सदस्यः:Vijaypal Anjana
शिक्षणविधय:तत्प्रकाराश्च।
[सम्पादयतु]शिक्षक: यया प्रक्रियया छात्रान् पाठयति मार्गदर्शनं कारयति तद् शिक्षणविधि:। येन शिक्षक-छात्रयो: मध्ये अधिगम: भवति। शिक्षणविधि: नाम पठन-पाठनस्य सुव्यवस्थित: क्रिया। शिक्षणविधे: अनेका: परिभाषा: विद्वद्भि: दत्तवन्त: सन्ति। ते च सन्ति--------------
1. बाईनिंगमहोदयानुसारं शिक्षणविधि: शिक्षा प्रक्रियाया: गतिशील: कार्यमस्ति।
2. डी वी महोदयानुसारं शिक्षणविधिभि: वयं शिक्षणसामग्रीं सुव्यवस्थित: कृत्वा निष्कर्षान् प्राप्नुम:।
3. डा.सरोजसक्सेना महोदयानुसारं शिक्षणविधि: विषयवस्तुनि छात्राणां कृते सरलरीत्योपस्थापनस्यैक: माध्यम: अथवा उद्देश्यमस्ति।
एवं प्रकारेण कथयितुं शक्नुम: यत् शिक्षणविधिभि: शिक्षका: कठिनात् कठिन: विषयमपि सरल: सरस: बोधगम्यश्च कुर्वन्ति। अतः शिक्षणविधिनां ज्ञानं अत्यन्तमनिवार्यमस्ति। कानिचन महत्वपूर्णा: शिक्षणविधय: अत्र प्रस्तुयन्ते------------
1. प्रत्यक्षविधि:-- अन्यनाम – निर्बाधविधि: सुगमविधि: समातृविधि: प्राकृतिकविधिश्च। “चक्षुरिन्द्रियजन्यं ज्ञानं प्रत्यक्षम्” अर्थात् चक्षुरिन्द्रियै: जन्यं ज्ञानं प्रत्यक्षज्ञानं भवति। प्रत्यक्षविधे: सर्वप्रथमं प्रयोग: १९०१ ई० वर्षे फ्रांसराष्ट्रस्य “श्री गुइन” महोदयेन कृतम् । भारते अस्य विधे: सर्वप्रथमं प्रयोग: प्रो. वी.पी. बोकीलमहोदय: मुम्बईनगरस्य “अल्फिन्स्टोन” नामक: विद्यालये कृतवान्। यदा कापि भाषा तद् भाषामाध्यमेन एव पाठयाम: तदा सा विधि: प्रत्यक्षविधिरिति कथ्यते। यथा संस्कृतभाषा संस्कृतमाध्यमेन हिन्दीभाषा हिन्दीमाध्यमेनैव पाठ्यते। अस्मिन् विधौ बालक: अनुकरणेन भाषाज्ञानं प्राप्नोति।
2. व्याकरणानुवादविधि: (भण्डारकरविधि:)-
अन्यनाम- परम्परागतविधि: शास्त्रीयविधिश्च। प्रवर्तक:-- श्रीरामकृष्णगोपालभण्डारकर:। भण्डारकरमहोदयेन अस्मिन् विधौ पुस्तकद्व्यं लिखितवान्। १. मार्गोपदेशिका २. संस्कृतमन्दिरान्त: प्रवेशिका च । अस्मिन् विधौ भाषाया: वर्गीकरणं कृत्वा तस्या: सरलपद्धति: प्रस्तुयते। अस्मिन् विधौ संस्कृतव्याकरणपाठस्य सोदाहरण: व्याख्या भवति। व्याकरणानुवादविधेरपि चत्वारि सोपानानि भवन्ति---
१ व्याकरणपाठस्य सोदाहरण: व्याख्या अभ्यासश्च।
२ प्रथम भाषया द्वितीय भाषायामनुवाद:।
३ द्वितीय भाषया प्रथम भाषायामनुवाद:।
४ शब्दकोशस्य ज्ञानम्। अस्मिन् विधौ वामनशिवरामाप्टेमहोदय: Student guide to Sanskrit composition नामकं पुस्तकं लिखितवान्।
3. प्रश्नोत्तरविधि:-- अन्यनाम- सुकरातविधि: संवादविधिश्च। प्रवर्तक:/प्रतिपादक:- सुकरात: । अस्मिन् विधौ शिक्षक: विभिन्न: प्रश्नानां माध्यमेन छात्राणां उत्तरं प्राप्तं कृत्वा शिक्षणकार्यं करोति। यदा छात्रा: सम्यक् उत्तरं न ददति तदा शिक्षकैव उत्तरं ददाति। अनेन विधिना छात्राणां चिन्तन-तर्क-निरीक्षण: शक्ते: विकासं भवन्ति।
