सदस्यः:VISHNU PRASAD UPADHYAU
यः संस्कृतं न जानाति सः आत्मानं ज्ञातुं न शक्नोति 🌹।
‘सम्’ इति उपसर्गपूर्वकात् कृधातोः क्तप्रत्यये कृते सति संस्कृतम् इति पदं निष्पद्यते यस्य अर्थः भवति शुद्धः संस्कारितः परिष्कृतः च इति ।
संस्कृतभाषा विश्वस्य सर्वाधिकी शुद्धा परिष्कृता च भाषा अस्ति । अहं स्वयं संस्कृतं पठितुं वदितुम् अभ्यासं कुर्वन् अस्मि । अहं न जानामि यत् एतस्याः महत्त्वं जनाः किमर्थं नावगच्छन्ति इति । (रोबर्ट लाइटफुट, Nasa प्रमुखः)
संस्कृतभाषा ग्रीकभाषातः पूर्णा अस्ति एवञ्च सस्कृतभाषायां लैटिनभाषापेक्षया शब्दानां बाहुल्यम् अस्ति । तथा च उभयोः अपेक्षया दोषरहिता सुसंस्कृता च अस्ति इति पाश्चात्यविद्वांसः वदन्ति ।
सभ्यतायाः इतिहासे पुनर्जागरणानन्तरम् अष्टादशशताब्द्याः उत्तरार्धे संस्कृतसाहित्यस्य अनुसन्धानातिरिक्ता कापि अन्या विश्वव्यापिनी घटना न घटिता इति पाश्चात्यविद्वांसः वदन्ति । (आर्थर अन्थोनी मैक्डोनेक्)
सर्वासां भाषाणां जननी संस्कृतभाषा अस्ति । अतः सर्वासु भाषासु संस्कृतशब्दाः एवं च संस्कृतपदानि बाहुल्येन दृश्यन्ते । अर्थे तावत् भेदः नायाति अपितु केवलं कदाचित् उच्चारणे एव भेदः आयाति । यथा सम् एतस्य उच्चारणम् आङ्ग्लभाषायां सेम इति भवति । ह्लादः एतस्य उच्चारणं ग्लाडः इति भवति । तथैव फ्रेन्च-जर्मन-अरबीभाषासु अपि उच्चारणे भेदः दृश्यते । एतेन ज्ञायते यत् संस्कृतभाषा विश्वभाषा अथ च सर्वासां भाषाणां जननी अपि आसीत् ।
अतः सर्वैः व्यवह्रियते उच्यते च यत् एषा देववाणी अर्थात् देवभाषा इति ।
उक्तं च संस्कृतं नाम – दैवी वागान्वाख्याता महर्षिभिः । संस्कृतभाषा केवलं लोकभाषा एव न अपितु देवभाषा अपि अस्ति । अद्यत्वेऽपि कोटिशः जनाः संस्कृतजीवनशैल्यां जीवन्ति । प्रायः सर्वेऽपि वैदिकपरम्परायां क्रियमाणानि सर्वाणि कर्माणि संस्कृतेनैव कुर्वन्ति कारयन्ति च । प्रातः जागरणानन्तरं रात्रौ शयनकालं यावत् संस्कृतभाषायां विद्यमानानां मन्त्राणां श्लोकानां च उच्चारणं कुर्वन्ति ।
सनातनवैदिकधर्मे गर्भाधानसंस्कारात् आरभ्य अन्त्येष्टिसंस्कारपर्यन्तं षोडशसंस्काराः संस्कृतभाषायाम् एव उपनिबद्धाः सन्ति । जैनानाम् एवं च महायानीबौद्धानां विशालसाहित्यं संस्कृतभाषायामेव अस्ति । भाष्यते इति भाषा, भाषा अर्थात् स्वभावनाम् एवं च स्वविचारान् प्रकटयितुं साधनरूपेण अस्ति । अन्यच्च संस्कृतभाषा एव प्रथमा अस्ति इति विभिन्नपाश्चात्यानुसन्धानपत्रमाध्यमेन ज्ञायते । संस्कृतं केवलं भाषा एव न, अपितु संस्कृतम् एकः विचारः अस्ति । संस्कृतम् एका क्रान्तिः अस्ति । संस्कृतम् एका जीवनशक्तिः अस्ति । संस्कृतम् एव संस्कृतिः तथा च संस्कारः अस्ति । संस्कृते विश्वस्य कल्याणः अस्ति । विश्वस्य शान्तिः अस्ति ।परस्परं सहयोगभावना अस्ति । अतः एव विभिन्नग्रन्थेषु
उक्तम् अस्ति –
वसुधैव कुटुम्बकम्[1]
सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै[2] ।
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सं जनाना उपासते[3] ।।
माता भूमिः पुत्रोऽपि पृथिव्याः[4] ।
यः संस्कृतं जानाति स एव आत्मानं ज्ञातुं शक्नोति । तथा सामान्यभेदभाव- संकीर्णमनस्थित्यादिभ्यः उपरि भवति । अद्यत्वे द्वैतभावनाकारणात् सर्वत्र लोके समाजे असमान-अनुचितव्यवहारः आधिक्येन दृश्यते । अतः एतादृशीं द्वैतभावनां निवारयितुं संस्कृतज्ञानम् अत्यन्तम् आवश्यकं दृश्यते । पश्चिमदेशस्थाः संस्कृतं स्वजीवने आनेतुं नैरन्तर्येण प्रयतमानाः सन्ति ।
