सदस्यः:Yograj/प्रयोगपृष्ठम्
सम्पूर्णे इतिहासे सोमनाथ-मन्दिरस्य बहुवारं नाशः अभवत् । बहवः यवनराजानः, मुगलराजानः च सोमनाथ-मन्दिरस्य सम्पत्तिं लुण्ठितवन्तः ।
- सोमनाथस्य प्रथमं मन्दिरं ईसाई-युगस्य प्रारम्भे एव अभवत् इति उच्यते [१]। तदनन्तरं गुजरात-राज्यस्य वल्लभी-प्रदेशस्य मैतृक-राजभिः सोमनाथ-मन्दिरस्य द्वितीयवारं निर्माणं कारितम् आसीत्[२] ।
- पुनश्च ई. स. ७२५ तमे वर्षे सिन्ध-प्रदेशस्य अरब-राज्यपालेन द्वितीयमन्दिरस्य नाशं कर्तुं स्वस्य सैन्यं प्रेषितम् आसीत् ।
- तदनन्तरं ई. स. ८१५ तमे वर्षे प्रतिहार-वंशस्य राज्ञा नागभट्टद्वितीयेन सोमनाथस्य तृतीयमन्दिरस्य रक्तसिकतापाषाणैः निर्माणं कारितम्[३], [४]।
- पुनश्च गजनी-साम्राज्यस्य महमूद इत्याख्येन ई. स. १०२६ तमे वर्षे मन्दिरस्य नाशं कृतम् । तेन शिवलिङ्गम् अपि भङ्गीकृतम् । अतः प्रमुखशिवलिङ्गं पूर्णतया नष्टम् जातम् आसीत् ।
- ई. स. १०२६ तमे वर्षे चतुर्थवारं मालवा-प्रान्तस्य परमार-वंशस्य राज्ञा भोजेन मन्दिरस्य निर्मार्णं कारितम् । पुनश्च ई. स. १०४२ तमे वर्षे गुजरात-राज्यस्य सोलङ्की-वंशस्य राज्ञा भीमेन अपि अस्य पुनर्निर्माणं कारितम् आसीत् ।
- काष्ठैः मन्दिरस्य निर्माणं कारितम् आसीत् । अतः सोलङ्की-वंशस्य राज्ञा कुमारपालेन पुनः पाषाणैः मन्दिरस्य निर्माणं कारितम् आसीत् ।
- पुनश्च १३०० तमे वर्षे अलफ खान इत्याख्येन राज्ञा मन्दिरं नष्टं कृतम्[५] ।
- तदनन्तरं ई. स. १३९४ तमे वर्षे गुजरात-राज्ये पुनः दिल्ली-साम्राज्यस्य सार्वभौमत्वम् अभवत् । ई. स. १७०६ तमे वर्षे औरङ्गजेब् इत्याख्येन मुगल-राज्ञा मन्दिरस्य नाशं कृतम् ।[६]
लुण्ठकः “महमद”
[सम्पादयतु]महमद इत्याख्यः एकः यवनशासकः आसीत् । सः निर्दयी, निकृष्टः च शासकः आसीत् । सः सोमनाथ-मन्दिरस्य साम्पत्तिकम् ऐश्वर्यं ज्ञातवान् आसीत् । अतः लोभकारणेन सः सोमनाथ-मन्दिरं लुण्ठितुम् ऐच्छत् । सोमनाथ-मन्दिरं गन्तुं उत्तर-पूर्वदिशि मार्गः आसीत् । किन्तु तस्मिन् मार्गे अवरोधः भवितुं शक्यते स्म । अतः महमद अन्यमार्गेण सोमनाथ-नगरं प्राप्तवान् । किन्तु सः कुतः सोमनाथ-मन्दिरं प्राप्तवान् आसीत्, तस्य किमपि प्रमाणं नास्ति । तथापि अनुमानम् अस्ति यत् – “सः राजस्थान-राज्यस्य रणप्रदेशं प्राप्य गतवान् स्यात् इति” । तस्य मार्गे अन्हीलवाड अपि आगतम् । तस्मिन् समये भीमदेवः तत्रत्यः राजा आसीत् । सः सोलङ्की-वंशीयः आसीत् । सहसा महमद इत्याख्यस्य सेनया सह आगमनेन भीमदेवः भीतः जातः । यतः भीमदेवः तदा नूतनः एव आसीत् । किन्तु महमद-इत्याख्येन अन्हीलवाड-प्रदेशस्य वा निवसतां काऽपि क्षतिः न कृता । तदनन्तरं तस्य मार्गे बहुचराजी, वीरमगाम, धंधुका, ऊना देलवाडा, कोडीनार