सामग्री पर जाएँ

सदस्यः:Vipin aryan

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
     बुद्धे:  सिद्धातानां  समीक्षात्मकाध्ययनम्

बुद्धे: सामान्यपरिचय:

                                  आदिकालत: मानवसमाजस्य बुद्धे: विषये चिन्तनं यत् ‘बुद्धिर्यस्य बलं तस्य’ अर्थात् य: बुद्धिमान् वर्तते, स: बलवान् शक्तिमान् च वर्तते। शिक्षामनोविज्ञाने बुद्धे: विषये बहून्यनुसन्धानानि जातानि। सप्तदश शताब्दौ दर्शनेन सह मनोविज्ञानाध्ययने बुद्धे: स्वरुपसंरचनाप्रकारसैद्धान्तिकानामाधारस्य परिचर्या प्रारब्धासीत्।

व्यक्तित्ववैभिन्येन प्रत्येकव्यक्तौ बुद्धे: स्तरा: अनुवांशिकी एवं पर्यावरणीयकारकाणां प्रभावस्य कारणेन पृथक् पृथक् भवति। ई• एल• थार्नडाइक महोदयेन बुद्धे: प्रकारत्रयमभिमतम्- (१) सामाजिक बुद्धि: (२) अमूर्त बुद्धि: (३) मूर्त बुद्धि:

बुद्धे: परिभाषा:

                           अधुना विषयपार्थिक्येन काश्चन् परिभाषा: निरुपयनग्रे गमनशीलोSस्मि।

(१) ‘व्यवस्यात्मिका बुद्धि:' इति गीतायां प्रस्तूयते। (२) दार्शनिका: वदन्ति यत् ‘निश्चयात्मिकान्त:करणा बुद्धि:' मनसि समागच्छति यत् सत्याSसत्यं, युक्ताSयुकतं ,नैतिकाSनैतिकमि त्यादिभेदज्ञानस्य प्रयच्छति। (३) स्टर्न महोदयानुसारेण- नूतनपरिस्थितिषु जीवनस्य विभिन्न- समस्यानुगुणं समायोजनस्य सामान्यशक्तिरेव बुद्धिरित्युच्यते। (४) टर्मन महोदयानुसारेण- व्यक्ते: अमूर्तभावानां चिन्तनशक्ति: यावत् भवति,तावदेव बुद्धिमानिति वक्तुं शक्यते।


          बुद्धे:  सिद्धान्ता:
                            बुद्धे: अस्तित्वमस्माभि: सर्वै: स्वीकार्यते, परन्तु मापनस्य सर्वसम्मता: आधारा: अपि नास्ति। तथापि अनेकै: मनोवैज्ञानिकै: बुद्धे: परिकल्पनां कुर्वन् अनेका: सिद्धान्ता: प्रस्तुता:। सिद्धान्त: यानी परिकल्पना वर्तते यत्‌ वास्तविकं नैव परिकल्पतेSलम्। तथापि अनया परिकल्पनया वास्तविकस्य बुद्धे: आभासो भवति। अधुनाग्रे प्रमुखानां सिद्धान्तानां विषये प्रस्तोत्स्यामीति।
                    ‌बह्व: मनोवैज्ञानिका: बुद्धिविषये अनुसन्धानं कृत्वा विविधसिद्धान्तानां प्रतिपादयामासु:। तेषां कारकसिद्धान्तानां संज्ञानात्मकसिद्धान्ता; इति द्विधा वर्गीकरणं संभवति। एतेषु कारकसिद्धान्ता: अतीव प्रसिद्धा: वर्तन्ते। एतेषामध्ययनेन बुद्धे: स्वरुपं सम्यक् ज्ञातुं शक्नुम: ।

