सदस्यः:Urvisha. Dharod/प्रयोगपृष्ठम्
दिखावट
अक्षर विचारः
[सम्पादयतु]आम्, उपरि विध्यमानं शीर्षकं सम्यगेव वर्तते |तमि भाषायांकेरलभाषायां च प्रसिद्धः कारः संस्कृते अस्ति वा इत्येव प्रश्नः.देवनागरीलिप्यां असन्दिग्धरूपेण अस्य वर्णस्य प्रतिपादनाय किमपि प्रसिद्धंचिन्न्हं नास्ति (अध्यावधि) इत्यतः ' ' इति तमि चिन्हम् उपयुज्यतेअसन्दिग्धनिर्देशार्थं इत्येतत् सर्वैः सहृदयैः अनुमोदनीयम्| पूर्वं यथासंस्कृते ह्रस्वः एकारः ओकारश्च वर्तते एव इति श्रीरमणशर्माख्येन विदुषानिरूपितं अस्यां पत्रिकायां, तथा अधुना कारः अस्ति इत्यपि निरूप्यते| ततःप्राक् अवश्यचिन्तनीयं किञ्चिद् विचारयाम|
प्रथमतः संस्कृते ळकारः अस्ति किम्?
[सम्पादयतु]'आ, अयं प्रश्नस्तु समीचीनः| ळकारस्तु संस्कृते अस्त्येव' इति हृडम् उच्यते खलु? हम् | लोके उत वेदे ? पूर्वं 'हृस्वः एकारः ओकारश्च लोके न वर्तते, वेदे एव वर्तते, अत एवकौमुध्यां 'हृस्वाभावात्' इत्यस्ति' इत्युक्तं खलु ? तथैव कौमुध्याम्ळकार-विषये अपि नास्ति किल| ततश्च ळकारो अपि लोके संस्कृते नास्तीत्येव|यध्यपि बहवो जनाः मङ्गलं इत्यादिषु शब्देषु 'मङ्गळम्' इति ळकारं कुर्वन्ति|तथापि पाणिनीयभाषायां ळकारः न अङ्गीकृतः इत्येव वक्तव्यं |यतः ळकारस्तुधातुपाठ आदौ कापि न उपदिष्टः| न वा सूत्रादिना विहितः |तर्हि कथं तस्यपाणिनीयायां भाषायां प्राप्तिः भवति? ततश्च मङ्गलं इत्यादिप्रयोगः एवपाणिनीयः|
पाणिनीयशिक्षायां
[सम्पादयतु]यध्यपि पाणिनीयशिक्षायां 'दुःस्पृष्टः' इति नाम्नाअस्य उल्लेखः कृतः , तथापि उत्करीत्या प्राप्त्यभावादेव ळकारो लोकभाषायांनास्ति इति स्थितं| शिक्षावचने तु वेदस्थस्यैव परामर्शः| प्रसिद्धश्च ळकारः ऋग्वेदस्य प्रथमे मन्त्रे एव 'ईळे' इति पदे |ऋग्वेदस्य च सर्वत्र लोके प्रसिद्धत्वं अस्तीति सर्वेऽपि वेदस्थं एतं ळकारंजानन्ति | (कारं तु वेदे विध्यमानमपि न जानन्ति| तदग्रे पश्याम|) अयं च ळकारः डकारस्य स्थाने भवतीत्यपि प्रायेण सर्वैः ज्ञातं एव| डळयोः अभेदः इति वचनमपि प्रथते| व्याडिः इति प्रसिद्धः पाणिनेः प्राग्भावी वैयाकरणाचार्यः 'व्याळिः' इत्यपि उच्यते|