सामग्री पर जाएँ

सदस्यसम्भाषणम्:ज्योतिर्मयभट्टाचार्यः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आयुर्वेदस्य आधुनिकपरिप्रेक्ष्ये विकासः प्रस्तावना - आयुर्वेदः भारतस्य प्राचीनतमः चिकित्साशास्त्रीय-परम्परा अस्ति। चरकसंहिता, सुश्रुतसंहिता, अष्टाङ्गहृदयम् इत्यादयः बहुप्राचीनाः ग्रन्थाः अस्य मूलानि। यद्यपि आयुर्वेदः सहस्रवर्षपरम्परायुक्तः, तथापि आधुनिकयुगे अपि अस्य महत्त्वं न केवलं भारतदेशे अपि तु विश्वस्तरे वेगेन वर्धते।


आधुनिकपरिप्रेक्ष्ये आयुर्वेदस्य विकासकारणानि- 

१. नैसर्गिक-चिकित्सायाः वैश्विक-प्रवृत्तिः- आधुनिकजनाः रासायनिकौषधोपयोगात् उपजायमानान् दुष्प्रभावान् दृष्ट्वा स्वाभाविक-उपचारपद्धतिम् अधिकं व्यवहरति। तत्र आयुर्वेदः सुरक्षितः, दीर्घकालिकः, मूलकारणपरकः इति प्रसिद्धः।

२. WHO (विश्वआरोग्यसंस्था) द्वारा आयुर्वेदस्य समर्थनम्- विश्वआरोग्यसंस्थायाः Traditional Medicine Strategy इत्यस्यान्तर्गतम् आयुर्वेदस्य मान्यता–वृद्धिः जाताऽस्ति। अनेकदेशेषु आयुर्वेदिककेन्द्राणि स्थाप्यन्ते।

३. आधुनिकवैज्ञानिक-अनुस न्धानम् भारते— CCRAS (Central Council for Research in Ayurvedic Sciences) आयुष् मंत्रालयम् एते संस्थानानि औषधीयवनस्पतीनां, रसायणानां, पञ्चकर्मस्य च वैज्ञानिकमूल्यं परीक्षन्ते। ४. सहायकचिकित्सा (Integrative Medicine) अनेकाः आधुनिक-चिकित्सालयाः आयुर्वेद:+ आधुनिकचिकित्सा इति संयुक्तपद्धतिं स्वीकुर्वन्ति।

आयुर्वेदे आधुनिकपरिवर्तनानि-

१. आयुर्वेदस्य डिजिटल-रूपान्तरणम्- आयुर्वेदिक-अप्प्स्, ऑनलाइन-परामर्शः, डिजिटलक्लिनिक्, OSHADI-दत्तांशकोशः (Medicinal Plants Database) २. आयुर्वेदिक-औषधानां वैश्विक-विपणिः-

च्यवनप्राशः, अश्वगन्धा, तुलसी, हल्दी इत्यादीनां महत्ता। अमेरिका, जर्मनी, जापान, ऑस्ट्रेलिया इत्यादिदेशेषु निर्यात-वृद्धिः।

३. पञ्चकर्मस्य अन्तर्राष्ट्रीय-प्रसिद्धिः-

पञ्चकर्मं न केवलं रोगनिवारणाय, अपि तु स्वास्थ्य-पर्यटनस्य भागः अभवत्। ४. आयुर्वेदोपचार-केद्राणि- केरलप्रदेशं विश्वप्रसिद्धं जातम्। वर्षे सहस्रशः विदेशी-पर्यटकाः आयुर्वेदोपचारं लभन्ते। ५. वैश्विकस्तरे शिक्षणकार्यक्रमाः- अनेकाः विश्वविद्यालयाः आयुर्वेदे— Bachelor (BAMS) Diploma International Certificate Courses प्रवर्तनं कुर्वन्ति।

आयुर्वेदस्य प्रमुखा आधुनिक-प्रयोगक्षेत्राणि- 1. मानसिक-स्वास्थ्यस्य परिपालनम् – ध्यानम्, योगः, औषधीय-सेवनम्।

2. प्रतिरक्षा-वृद्धिः – कोविड्-कालस्य समये आयुष-काढ़ा सर्वत्र प्रसिद्धम्।

3. दीर्घकालिक-रोगेषु लाभः – अस्थमासु, मधुमेहे, सन्धिवातेषु।

4. स्वास्थ्य-पर्यटनम् (Wellness Tourism)

5. आरोग्य-सौन्दर्यशास्त्रम् (Ayurvedic Cosmetology) – त्वक्चिकित्सा, केशचिकित्सा।

निष्कर्षः- आयुर्वेदः प्राचीनः सन् अपि, आधुनिकपरिप्रेक्ष्ये नूतन-रूपेण पुनरुत्थितः अस्ति। वैज्ञानिक-अनुसन्धानैः, सर्वकारीयसमर्थनैः, डिजिटल-प्रवर्तनैः च सह— आयुर्वेदः विश्वस्य महत्त्वपूर्ण-परम्पराचिकित्सापद्धतिषु अग्रस्थानं प्राप्तुम् आरब्धवान्।

Start a discussion with ज्योतिर्मयभट्टाचार्यः

Start a discussion