सामग्री पर जाएँ

सदस्यः:Vimal punia

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
      *बुद्धिसम्प्रत्यय:,प्रकाराश्च-*

सामान्यतया बुद्धिरिति पदस्य प्रयोगोऽचिरेण शिक्षणम्,क्षिप्रमवबोधनम्,सम्यक् स्मरणम्,तार्किकं चिन्तनमित्यादीनां गुणानां कृते क्रियते। परन्तु मनोविज्ञाने मनोविज्ञानिकैर्विशिष्टार्थे बुद्धिरिति पदस्य प्रयोगो व्यवहृत:।बुद्धिरिति पदं नैकैर्मनोवैज्ञानिकैर्परिभाषितम्।सर्वप्रथमं "बोरिंग"महोदयेन स्वस्यामौचारिकपरिभाषायामुक्तं यत् "बुद्धिपरिक्षणेन या मीयते सैव बुद्धि:"। मनोवैज्ञानिकैर्कृता:बुद्धेर्परिभाषा: विश्लेष्य "फ्रीमैन" महोदयेन वर्गत्रये विभक्ता:- १.प्रथमे वर्गे ता : परिभाषा: समायान्ति यासु वातावरणेन सह "समायोजनयोग्यता" बुद्धिरिति कथिता। स्टर्न,क्रूज, काल्विन, सिरिल, बर्ट, इत्यादयो मनोवैज्ञानिका: "समायोजनस्य योग्यतां"बुद्धिरिति मन्यन्ते।"स्टर्न"महोदयानुसारं "जीवनस्य नवीनां समस्यानां प्रति समायोजनकरणस्य चेतनक्षमतैव बुद्धिरिति"।एवमेव "बर्ट"महोदयोऽपि परभाषयति यत् "बुद्धिरपेक्षाकृतपरिस्थितिषु समायोजनकरणस्य जन्मजाता क्षमतास्ति"।

२.द्वितीये वर्गे ता: परिभाषा: समायान्ति यासु "शिक्षणयोग्यता" बुद्धिरिति मता।बंकिघम,डियरबोर्न,वुडरे, इत्यादयो मनोवैज्ञैनिका: "शिक्षणक्षमतां" बुद्धिरिति ख्यापयन्ति।"बंकिघम" महोदयानुसारम् "शिक्षणक्षमतैव बुद्धि:"।"डियरबोर्न " महोदयानुसारं बुद्धिर्नाम "शिक्षणयोग्यता तथानुभवैर्लाभप्राप्तेर्योग्यता"।

३.तृतीये वर्गे ता : परिभाषा: समायान्ति यासु "अमूर्तचिन्तनं" बुद्धिरिति कथितम्।टरमन,स्पीयरमैन,बिने इत्यादयो मनोवैज्ञानिका: "अमूर्तचिन्तनं" बुद्धित्वेन स्वीकुर्वन्ति‌।"टरमन"महोदयो वक्ति यत् "अमूर्तवस्तूनां सम्बन्धे विचारणयोग्यतैव बुद्धि:। इत्थं समायोजनस्य क्षमता,शिक्षणस्य क्षमता,अमूर्तचिन्तनस्य च क्षमता बुद्धिपदेन व्यवह्रीयते। प्रसिद्धमनोवैज्ञानिकेन "वेशलर"महोदयेन बुद्धिं परिभाषयन्नुक्तं यत् "बुद्धिरेका समुच्चया सार्वजनिका वा क्षमता ,यस्या आश्रयेण व्यक्तिरुद्देश्यपूर्णां क्रियां करोति,विवेकपूर्णं चिन्तयति,तथा वातावरणेन सह प्रभाविकरूपेण समायोजनं करोति ‌।

*बुद्धिप्रकारा:-* 

प्रसिद्धमनोवैज्ञानिकेन "ई.एल.थार्नडाइक" महोदयेन बुद्धेर्प्रकारत्रयं निगदितम्।१.सामाजिकबुद्धि:, २.मूर्तबुद्धि:, ३.अमूर्तबुद्धि:

*१. सामाजिकबुद्धि:* 

सामाजिकबुद्धि: सा मानसिकी योग्यता यस्या आश्रयेण व्यक्तिरन्यान् व्यक्तीनवबुध्य तेषामनुरूपं व्यवहरति,बुद्धेरस्या अवधारका जना: व्यवहारेऽति कुशला: भवन्ति,तेषां सामाजिकसम्बन्धा अतिशयेन सम्यक् भवन्ति,तथा च ते समाजे प्रतिष्ठामापनुवन्ति।बुद्धेरस्या: युक्ता जना: सम्यक् नेतार:,सामाजिककार्यकर्तारश्च भवन्ति।।

        *२.मूर्तबुद्धि :* 

मूर्तबुद्धेर्तात्पर्यमिदं यत् सा मानसिकी क्षमता यस्या आश्रयेण मनुष्य: स्थविरवस्तूनां महत्त्वमवबुध्य भिन्नभिन्नपरिस्थितिषु तेषामुपयोगं करोति।एषा "यान्त्रिकी" बुद्धिरप्युच्यते।बुद्धेरस्या अवधारका: जना: सम्यगभियन्तार:,यन्त्रानां च प्रयोगेषु कुशला भवन्ति।

       *३.अमूर्तबुद्धि *:* 

अमूर्तबुद्धेर्तात्पर्यमिदं यत्सा मानसिकी क्षमता यस्या आश्रयेण व्यक्ति: शाब्दिकान् तथा गणितीयान् संकेतान् चिह्नान् चावगच्छति,तथा तेषामुचितां व्याख्यां करोति।बुद्धेरस्या अवधारका जना: दार्शिनका:,साहित्यकारा:, चित्रकारा:,कवयश्च भवन्ति।।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vimal_punia&oldid=461078" इत्यस्माद् प्रतिप्राप्तम्