सदस्यसम्भाषणम्:ज्योतिर्मयभट्टाचार्यः
विषयः योज्यताम्आयुर्वेदस्य आधुनिकपरिप्रेक्ष्ये विकासः प्रस्तावना - आयुर्वेदः भारतस्य प्राचीनतमः चिकित्साशास्त्रीय-परम्परा अस्ति। चरकसंहिता, सुश्रुतसंहिता, अष्टाङ्गहृदयम् इत्यादयः बहुप्राचीनाः ग्रन्थाः अस्य मूलानि। यद्यपि आयुर्वेदः सहस्रवर्षपरम्परायुक्तः, तथापि आधुनिकयुगे अपि अस्य महत्त्वं न केवलं भारतदेशे अपि तु विश्वस्तरे वेगेन वर्धते।
आधुनिकपरिप्रेक्ष्ये आयुर्वेदस्य विकासकारणानि-
१. नैसर्गिक-चिकित्सायाः वैश्विक-प्रवृत्तिः- आधुनिकजनाः रासायनिकौषधोपयोगात् उपजायमानान् दुष्प्रभावान् दृष्ट्वा स्वाभाविक-उपचारपद्धतिम् अधिकं व्यवहरति। तत्र आयुर्वेदः सुरक्षितः, दीर्घकालिकः, मूलकारणपरकः इति प्रसिद्धः।
२. WHO (विश्वआरोग्यसंस्था) द्वारा आयुर्वेदस्य समर्थनम्- विश्वआरोग्यसंस्थायाः Traditional Medicine Strategy इत्यस्यान्तर्गतम् आयुर्वेदस्य मान्यता–वृद्धिः जाताऽस्ति। अनेकदेशेषु आयुर्वेदिककेन्द्राणि स्थाप्यन्ते।
३. आधुनिकवैज्ञानिक-अनुस न्धानम् भारते— CCRAS (Central Council for Research in Ayurvedic Sciences) आयुष् मंत्रालयम् एते संस्थानानि औषधीयवनस्पतीनां, रसायणानां, पञ्चकर्मस्य च वैज्ञानिकमूल्यं परीक्षन्ते। ४. सहायकचिकित्सा (Integrative Medicine) अनेकाः आधुनिक-चिकित्सालयाः आयुर्वेद:+ आधुनिकचिकित्सा इति संयुक्तपद्धतिं स्वीकुर्वन्ति।
आयुर्वेदे आधुनिकपरिवर्तनानि-
१. आयुर्वेदस्य डिजिटल-रूपान्तरणम्- आयुर्वेदिक-अप्प्स्, ऑनलाइन-परामर्शः, डिजिटलक्लिनिक्, OSHADI-दत्तांशकोशः (Medicinal Plants Database) २. आयुर्वेदिक-औषधानां वैश्विक-विपणिः-
च्यवनप्राशः, अश्वगन्धा, तुलसी, हल्दी इत्यादीनां महत्ता। अमेरिका, जर्मनी, जापान, ऑस्ट्रेलिया इत्यादिदेशेषु निर्यात-वृद्धिः।
३. पञ्चकर्मस्य अन्तर्राष्ट्रीय-प्रसिद्धिः-
पञ्चकर्मं न केवलं रोगनिवारणाय, अपि तु स्वास्थ्य-पर्यटनस्य भागः अभवत्। ४. आयुर्वेदोपचार-केद्राणि- केरलप्रदेशं विश्वप्रसिद्धं जातम्। वर्षे सहस्रशः विदेशी-पर्यटकाः आयुर्वेदोपचारं लभन्ते। ५. वैश्विकस्तरे शिक्षणकार्यक्रमाः- अनेकाः विश्वविद्यालयाः आयुर्वेदे— Bachelor (BAMS) Diploma International Certificate Courses प्रवर्तनं कुर्वन्ति।
आयुर्वेदस्य प्रमुखा आधुनिक-प्रयोगक्षेत्राणि- 1. मानसिक-स्वास्थ्यस्य परिपालनम् – ध्यानम्, योगः, औषधीय-सेवनम्।
2. प्रतिरक्षा-वृद्धिः – कोविड्-कालस्य समये आयुष-काढ़ा सर्वत्र प्रसिद्धम्।
3. दीर्घकालिक-रोगेषु लाभः – अस्थमासु, मधुमेहे, सन्धिवातेषु।
4. स्वास्थ्य-पर्यटनम् (Wellness Tourism)
5. आरोग्य-सौन्दर्यशास्त्रम् (Ayurvedic Cosmetology) – त्वक्चिकित्सा, केशचिकित्सा।
निष्कर्षः- आयुर्वेदः प्राचीनः सन् अपि, आधुनिकपरिप्रेक्ष्ये नूतन-रूपेण पुनरुत्थितः अस्ति। वैज्ञानिक-अनुसन्धानैः, सर्वकारीयसमर्थनैः, डिजिटल-प्रवर्तनैः च सह— आयुर्वेदः विश्वस्य महत्त्वपूर्ण-परम्पराचिकित्सापद्धतिषु अग्रस्थानं प्राप्तुम् आरब्धवान्।
ज्योतिर्मयभट्टाचार्यः के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। ज्योतिर्मयभट्टाचार्यः के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।