4. हरबर्टविधि:-- सुप्रसिध्दशिक्षाशास्त्री हरबर्टमहोदयस्य शिष्यै: अयं शिक्षणविधि: प्रस्तुत:। अस्मिन् विधौ पञ्च सोपानानि भवन्ति----- १ प्रस्तावना- इयं छात्राणां पूर्वज्ञानेन सम्बद्ध: भवति। २ विषयोपस्थापनम् (प्रदर्शन) – अनेन सोपानेन सह शिक्षक: नवीनपाठस्यारम्भं करोति।
३ तुलना—पाठे छात्रा: यत्र काठिन्यमनुभवन्ति तत्र शिक्षक: विभिन्नोपकरणै: स्पष्टीकरणं करोति।
४ सामान्यीकरणम् – अस्मिन् सोपाने छात्रा: पाठस्य निष्कर्षं प्रति गच्छन्ति।
५ प्रयोग:-- अस्मिन् सोपाने शिक्षक: पाठस्य स्थायीकरणाय परीक्षणाय च अभ्यासकार्यं ददाति।
5. ह्युरिष्टकविधि:-- अन्यनाम- अनुसंधानविधि: खोजविधि: प्रयोगशालाविधि: स्वान्वेषणविधिश्च। प्रवर्तक:- आर्मस्ट्रांगमहोदय:। ह्युरिष्टक: ग्रीकभाषाया: शब्दमस्ति। यस्यार्थ: भवति ‘अहम् अन्वेषयामि’। अस्मिन् विधौ शिक्षक: छात्राणां समक्षे समस्याया: प्रस्तुतिकरणं करोति। छात्राणां प्रश्नानां उत्तराणि ददाति तत्सम्बन्धिन: च आवश्यकपाठ्यसामग्रीभि: परिचयं कारयति।
अस्मिन् विधौ छात्रा: समस्याया: स्वयमन्वेषणं निरीक्षणं प्रयोगञ्च कुर्वन्ति। अतः विधिरयं स्वान्वेषणं अथवा स्वयं शिक्षणस्य विधि: कथयति। अस्य विधे: अधोलिखितानि सोपानानि सन्ति—१. निरीक्षणम्। २ तुलना। ३ प्रयोग।
२. तुलना। ३. प्रयोग:।
४. प्रदर्शनं। ५. सामान्यीकरणं। ६. प्रमाणीकरणं च।
6. दलशिक्षणविधि:--- अन्यनाम- सामुहिकविधि: सहकारिताविधिश्च। समुहे मिलित्वा शिक्षणकार्य: प्रक्रियैव दलशिक्षणमस्ति। यदैकाध्यापकस्य स्थाने एकाधिक: विषयविशेषज्ञा: सहायकाश्च मिलित्वा शिक्षणकार्यं कुर्वन्ति तदा स: विधिः दलशिक्षणविधि: कथयति। एषैक: संगठनात्मक: प्रक्रियास्ति। दलशिक्षणस्य सैद्धान्तिकपक्षस्य त्रय: घटका: भवन्ति----- १. छात्राणामावश्यकता। २. शिक्षकानां योगदान:। ३. विद्यलयीयघटका:। दलशिक्षणस्य त्रिणी सोपानानि भवन्ति-----
१.योजना निर्माणं।२. व्यवस्थापनं। ३. मूल्यांकनम्।
7. समस्यासमाधानविधि:-- अस्मिन् विधौ छात्राणां समक्षे एतादृशय: समस्यात्मक: परिस्थितय: प्रादुर्भूयन्ते तेन स: स्वयंमेव चिन्तन-तर्क-निरीक्षणादीनां माध्यमेन समस्याया: समाधानं प्राप्तुं शक्नोति। अनेन विधिना छात्राणां चिन्तन तर्कशक्तेश्च विकासं भवति। सुकरात अपि आध्यात्मिक संवादेषु अस्य प्रयोगमकरोत्। समस्या समाधानस्य प्रक्रिया अस्ति – तथ्यानां संग्रह- संगठन- विश्लेषण- निष्कर्ष- निष्कर्षाणां प्रयोगश्च।
8. आगमनविधि:-- अयं व्याकरणशिक्षणस्य सर्वाधिक: प्रसिद्ध: श्रेष्ठविधिरस्ति। अस्मिन् विधौ शिक्षक: सर्वप्रथमं छात्राणां समक्षे उदाहरणानि उपस्थापयति। तत्पश्चात् तेषां उदाहरणानां नियमानि कथयति। आगमनविधे: शिक्षणसूत्राणि—
