उदगमण्डलम्

Ooty
Udhagai
Hill station
Skyline of ऊटि
Nickname(s): 
Queen of Hill Stations
Country India
State Tamil Nadu
District The Nilgiris
Government
 • Type Special Grade Municipality
 • Body Udagamandalam Municipality Corporation
Elevation २,२४० m
Population
 (2011)[२]
 • Total ८८,४३०
Languages
 • Official Tamil
Time zone UTC+5:30 (IST)
PIN
643 001
Tele 91423
Vehicle registration TN 43
Civic agency Udagamandalam Municipality
Climate Subtropical Highland (Köppen)
Precipitation 1,238 मिमी (49 इंच)
Avg. annual temperature 14.4 °से (58 °फ़ै)
Temperature from Batchmates.com[३]

गिरिधामसु अत्यन्तं प्रसिद्धम् एतत् । एतस्य अपरं नाम उदकमण्डलम् (सरोवराणां स्थानम् )इति नीलगिरिपर्वतप्रदेशे स्थितेषु सर्वगिरिधामसु अतीव जनप्रियम् । सागतस्तरतः ७५०० पादपरिमितोन्नतस्थाने अस्ति एतत् गिरिधाम । अत्र वातावरणं सदा शीतलं भवति । ग्रीष्मकालेऽपि अधिका उष्णता न भवति । निसर्गरमणीये अस्मिन् गिरिधाम्नि ग्रीष्मसमये जनानामागमनं बहु भवति । उदकमण्डलप्रदेशे अनेकानि रमणीयानि स्थानानि सन्ति । पाटलपुष्पोद्यानम् ( Rose Garden) मुकुर्तीसरोवरं , राजगृहाणि, दोड्डबेट्ट, रेसकोर्स, टैगर हिल् इत्यादीनि प्रसिद्धानि सन्ति ।

मुकुर्तिसरोवरम्[सम्पादयतु]

मुकुर्तिसरोवरम्

मुकुर्तीसरोवरे नौकाविहारः अतीव मोदाय भवति । स्वयञ्चालितनौकाविहारः सुरक्षितः सुव्यवस्थितः च अस्ति । सरोवरस्य पार्श्वे एव सुन्दरे उपवने बालानां विनोदाय विविधक्रीडानां व्यवस्था अस्ति ।

पाटलपुष्पोद्यानम्[सम्पादयतु]

पाटलपुष्पोद्यानस्थं पाटलपुष्पम्

अस्मिन् सहस्रसङ्ख्यया विविधवर्णात्मकानि मनोहराणि पाटलपुष्पाणि सन्ति । पाटलपुष्पेषु विरलानि यथा हरितानि कृष्णानि च पुष्पाणि अत्र द्रष्टुं शक्यानि । नयनानन्दकरे अस्मिन् उद्याने पुष्पसस्यानि सुचारुरूपेण आरोपितानि सन्ति ।

दोड्डबेट्ट[सम्पादयतु]

अत्युन्नतप्रदेशः इत्यतः दोड्डबेट्ट (महापर्वतः) इति प्रसिध्दः । दक्षिणभारते तृतीयः उन्नतः पर्वतः एषः ।अस्योन्नतिः सागरतीरस्तरतः ६४० पादपरिमिता अस्ति । अत्र अश्वारोहणं कर्तुं शक्यते ।

बोटानिकल् गार्डन्[सम्पादयतु]

सस्योद्यानस्य दृश्यम्

उदकमण्डलनगरे स्थितेषु प्रेक्षणीयस्थलेषु बोटानिकल् गार्डन् (सस्योद्यानम्) अतीव सुन्दरम् अस्ति । राजगृहस्य समीपे एतदस्ति । क्रिस्ताब्दस्य १८४३ तमे वर्षे अस्य निर्माणं कृतमस्ति । उद्यानस्य विस्तारः २२ हेक्टेरमितः अस्ति । अत्रत्यानि पुष्पाणि सस्यानि च अतीव सुन्दराणि सन्ति । लण्डननगरे स्थितम् के.ई.डब्ल्यु-उद्यानमिव एतदस्ति । विविधभागेषु इटालियन्, जपानीस् पुष्पसस्यानि सन्ति । कश्चन प्राचीनवृक्षकाण्डम् उद्याने अस्ति । एतत् अतीवप्राचीनम् अत्यद्भुतम् इति कथयन्ति ।यतः एतस्य कालः कतिचनकोटीवर्षप्राचीनः । उद्याने सहस्त्रसङ्ख्यया विविधजातीयाः वृक्षाः सन्ति । आलङ्कारिकाणि सस्यानि, प्राणिरुपेण व्यवस्थितानि सस्यानि सन्ति ।अत्र सस्यमयूरः, सस्यचिक्रोडः मिक्कीमौस्, कुब्जसस्यानि च आकर्षणीयानि सन्ति । विविधवर्णानां सस्यानि अत्र सन्ति । तृणावृतां भूमिं विविधाकृतौ संस्कृतानां सस्यानां वैभवम् अत्र पश्यामः । प्रतिवर्षम् अत्र फलपुष्पप्रदर्शनं भवति । आर्किड् सस्यानि औषधीसस्यानि विदेशीयसस्यानि अपि सन्ति । भारतमातुः सुन्दरं कृतकचित्रम् अत्रास्ति । तथैव सस्यैः निर्मितम् राज्यसीमावैभवम् अत्र दृष्टुं शक्नुमः । उदकमण्डलसमीपे कलहतीजलपातः, पौकारजलबन्धः, डाल्फिननोस् (१० कि.मी) सिम्सपार्क, कोयागिरि (२६ कि.मी) गाल्फ् क्रीडाङ्गणम्, लोज जलपातम्, कूनूरु गिरिधाम (२९ कि.मी) इत्यादीनि च दर्शनीयानि सन्ति । उदकमण्डले सर्वस्थानानां दर्शनाय स्वायत्तवाहनव्यवस्था कर्तुं शक्यते । रात्रौ सदा शैत्यम् भवति। दिने ग्रीष्मकालेऽपि अधिका उष्णता न भवति । समीपे ‘टी एस्टेट्स्’(चायोद्यानानि) सुन्दररुपेण विराजन्ते ।

मार्गः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

कोयम्बत्तूरुसमीपे स्थितं विमाननिस्थानम् ।

धूमशकटमार्गः[सम्पादयतु]

नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्)

चेन्नैतः नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्) यानम् । ऊटीनगरे धूमशकटनिस्थानम् अस्ति ।

भूमार्गः[सम्पादयतु]

हासन, मैसूरु, मेटुपाळ्यं, चेन्नैतः वाहनसौलभ्यम् अस्ति । मैसूरुतः एकदिनप्रवासव्यवस्था अस्ति । ऊटीदृश्यवैभवस्य वीक्षणार्थं सर्वकारीयव्यवस्थापि अस्ति ।

व्यवस्थाः[सम्पादयतु]

ऊटीनगरे वसतिगृहाणि उपहारगृहाणि दासप्रकाशहोटेल, होटेल् तमिळ्नाडु इत्यादीनि सन्ति ।

can't use in sandboxतमिळ्नाडुराज्यस्य प्रेक्षणीयस्थानानि]]

can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

  1. "About Municipality". municipality.tn.gov.in.  Unknown parameter |access-date= ignored (help)
  2. "Census 2011". GOI. 
  3. "Ooty: In the Lap of the Nilgiris". batchmates.com.  Unknown parameter |access-date= ignored (help)