सदस्यः:Vidyavachaspati Dr Sundar Narayan Jha/प्रयोगपृष्ठम्
विद्यावाचस्पतिः डॉ0 सुन्दरनारायणझाः
सहायक-आचार्यः, वेदविभागः,
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्,
बी-4, कुतुबसांस्थानिकक्षेत्रम्, नवदेहली-16
वैदिकसाहित्ये शिवतत्त्वचिन्तनम्। विदन्त्येव भवन्तस्सर्वे यद्वैदिकसाहित्ये सकलतात्त्विकरहस्यानां वैश्विकज्ञानविज्ञानानाञ्चोपवर्णनमुपलभ्यत इति। वेदानां सर्वज्ञानमयात्मकं स्वरूपमुपवर्णयता भगवता मनुना प्रोक्तञ्चापि- सर्वज्ञानमयो हि सः इति। तत्र शिवतत्त्वस्यानुसन्धातारोऽस्माकमृषयः सहस्रशीर्षा पुरुषः, असंख्याता सहस्राणि ये रुद्रा अधिभूम्याम्, एक एव रुद्रोऽवतस्थे न द्वितीयः, तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः इत्यादीनां मन्त्रवाक्यानां समुल्लेखं कृतवन्तः। यत्र पुरुषरूपेण सर्वदेवस्य कल्पनां कृतवन्तः। तेनेदं स्पष्टं भवति यत्समस्तस्यापि जगत आधारो ब्रह्मेत्यपरपर्यायेण प्रसिद्धः प्रजापतिः सर्वमिदं चराचरं विरच्य तत्सृष्ट्वा तदेवानुप्राविशत् इति तैत्तिरीयश्रुत्युक्तप्रमाणेन तस्मिंश्च स्वयं प्रविश्य, एकः सन्नपि नानाभावैर्विभाति। सोऽयं प्रजापतिः चतुष्पादित्युक्तः श्रुतौ यथा- त्रिपादूर्ध्वमुदैत्पुरुषः पादोऽस्येहाभवत्पुनरिति। अतश्चतुष्पाद्ब्रह्मणः पुरमिति प्रथमः पादः, पुरुषो द्वितीयः पादः, परात्परस्तृतीयः पादः, निर्विशेषस्तुरीयः पादश्चोक्तः। ब्रह्मणो द्वितीयपादान्तर्गतः पुरुषस्त्रिविधः क्षराक्षराव्ययात्मको व्याख्यातः। तदुक्तं गीतायाम्- द्वाविमौ पुरुषौ लोके क्षराश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः।। अत्रोक्ताः क्षराक्षराव्ययसंज्ञकास्त्रयोऽपि पुरुषाः पञ्चलक्षणसमन्विता व्याख्याताः सन्ति। यथा बीजचितिः, देवचितिः, भूतचितिः, प्रजा वित्तमिति पञ्च क्षराः। ब्रह्मा, विष्णुः, इन्द्रः, अग्निः, सोमश्चेति पञ्चाक्षराः। आनन्दो, विज्ञानम्, मनः, प्राणो, वागिति पञ्चाव्ययपुरुषाः व्याख्याताः। तत्राक्षरपुरुषस्य ये पञ्च धर्मा उक्तास्तेषामत्र शिवतत्त्वचिन्तने वैशिष्ट्यमवलोक्य तच्चिन्तनोपक्रम आरभ्यते। जगतः सत्तारूपायाः प्रतिषया अधिषता ब्रह्मेति, यज्ञाधिष्ठाता विष्णुः, अग्निस्थानीयमिन्धनमिन्द्र इति। वस्तुतः पूर्णप्रज्ज्वलितादेवाग्नेस्सकाशादग्निकणाः पृथग्भूत्वा बहिरागच्छन्ति। अयं परत्र प्रदानसम्पादकः प्राण इन्द्र इत्युच्यते। ब्राह्मणग्रन्थेषु इदं द्रावयति इत्यनया व्युत्पत्त्या निष्पन्नमिदन्द्रपदमपि परोक्षप्रक्रियया इन्द्र इति वक्तुं शक्यते। अयमिन्द्रोऽक्षरपुरुषस्य पञ्चकलासु मध्यस्थानीयोऽस्ति। अत एताः ब्रह्मा-विष्णु-इन्द्ररूपास्तिस्रः कलाः नभ्यप्राणा उच्यन्ते। इन्द्रप्राणेन बहिः प्रक्षिप्तैः प्राणैः पृष्ठसंज्ञको धरातलो निष्पद्यते। अस्य धरातलस्य निर्मापकाविमावग्निसोमाविन्द्रस्य सहचरौ स्तः। प्राणानां बहिः प्रक्षेपणकर्तुरिन्द्रप्राणस्य स्वयमपि बाह्यपृष्ठपर्यन्तं गतिकारणात्तत्राग्निसोमयोः प्रादुर्भावो भवति। तदानीमेषामिन्द्राग्निसोमानां त्रयाणामपि देवानां समष्टिः त्रिदेवो भवति। स एव त्रिदेवः पौराणिकपरिभाषायां महेश्वरः त्रिनयनश्चोच्यते। यथोक्तं महेश्वरस्तुतौ- वन्दे सूर्यशशाङ्कवह्निनयनम् इति। तत्र सूर्ये इन्द्रप्राणस्य प्राधान्यं तु श्रुतिष्वाम्नातमेव यथा- यथाऽग्निगर्भा पृथिवी द्यौरिन्द्रेण गर्भिणी इति। अत्र द्यौरिन्द्रेण गर्भिणी इति कथने इन्द्रः सूर्यात्मकत्वेन स्तुतोऽस्ति। अतः सूर्यस्येन्द्रत्वम्, शशाङ्कस्य सोमत्वम्, वह्नेश्चाग्नित्वं प्रसिद्धमेव। एवमुक्तप्रकारेण त्रिनयनत्वात् त्रिरूपत्वमभिव्यञ्जितमिति। स्वीयान्तःप्राणस्यान्यत्र सङ्क्रमणमेव रोदनमित्युच्यते। एतस्माद्रोदनादेवास्य रुद्र इत्यपरं नाम प्रसिद्धमस्ति। अग्निश्च सोमश्चावुभौ पशुरूपावस्य वशीभूतौ स्तः। तस्मादयं अग्निसोमरूपाणां पशूनां पालकत्वात् पशुपतित्यप्युच्यते। अनेनोक्तप्रकारेणेदं सिद्धं भवति यत् प्रतिष कस्यचिदपि वस्तुनो मौलिकी सत्ता भवति, तस्य सम्पादकत्वाद् ब्रह्माऽस्य सर्वस्य प्रतिष्ठा सर्वस्य जनको मन्यते। यश्च स्वगतः प्राणः बहिर्भूतो भवति तस्यापूर्तिमाध्यमेन स्वरूपसंरक्षकत्वाद्विष्णुः पालक इत्युच्यते। तथा च स्वगतप्राणस्य प्रक्षेपकत्वादिन्द्रो महेश्वरः संहारकः प्रसिद्ध इति। तस्य महेश्वरस्य तात्त्विकं स्वरूपं किमिति प्रकृतेऽस्मिन् निबन्धे विचारयिष्यते। इत्यलमतिविस्तरेण।