इत्यादयः प्रदेशाः आगताः । तेन कोडीनार-प्रदेशस्य देवालयं नष्टीकृतम् । अनेन ज्ञायते यत् – महमद इत्याख्येन सोमनाथ-मन्दिरस्य प्राप्तिपूर्वं कुत्रापि युद्धं न कृतम् । कोडीनार-प्रदेशानन्तरं मार्गे कोऽपि तेन सह युद्धं कर्तुं समर्थः नासीत् । यदा सः गीर-प्रदेशस्य सीमां प्राप्तवान् आसीत्, तदा गीर-प्रदेशस्य आदिवासिजनैः तेन सह युद्धं कृतम् । तस्मिन् युद्धे महमद-इत्याख्यस्य महत्सैनिकाः मृताः । १०२६ तमस्य वर्षस्य जनवरी-मासे महमद सोमनाथ प्रभास-नगरं प्राप्तवान् आसीत् [७]।। साम्प्रतं प्रभास-नगरं सोमनाथ इति नाम्ना ज्ञायते । यदा सः सोमनाथ-नगरं प्राप्तवान् आसीत्, तदा सोमनाथमन्दिरस्य रक्षणार्थं सैन्यम् एव नासीत् । यतो हि भारतवर्षे तस्य मन्दिरस्य प्रतिष्ठा आसीत् यत् - कोपि भारतीयराजा तस्मै मन्दिराय हानिः न करोति । यदा महमद इत्ययं स्वस्य सैन्येन सह सोमनाथ-मन्दिरं प्राप्तवान्, तदा तत्रत्यैः क्षत्रियैः लघुसैन्यं रचितम् । क्षत्रियाः लघुसैन्येन एव युद्धम् अकुर्वन् । तद्युद्धं आदिनम् अभवत् । रात्रौ युद्धस्य् विरामः अभवत् । अपरे दिने प्रातःकाले पुनः महमद इत्याख्येन आक्रमणं कृतम् । तावत्पर्यन्तं रा’नवघण इत्याख्यः राजा सोमनाथ-मन्दिरस्य रक्षणार्थं प्राप्तवान् आसीत् । रा’नवघण इत्यस्य सैन्यबलं अनुभूय तस्मिन् दिने महमद इत्याख्येन युद्धः अवरोधितः । अनेन क्रियया सोमनाथ-मन्दिरस्य रक्षकाः निश्चिन्ताः अभवन् । ते आनन्दम् आनुभवन् । किन्तु इयं महमद इत्याख्यस्य युक्तिः एव आसीत् | यदा रक्षकाः आनन्दोत्सवम् आमनन्तः आसन्, तस्मिन् समये महमद-इत्यनेन सहसा एव रक्षकेषु आक्रमणं कृतम् । तस्मिन् आक्रमणे बहवः रक्षकाः मृताः । तदनन्तरं तेन मन्दिरस्य नाशं कृत्वा सोमनाथ-महादेवस्य लिङ्गं परिखण्डितम् [८]। यदा लिङ्गं खण्डितं जातं, तदा लिङ्गस्य अधस्तात् बहूनि रत्नानि, द्रव्यानि च प्राप्तानि अभवन् । तेषां द्रव्याणां तुलना अपि अशक्या । तस्मिन् युद्धे पञ्चाशत्सहस्त्रं भारतीयसैनिकाः हताः ।
प्रतिगमनम्
[सम्पादयतु]लुण्ठनानन्तरं महमद ततः त्वरितमेव निर्गतवान् आसीत् । केचन लेखकाः कथयन्ति यत् – यथा महमद निशब्देन आगतवान् आसीत्, तथैव सः निशब्देन एव निर्गतवान् आसीत् । सः केनचित् अज्ञातमार्गेण गतवान् । यतः गुजरात-राज्यस्य विभिन्नप्रदेशीयाः राजानः तस्य गमनमार्गे युद्धाय तिष्ठन्तः आसन् । अतः महमद इत्यनेन सः मार्गः त्यक्तः, यत्र राजानः आसन् । “खिताब झइन् उल् अखबार” इत्ययं प्राचीनतमः लेखः आसीत् । तस्य लेखानुगुणं मुनशीजी इत्याख्येन उक्तम् अस्ति यत् – “हिन्दूनां राजा परमदेवः तस्य गमनमार्गे आसीत् अतः महमद भीतः जातः । सोमनाथ-मन्दिरस्य लुण्ठने यावत् परिश्रमः अभवत्, सः परिश्रमः व्यर्थः