बिने महोदयस्य एककारकसिद्धान्त:-

                                                                   अस्य सिद्धान्तस्य प्रतिपादक: बिने महोदय: वर्तते। सिद्धान्तोSयं अतीव प्राचीनतम: वर्तते। अस्य सिद्धान्तस्य समर्थका: टर्मन् इत्यादय: वर्तन्ते। अस्य सिद्धान्तस्य प्रतिपादनं 1911 ई० तमेSभवत्। अस्य सिद्धान्तस्यानुसारेण बुद्धि: अविभाज्यमड्ग़ं वर्तते। बुद्धे: भाज्यं न भवति, सा एकात्मिका भवति। अस्यानुसारेण कस्यचित् व्यक्ते: एकस्मिन् क्षेत्रे नैपुण्यमन्येषु क्षेत्रेष्वपि तस्य व्यक्ते: नैपुण्यं साधयति।
                                                         परन्तु लोके तथा न दृश्यते यथा- विद्यालये काश्चन् छात्र: सर्वेषु विषयेषु समानाड्क़ान् न प्राप्नोति,अत: सिद्धान्तोSयं तिरस्कृत:।

स्पीयरमैन महोदयस्य द्विकारकसिद्धान्त:

                                                                        स्पीयरमैन महोदयेन द्विकारकसिद्धान्तस्य प्रतिपादनं 1904 ई० तमे वर्षे कृतम्।स: बुद्धे: विश्लेषणे सामान्यकारकं विशिष्टकारकमिति कारकद्वयं प्रत्यपादयत्,एतत् सामान्यकारकं व्यक्ते: समस्तमानसिककार्याणि प्रभावयति। कारकमिदं प्रत्येकं मनुष्येषु पृथक् पृथक् भवति, इदं कारकं जन्मन: भवति। अस्मिन् प्रशिक्षणस्य प्रभावो न भवति।
                                                    सर्वेषां मनुष्याणां विविधेषु कार्येषु विशिष्टसामर्थ्यं विशिष्टकारकं भवति। यथा- कश्चित् व्यक्ति: गणितसाहित्यनृत्यादिषु कलासु निपुण: भवति। विभिन्नकार्येषु व्यक्तौ विशिष्टकारकं भिद्यते। व्यक्ति: परिवेशे विशिष्टकारकमर्जयति, अत: प्रशिक्षणेनानुभवेन च एतस्य विकास: कर्तुं शक्यते। सामान्यविशिष्टकारकयो: भवति। तयो: सहसम्बन्ध: यस्मिन् क्षेत्रे जायते, तस्मिन् तावदधिकं प्रगतिं प्राप्नोति। 

थार्नडाइक महोदयस्य बहुकारकसिद्धान्त:

                                                                           थार्नडाइकमहोदय: अस्य सिद्धान्तस्य प्रवर्तक: वर्तते। थार्नडाइकमहोदयस्यास्य सिद्धान्तानुसारेण बुद्धि: विभिन्नानां कारकाणां सम्मेलनमस्ति। एष: महोदय: द्विसिद्धान्ते सामान्यकारकं तिरस्करोति। अस्य मतेन बुद्धि: अनेकस्वतन्त्रप्रकारकाणां समूह: भवति,अत्र प्रत्येकं कारकं कस्यचित् विशिष्टमानसिकसामर्थ्यस्य प्रतिनिधि: भवति। विभिन्नमानसिककार्येष्वेतेषां लघुकारकाणां विभिन्नसमूहा: साहाय्यमाचरन्ति। अतैव थार्नडाइकमहोदयस्याशय: यत् मानसिककार्येषु कानिचन कारकाण्युभयनिष्ठानि भवन्तीति।

थर्स्टन महोदयस्य समूहकारकसिद्धान्त:-

                                                                         सिद्धान्तोSयं स्पीयरमैन महोदयस्य द्विकारकसिद्धान्त: एवं थार्नडाइक महोदयस्य बहुकारकसिद्धान्त:, तयो: मध्यगामी‌ वर्तते। अस्य मते बुद्धावसंख्याकानि कारकाणि समूहरूपेण दृश्यते।एवं विभिन्नमानसिककार्येषु विभिन्नकारकाण्यन्तर्भवन्ति। अनेन महोदयेन विश्वविद्यालयस्य छात्रेषु षट्पञ्चाशत्वारं मनोवैज्ञानिकपरीक्षान्ते सप्तप्राथमिकमानसिकसामर्थ्यान्य- भिज्ञातानि।