१. उदाहरणात् नियमं प्रति। २. विशिष्टात् सामान्यं प्रति।
३. ज्ञातात् अज्ञातं प्रति। ४. प्रत्यक्षात् प्रमाणं प्रति। ५. स्थूलात् सूक्ष्मं प्रति। ६. मूर्तात् अमूर्तं प्रति। आगमनविधे: चत्वारि सोपानानि सन्ति।
१. उदाहरण प्रस्तुतीकरणम्। २. निरीक्षणम्।
३. नियमीकरणम्। ४. परीक्षणम् ।।
9. निगमनविधि:-- अस्मिन् विधौ शिक्षक: सर्वप्रथमं छात्राणां समक्षे नियमा: उपस्थापयति। तत्पश्चात् तेषां नियमानां उदाहरणानि उपस्थापयति। निगमनविधे: शिक्षणसूत्राणि—१. नियमात् उदाहरणं प्रति।
२. सामान्यात् विशिष्टं प्रति। ३. अज्ञातात् ज्ञातं प्रति।
४. प्रमाणात् प्रत्यक्षं प्रति। ५. सूक्ष्मात् स्थूलं प्रति।
६. अमूर्तात् मूर्तं प्रति।
निगमनविधे: चत्वारि सोपानानि—१. नियमबोधनम्।
२. नियमस्पष्टीकरणम्। ३. नियमपरीक्षणम्।
४. सत्यापनम्।
10. खेलविधि:-- प्रवर्तक:/प्रतिपादक:-- हैनरी कोल्डवेल कुक। सर्वप्रथमं अस्य प्रयोग: फ्रोबेल महोदय: कृतवान्। अस्मिन् विधौ शिक्षक: छात्रान् क्रीडामाध्यमेन शिक्षयति ।
-क्रियाशीलश्चास्ति।
11. मान्टेश्वरिविधि:-- प्रवर्तक:- इटलीदेश: निवासी डॉ. मारिया माण्टेश्वरी। अस्मिन् विधौ ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च प्रशिक्षणे बलं दीयते। अर्थात् प्राथमिकस्तरे शिक्षा ज्ञानेन्द्रियै: कर्मेन्द्रियै: च दीयेत्। अनेन विधिनात्मानुशासनस्य विकासं भवति। अयं विधिः मंदबुद्धि: अन्यत् दिव्यांग बालकानां कृते तु अत्यन्तोपयोगी अस्ति। अस्मिन् पद्धतौ एक: बालभवनस्य निर्माणं भवति तत्र शिक्षणसम्बन्धिन: विभिन्नोपकरणै: शिक्षा दीयते।
12. किंडरगार्टनविधि:-- अस्य विधे: जन्मदाता फ्रोबेलमहोदय: अस्ति। किंडरगार्टन शब्दस्यार्थ: भवति ‘बालकानामुद्यान:' किंडरगार्टन बालकानामेक: कनिष्ठ: विद्यालय: भवति। यत्र बालका: विभिन्न: सांस्कृतिक: क्रियात्मक: तथा कलात्मक: कार्याणि शिक्षन्ति। फ्रोबेलमहोदयानुसारं विद्यालयैक: उद्यानमस्ति बालका: पादपा: सन्ति शिक्षकश्च उद्यान संरक्षक: अस्ति। अत्र प्रायः शिक्षणकार्यं अध्यापिका कारयति। अस्मिन् विधौ बालकान् दैनिकजीवनसम्बन्धित् अनौपचारिकशिक्षा दीयते।
13. डाल्टनविधिः— प्रवर्तक:/जन्मदाता- अमेरिकादेशस्य डाल्टननगर: निवासी कुमारी हेलन पार्कहर्स्ट अस्ति। अस्य विधे: सर्वप्रथमं प्रयोग: १९१२ ई. वर्षे अभवत्। अस्मिन् विधौ छात्रा: स्वरुचि: एवं योग्यतानुसारं प्रयोगशालायां पठन्ति।
विधिरयं छात्रान् स्वतन्त्रतापूर्वकं अवबोध स्तरस्य ज्ञानं ददाति। वर्तमान समयस्य सेमेस्टरप्रणाली अस्मिन्नैव आधारित: वर्तते। अस्य विधे: विभिन्नानि सोपानानि सन्ति। पाठानां रुपरेखा-प्रदत्तकार्यम्-पाठविभाजनम्-प्रयोगशाला-सम्मेलनं/बालसभा।
।। इति संक्षेपत: शिक्षणविधय: पूर्तिमगात्।।
।। इत्योम् शम्।।