मा भवेत् इति विचिन्त्य सः अन्यमार्गेण गतवान् आसीत् । सः एकस्य मार्गदर्शकस्य साहाय्येन मानसुरा इत्यस्मात् स्थानात् मुलतान-प्रदेशं प्राप्तवान् आसीत् । सः स्वस्य सेनया सह समुद्रस्य तीरे एव गच्छन् आसीत् । मार्गे मरुप्रदेशः अपि आसीत् । मरुप्रदेशस्य शुष्कभूमेः, समुद्रस्य तरङ्गेभ्यः च तस्य सेनायाः पशवः, यवनाः च हताः । मुलतान-प्रदेशं प्राप्ते सति महमद इत्यस्य महद् हानिः जाता । परमदेवः कः आसीत् इति इतोऽपि अस्पष्टम् अस्ति । किन्तु मुनशीजी इत्याख्यानुसारं “परमदेवः तत्कालीनस्य परमार-वंशस्य राजा भोजः आसीत्” इति अनुमानम् अस्ति । ई. स. १०२६ तमस्य वर्षस्य अप्रैल-मासस्य २ दिनाङ्के महमद स्वदेशं प्राप्तवान् आसीत् । किन्तु तदा तस्य सेनायाः स्थितिः गभीरा आसीत् । अनन्तरं सः कदापि भारतस्य कस्मिंश्चित् अपि प्रदेशे आक्रमणं कर्तुं नैच्छत् । अनेन स्पष्टं भवति यत् – महमद युद्धं कर्तुं विहाय एव धनं प्राप्तुं ऐच्छत् । अतः सः गुप्तमार्गेण आवागमनं कृतवान् आसीत् । अनन्तरं भीमदेवप्रथमेन, कुमारपालेन इत्याख्यैः राजभिः सोमनाथस्य पुनर्निमाणं कृतम् । महमद इत्याख्येन केवलं लुण्ठनकार्यं एव कृतम् । अपरं सः किमपि श्रेष्ठं विशेषं वा कार्यं न कृतवान् । यदा सः गजनी-प्रदेशं प्राप्तवान्, तदा तत्रत्यैः राजपुत्रैः तेन सह युद्धम् कृतम् । तस्मिन् समये सः जीर्णज्वरेण पीडितः आसीत् । तथापि ई. स. १०२७ तमे वर्षे सः सिन्ध-देशे आक्रमणं कृतवान् । तस्मिन् युद्धे सः पराजयं प्राप्तवान् । ई. स. १०३० तमे वर्षे तस्य मृत्युः अभवत् ।
प्रसङ्गस्य वर्णने विवादः
[सम्पादयतु]महमद इत्यनेन यावन्ती सम्पत्तिः लुण्ठिता, तस्य अतिशयोक्तिपूर्णं वर्णनं कृतम् अस्ति । अस्य प्रसङ्गानुसारं बहुभिः यवनलेखकैः स्वस्य लेखे वर्णनं कृतम् अस्ति । किन्तु तद्वर्णनं अतिशयोक्तिपूर्णं, अविश्वसनीयं च वर्तते । यतो हि तेषां लेखेषु यत् वर्णितम् अस्ति तस्मिन् केवलं – “रक्षकाः मन्दिरस्य रक्षणार्थं युद्धं कृतवन्तः । पञ्चसहस्त्रं रक्षकाः हुतात्मनः अभवन्” इत्यादयः सर्वं वर्णनं सत्यं वर्तते । अन्यं सर्वम् अतिशयोक्तिपूर्णं अविश्वसनीयं च वर्णनं वर्तते । ये इतिहासस्य लेखकाः आसन्, तैः अपि अस्य प्रसङ्गस्य उल्लेखः कुत्रापि न कृतः । हेमचन्द्राचार्यतः सोमेश्वरपर्यन्तं सर्वे लेखकाः अस्य प्रसङ्गस्य विषये किमपि न लिखितवन्तः । महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) ई. स. १०३१ तमे वर्षे खिताब इयमीनी इति लिखितम् आसीत् । तस्मिन् अपि तेन अस्य प्रसङ्गस्य विषये किमपि न वर्णितम् । अक् गार्डीझी इत्याख्यः एकः अरब-भाषायाः लेखकः आसीत् । ई. स. १०४९ तः १०५२ वर्षपर्यन्तं अल् गार्डीझी इत्याख्येन झइन् उल् अखबार