सदस्यः:Ukmishra18
◆ विषय – प्रजातन्त्रम् अर्थः सिद्धान्तश्च ◆
● जनानां लोकानां प्रजानां वा तन्त्रं शासनं जनतन्त्रं लोकतन्त्रं प्रजातन्त्रं च इत्यभिधीयते प्रजातन्त्रं न केवलं शासनतन्त्रं निर्दिशति अपि तु शासनव्यवस्थां आर्थिक व्यवस्थां जीवनदर्शनञ्च निर्दिशति । आधुनिकोअ्यं युगः प्रजातान्त्रिक :। सर्वविध शासनव्यवस्थासु प्रजातन्त्रमतिशेते । अत्र प्रजाः एव परोक्षं शासका: भवति अत्र सच्स्थेषु समानता- सहयोगितयो : महत्वं वर्तते । अयं शब्द अग्लभाषायां Democracy इति कथ्यते । यत् ग्रीक भाषाया Demos तथा cratil शब्दाभ्यां निष्पन्न : । अस्यार्थ : भवति जनशक्ति: ।
● परिभाषा - अब्राहंलिङ्कन महोदयानुसारेण
1. प्रजा द्वारा प्रजाभ्यः प्रजानामेव शासनं भवति प्रजातन्त्रम्।
2. तत्र प्रजातन्त्रं जनतन्त्रं वा कथ्यते यत्र सर्वास्यापि लोकस्य शासने भागो सहकारः भवति
● डायसी महोदयानुसारेण - तत् प्रजातन्त्रम् जनतन्त्रं यत्र शासनसूत्रं राष्ट्रस्य बृहत्तरलोकहस्ते निपतति।
◆ प्रजातन्त्रस्योभ्दवः – वैदिकवाङ्ग्मये बहूत्र प्रजातन्त्रस्योदाहरणं ददृष्टिगोचर भवति । यथा - यजुर्वेद महते जनराज्याय" 9.40.- 10-18 दद्वि वारम् उल्लेखो दृश्यते तथा अन्यत्रापि विशो न राजानां वृणानाः ऋक् 10,124,8, त्वं विशो वृणतां राज्यय अथर्व - 3.4.2 विशस्त्वा सर्वा वाञ्चन्तु अथर्व 6.87.1.।
◆ प्रजातन्त्रस्य सिद्धान्ता :
1. स्वातन्त्रयम - अत्र राज्यापेक्षया व्यक्तेर्महत्वम् | वैयक्ति विकासस्य च पूर्वोऽधिकारों लभ्यते । राज्यम् अत्र साधनम् जनो अत्र साध्यश्च अतो व्यक्तेः स्वातन्त्रम् ।
2. समानता - समानता सिद्धान्तेषु प्राधान्येन इमे विचाराआपतत्रि वर्गसंघर्ष परिसामाप्य विशिष्टा जति धर्म- वर्ग लिङ्गणदिवर्गविहिनस्य प्रजातन्त्र समाजस्य स्थापनम्।
३. मातृत्वभाव - प्रजातन्त्रस्य सिद्धान्तेषु मातृत्वभाव : तृतीय सिद्धान्तः सर्वानोपि मातृरूपेण दृष्टव्यम् निजत्व परत्व भावना प्रजातन्त्रे न भवेत् सर्वेषु स्नेहः, प्रेम, सहानुभूति, सद्भाव : ममता च स्यात् ।
4. न्यायः - प्रजातन्त्रीयशासने सर्वेऽपि समाना: सर्वेषां कृते न्यायव्यवस्था समाना भवेत् उत्तमन्याय प्राप्तिः सर्वेषामपि समानाधिकार : भवति ।
■ प्रजातान्त्रिकी शिक्षा तद्गुणाश्च – अस्माकं समाजः प्रजातन्त्रीयः वर्तते। अस्माकं शिक्षा व्यवस्था अपि प्रजातन्त्रीय: वर्तते । विद्यालयं समाजस्य लघुरूप निर्मातुं तदर्थं व्यवस्था प्रजातन्त्रीयादर्शानां सिद्धान्तानाञ्च अनुसारेण क्रियते । अनेन बालकेभ्य: स्वशाशनं स्वदायित्वानां निर्वहणं मतस्य सदुपयोग : च इति व्यावहारिकज्ञानप्रदानाय अवसरा : प्राप्यन्ते ।
■ प्रजातन्त्रीय शिक्षाव्यवस्थायाः स्थितिविमोक्तानं स्वीकृत्य निकृति:
1. सार्वभौमिकानिवार्यशिक्षाया: च प्रसारः ।
२. समानावसरप्रदानम् तथा वैयक्तिकभिन्नताया: कृते च आदरः।
3. प्रौढ़ - अनौपचारिक शिक्षायाः च व्यवस्था |
4. बालकेन्द्रित शिक्षाया: व्यवस्था ।
5.नि:शुक्ल शिक्षाया: व्यवस्था ।
■ शिक्षोद्देश्यम् -
1. सन्तुलितव्यक्तित्ववतां सदस्थानांसम्पुष्टिः
2. प्रजातन्त्रीय मूल्यानां विकास : ।
3. व्यावसायिक कौशल विकास :
4. उत्तम अभिरुचे: विकास: ।
5. विचारशक्ते : विकास: ।
6. सामाजिक दृष्टे: विकास:।
7. सामञ्जस्यपूर्ण व्यक्तित्वस्य विकास:
8. नेतृत्वगुणानां विकास
9. राष्ट्रियान्ताराष्ट्रिय भावनाया: च विकासः ।
10. नागरिकता प्रशिक्षणम् ।
■ पाठ्यक्रम: - 1. नम्यता सिद्धान्त: । 2. सामाजिक- आवश्यकता – आर्दशपूर्ति सिद्धान्तः। 3. व्यवहारिक सिद्धान्त: । 4 उपयोगिता सिद्धान्तः ।