उक्तम् अपि अस्ति – जानाति विविधाः भाषाः जानाति विविधाः कलाः ।
आत्मानं नैव जानाति यो न जानाति संस्कृतम्[5] ।।
विभिन्नासु भाषाकलादिषु निपुणाः सन्तः अपि यः आत्मानं न जानाति तस्य जीवनं व्यर्थम् अस्ति । किन्तु यः विभिन्नासु भाषाकलादिषु निपुणः सन् अपि संस्कृतं जानाति सः आत्मानम् अपि ज्ञातुं शक्नोति ।
संस्कृतभाषा अन्यभाषायाः इव केवलम् अभिव्यक्तेः एव भाषा न, अपितु एषा मानवस्य सर्वाङ्गीणविकासस्य कारणभूता अपि अस्ति । प्राचीनकाले एतस्याः नाम देवभाषा इति आसीत् । तस्मिन् काले एषा अव्याकृतभाषा आसीत् अर्थात् प्रकृतिप्रत्ययानां विभाजनं नासीत् । अनन्तरं राज्ञा इन्द्रेण अव्याकृतताकारणात् काठिन्यम् अभूत् इति विचिन्त्य प्रकृतिप्रत्ययानां व्यवस्थां कृतवान् । इत्थम् अव्याकृतभाषां व्याकृतभाषां कृत्वा पुनः संस्कारवती कारिता इति कारणात् देववाणी इति एतस्याः नाम जातम् ।
संस्कृतं केवलं स्वविकसितभाषा न, अपितु संस्कारितभाषा अपि अस्ति । अतः एतस्य नाम संस्कृतम् अस्ति । पाणिनि-कात्यायन-पतञ्जलिसदृशैः अनेकैः महर्षिभिः संस्कारिता भाषा अस्ति एषा ।
उत्तर-अमेरिकायाः दक्षिणभागस्य मैक्सिको इत्यस्य तथा च पनामाराज्यस्य सीमायां प्रायः विंशति-द्वाविंशतिशतवर्षेभ्यः पूर्वम् एकम् अनुसन्धानं कृतम् आसीत् । अनुसन्धानप्रसङ्गे तत्र एका मानवजातिः प्राप्ता । भाषाविज्ञाः विद्वांसः तासां भाषा ब्रोनसंस्कृतम् इति स्थापितवन्तः । एतेन ज्ञायते यत् संस्कृतं विश्वस्य भाषा आसीत् इति । बालीद्वीपजनानाम् अपि भाषा संस्कृतम् एव आसीत् इति अऩुसन्धानद्वारा ज्ञायते । संस्कृतभाषा अद्य कम्प्यूटर-रोवट-रकेटादिषु सर्वाधिकी उपयुक्ता भाषा अस्ति इति सर्वे वैज्ञानिकाः अहर्निशम् उद्घोषयन्ति ।
फोर्ब्स पत्रिका (July 1987)
किन्तु अद्यत्वे अपि केचन विकृतमनस्काः संस्कृतम् इति मृतभाषात्वेन व्यवहरन्ति । सूर्यस्य उदयानन्तरम् अपि यदि जनाः अन्धकारम् एव पश्यन्ति तर्हि तत्र सूर्यस्य को दोषः ? बुद्धिजीविनः वदन्ति यत् संस्कृतं समर्थसरलसरसभाषा अस्ति इति । शारीरिकव्यायामस्य कृते अपि एषा उपयुक्ता भाषा अस्ति । यथा अनुस्वारस्य (अं) तथा च विसर्गस्य (अः) संस्कृतभाषायां बहुधा प्रयोगः भवति । पुँल्लिगान्तशब्दाः प्रायः विसर्गान्ताः भवन्ति । यथा रामः बालकः हरिः भानुः इत्यादयः । तथैव नपुंसकलिङ्गस्य शब्दाः अनुस्वारान्ताः भवन्ति । यथा जलम्, मन्दिरम्, फलम् इत्यादयः । अनुस्वारविसर्गयोः उच्चारणमात्रेण कपालभातिप्राणायामस्य तथा च भ्रामरीप्राणायामस्य सम्पूर्णफलं प्राप्यते ।
संस्कृतभाषायाः दैनन्दिनजीवने प्रयोगेण उच्चारणेन च शारीरिकायोग्यता अपगच्छति तथा च स्मरणशक्तौ वृद्धिः भवति इति पाश्चात्यविद्वांसः पुनः पुनः वदन्ति स्मारयन्ति च । अतः वयं सर्वे मिलित्वा संस्कतस्य उन्नतौ सहयोगं कुर्मः । न्यूनातिन्यूनम् आत्मानं ज्ञातुम् अपि वयं संस्कृतं पठामः इति ।
उक्तम् अस्ति –
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः[6] ।।
जयतु संस्कृतम् ............
[1] महोपनिषद् ।
[2] श्वेताश्वतरोपनिषद् ।
[3] ऋग्वेदः ।
[4] अथर्ववेदः ।
[5] संस्कृतसुभाषितम् ।
[6] श्रीमद्भगवद्गीता ।