इति नामकं पुस्तकं लिखितम् आसीत् । तस्मिन् पुस्तके तेन एव अस्य प्रसङ्गस्य सर्वप्रथमः उल्लेखः कृतः आसीत् । अतः सोमनाथस्य नाशप्रसङ्गः न अभवत् इति नास्ति इति स्पष्टं भवति । किन्तु प्रसङ्गस्य द्विशतं वर्षाणि यावत् यवनलेखकैः ये लेखाः लिखिताः । तेषु लेखेषु अतिशयोक्तियुताः बहवः लेखाः सन्ति । ते लेखाः सम्यक्तया परिशीलनीयाः भवन्ति । यवनलेखकाः स्वस्य लेखेषु महमद-इत्याख्यस्य शौर्यस्य प्रशंसां कुर्वन्ति । साम्प्रतं अनेकाः यवनबौद्धिकाः महमद इत्याख्यस्य पक्षे कथयन्ति यत् - “ महमद इत्याख्येन गजनी-प्रदेशस्य सुन्दरभवनानां निर्माणाय, पुस्तकालस्य निर्माणाय इत्यादिभ्यः विभिन्नकार्येभ्यः लुण्ठितस्य धनस्य उपयोगः कृतः आसीत् । यः जनः अन्यधर्मस्य कलात्मकभवनानां नाशे, लुण्ठने, युद्धे, स्त्रीणाम् अपहरणे इत्यादिषु कार्येषु एव स्वस्य धर्मः कथयति, तेन इस्लाम-धर्मस्य सर्वे नियमाः भङ्गीकृताः । महमद इत्याख्येन मथुरा-नगरस्य केशवदेवस्य मन्दिरस्य नाशः कृतः आसीत् । अतः यः स्थापत्यप्रेमी भवति, सः एतावत् कार्यं कथं कर्तुं शक्नोति ? महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) मन्दिरस्य विषये उक्तं यत् – “इदं मन्दिरं समृद्धं आसीत् । सर्वोत्कृष्टाः निर्मातारः अपि २०० वर्षेषु अपि एतावतं सुन्दरं कार्यं कर्तुं न शक्नुवन्ति” । यस्मिन् यवनोपासनागृहे बहुवर्षाणि यावत् काऽपि धार्मिकक्रिया न भवति स्म, तस्य बाबरी यवनोपासनागृहस्य नाशेन यवनाः दुःखीताः अभवन् । तथैव यदा सोमनाथ-मन्दिरस्य नाशः अभवत्, तदा भारतीयाः महद्दुःखीताः अभवन् इति निश्चितम् । इतिहासे अयमेकः अविस्मरणीयः कृत्यः आसीत् । भारते प्रथमवारं एतावत् विध्वंसकं कार्यम् अभवत् । ततः परं अन्यैः यवनैः अपि नाशकानि कार्याणि कृतानि । किन्तु तेषाम् अयं कृत्यः इस्लाम-धर्महीनः आसीत् । इस्लाम-धर्मे धर्मस्थानानां नाशाय प्रतिबन्धः अस्ति । किन्तु तत्कालीनैः इस्लाम-धर्मोपासकैः महमद इत्याख्यस्य प्रशंसा कृता, पुरस्कारः प्रदत्तः च आसीत् । महमद इत्याख्येन यद्दुष्कार्यं कृतम् आसीत्, तस्य प्रभावः वर्तमाने अपि दृश्यते । अमेरिका-देशस्य ‘परसीवल् स्पीअर्’ इति नामकेन इतिहासकारेण लिखितम् अस्ति यत् – “महमद इत्याख्यस्य कृत्यस्य परिणामद्वयम् अभवत् । प्रथमं तु यवनेभ्यः भारतं प्रवेशाय मार्गः उद्घाटितः जातः । द्वितीयं तु भारतीयानां मनसि यवनानां कृते सहिष्णुता समाप्ता जाता” । साम्प्रतं देशस्य विभागानन्तरम् अपि भारते यवनाः बहवः सन्ति । यवनानां जनसङ्ख्यानुगुणं भारतं विश्वस्मिन् द्वितीयक्रमाङ्के अस्ति । यतः इस्लाम-धर्मोपासकः, सूफीसंत इत्यादीनां निर्मलतायाः, सहिष्णुतायाः, सन्तजीवनस्य च कारणादेव भारतीयाः आकर्षिताः अभवन् । ते उपासकाः सहिष्णवः आसन् । सः इस्लाम-धर्मस्य नियमानाम् अनुसरणं कुर्वन्ति स्म ।