(१) शाब्दिकसामर्थ्यम्- व्यक्ते: शाब्दिकविचाराणामवगमसामर्थ्यमेव शाब्दिकसामर्थ्यमिति कथ्यते। (२) सांख्यिकीसामर्थ्यम्- व्यक्ते: गणितीयसामर्थ्यमेव सामर्थ्यमिति कथ्यते। (३) स्थानात्मकसामर्थ्यम्- विविधप्रदेशस्य निरीक्षणस्यावगमनस्य सामर्थ्यमत्रान्तर्भवन्ति। (४) प्रत्यक्षात्मकसामर्थ्यम्- अनेन प्रक्षणेन विविधवस्तुनि शीघ्रमेवाभिजानाति। (५) स्मृतिसामर्थ्यम्- अनेन व्यक्ति: अधिगतविषयान् तथ्यानि च शीघ्रमेव पुन: स्मरति। (६) तार्किकसामर्थ्यम्- अनेन व्यक्ति: अमूर्तसम्बन्धानां प्रत्यक्षीकरणं करोति, तथा तेषां प्रयोगमपि करोति। (७) शब्दप्रवाहसामर्थ्यम्- एतत् मानसिकभावानां विचाराणाञ्चाभिव्यक्तिकरणे व्यक्ते: सामर्थ्यं द्योतयति।

गिलफोर्ड महोदयस्य बुद्धिसंरचनासिद्धान्त:-

                                                                            बुद्धे: एवं योग्यताया: संरचनाया: व्यक्तकरणायाधुना यावत् वर्णितानां सर्वेषां सिद्धान्तानां तुलनायां गिलफोर्डद्वारा निरुपितं संरचनाया: प्रतिमानं बहुचर्चितं सर्वाधिकं लोकप्रियमवर्तत। असौ बुद्धिसम्बद्धां प्रकारतां वर्गत्रये अस्थापयत्।

१- संक्रिया। २- विषय-वस्तु। ३- उत्पादनम्। संक्रिया- व्यक्ते: मानसिकप्रक्रियाया: स्वरूपं संक्रिया कथ्यते। संक्रियाया: आधारेण मानसिकयोग्यता षड्भागेषु विभक्ताSस्ति- मूल्यांकनम्, अभिसारी चिन्तनम्, अपसारी चिन्तनम्, स्मृतिधारणम्, स्मृत्यभिलेख:, संज्ञानमित्यादय:। विषय-वस्तु- याषामेकांशानां या सूचनानामाधारेण संक्रिया क्रियते, तत् विषय- वस्तु कथ्यते। सूचनानां पञ्चविभागा: सन्ति- दृष्टि:, श्रवणम्, सांकेतिकम्, शाब्दिकम्, व्यवहारपरकमित्यादय:। उत्पादनम्- विशेषप्रकारस्य विषयवस्तुना सह क्रियमाणं संक्रियाया: परिमाणमेवुत्पादनं वदन्ति। गिलफोर्ड महोदयानुसारेण परिणामस्य षड्भागा: सन्ति – ईकाई, वर्ग:, पद्धतय:, रूपान्तरणम्, आशय: इत्यादय:।

निष्कर्ष:-

                 मनोवैज्ञानिकानामुपयुक्तसिद्धान्तान् विहाय बुद्धिविषयेSपि सिद्धान्ता: प्रतिपादिता: सन्ति- परन्तु ते सिद्धान्ता: न बुद्धे: स्वरूपं नैव व्यक्ते: सामान्य एवं विशेषयोग्यताया: विषये निश्चितनिष्कर्षे न प्राप्तवन्त:। बुद्धे: विषये आधुनिकविचारधारां प्रस्तुवन् ह्विटमरमहोदय: अलिखत् यत्- बुद्धे: तुल्यं स्वतन्त्रांश: न विद्यते। अत: इदं वचनं विहाय व्यक्तौ बुद्धि: अस्ति, इदं कथनं तत्थ्यात्मकं यत् स: व्यक्ति: बुद्धिमत्तापूर्णं व्यवहारं करोतीति।


             इति शम्
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vipin_aryan&oldid=461048" इत्यस्माद् प्रतिप्राप्तम्