आक्रमणानन्तरम्
[सम्पादयतु]महमद इत्याख्यस्य आक्रमणेन स्पष्टं भवति यत् – “कस्मिंश्चित् समये अफगानिस्तान्-देशः ब्राह्मणराज्ञाम् अधीनः आसीत् । किन्तु तदनन्तरम् अफगानिस्तान्-देशे तुर्क्-देशीयानाम् आधिपत्यम् अभवत् । तुर्क्-देशीयैः पञ्जाब-राज्ये अपि आधिपत्यं कृतम् आसीत् । अनेन कारणेन तुर्क्-देशीयाः भारतस्य सम्पर्के आसन् । तेन एव कारणेन महमद इत्याख्येन निरन्तरं सप्तदशवारं भारते आक्रमणानि कृतानि आसन् । सोमनाथमन्दिरस्य, मथुरा-नगरस्य देवालयानां लुण्ठनानन्तरं स्पष्टम् अभवत् यत् यदा कदा अपि वैदेशिकाः अवसरं प्राप्स्यन्ति, तदा भारते आक्रमणं करिष्यन्ति । यतः पञ्जाब-राज्यस्य मार्गम् अपि उद्घाटितम् आसीत् । सम्पूर्णं वृत्तान्तं ज्ञात्वा अपि भारतीयाः राजानः अभिमानस्य कारणात् सङ्घटिताः न जाताः इति स्पष्टम् अस्ति ।
वैशिष्ट्यम्
[सम्पादयतु]तत्र भूगर्भे सोमनाथ-लिङ्गस्य स्थापना कृता अस्ति । भूगर्भे सति प्रकाशस्याभावः वर्तते । तस्मिन् मन्दिरे पार्वत्याः, सरस्वत्याः, लक्ष्म्याः, गङ्गायाः, नन्देः च मूर्तयः सन्ति । भूमेः उपरिभागे शिवलिङ्गस्योपरि अहल्येश्वरमूर्तिः अस्ति । सोमनाथ-मन्दिरस्य प्राङ्गणे गणेशस्य अपि एकं मन्दिरम् निर्मापितमस्ति । अपरं च उत्तरद्वारस्य बहिः अघोरलिङ्गस्य मूर्तिः अपि स्थापिता अस्ति । प्रभास-तीर्थे अहलयाबाई-मन्दिरस्य समीपे एव महाकाली-मन्दिरम् अपि अस्ति । गणेशस्य, भद्रकाल्याः, विष्णोः च मन्दिरं नगरे स्थितमस्ति । नगरस्य द्वारस्य समीपे गौरीकुण्ड-नामकः सरोवरः वर्तते । तस्य सरोवरस्य समीपे एकं प्राचीनं शिवलिङ्गम् अपि वर्तते[९] ।
- ↑ "History of Somnath temple, History of somnath gujarat". http://www.indianholiday.com. आह्रियत 17 March 2015.
- ↑ "History of Ghazni Mahumud". http://www.winentrance.com/. आह्रियत 17 March 2015.
- ↑ "History of Somnath temple, History of somnath gujarat". http://www.indianholiday.com. आह्रियत 17 March 2015.
- ↑ "Somnath Temple Gujarat History". http://trimbakeshwar.in. आह्रियत 17 March 2015.
- ↑ "Somnath Temple Gujarat History". http://trimbakeshwar.in. आह्रियत 17 March 2015.
- ↑ "History of Ghazni Mahumud". http://www.winentrance.com/. आह्रियत 17 March 2015.
- ↑ "History of Ghazni Mahumud". http://www.winentrance.com/. आह्रियत 17 March 2015.
- ↑ "History of Ghazni Mahumud". http://www.winentrance.com/. आह्रियत 17 March 2015.
- ↑ "सोमनाथ". http://hi.bharatdiscovery.org/. आह्रियत 17 March 2015.