सामग्री पर जाएँ

सदस्यसम्भाषणम्:प्रतीकः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १०:२०, ११ अप्रैल २०१८ (UTC)

मनोगतम्

[सम्पादयतु]

“मनोगतम्” [33] ‘मन की बात’ [33]

(प्रसारण-तिथि: 25.06.2017) 	

[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य द्वितीयः संस्कृत-भाषिकानुवादः ]

                                -   संस्कृत-भाषान्तर-कर्ता -                                                       
                                                             -  डॉ.बलदेवानन्द-सागरः  
 मम प्रियाः देश-वासिनः ! नमस्कारः |
ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं  यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् - वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |

अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति - juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |

    अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम  !! 

रमज़ानस्य पवित्र-मासावधौ उत्तर-प्रदेशस्य बिजनौरस्य मुबारकपुर-ग्रामस्य एका महती प्रेरिका घटना मम दृष्टिपथमागता | प्रायेण सार्ध-त्रि-सहस्रं अस्मदीयाः मुस्लिम-समुदायस्य भगिन्यः भ्रातरः चात्र लघु-ग्रामे निवसन्ति, अत्र आधिक्येन मुस्लिम-समुदायस्य जनाः वर्तन्ते | रमज़ान-मासावधौ ग्रामवासिनः मिलित्वा शौचालयानां निर्माणार्थं निर्णीतवन्तः | अपि च, वैयक्तिक-शौचालयानां निर्माणार्थं सर्वकार-पक्षतः अपि साहाय्यं प्रदीयते | एतेभ्यः ग्रामवासिभ्यः प्रायेण सप्त-दश-लक्ष-रूप्यकाणि साहाय्य-रूपेण प्रदत्तानि | एतद् ज्ञात्वा भवन्तः सुखदम् आश्चर्यम् आनन्दं चापि अनुभविष्यन्ति | अस्मदीयाः सर्वेsपि मुस्लिम-भ्रातरः भगिन्यः च, रमज़ान-मासावधौ सर्वकाराय तां सप्तदश-लक्ष-रूप्यकात्मिकां राशिं परावर्तितवन्तः | अपि च, ते एवम् उक्तवन्तः यत् वयं स्वश्रमेण स्वीय-रूप्यकैः एव निज-शौचालयान् निर्मास्यामः | सप्त-दश-लक्ष-रूप्यकात्मिका एषा राशिः ग्रामस्य अन्य-सौविध्यार्थम् उपयुक्तः स्यात् | रमज़ानस्य पवित्रावसरः समाजस्य लाभार्थं उपयुक्तः इति कृत्वा अहं मुबारकपुरस्य सर्वान् अपि ग्रामवासिनः अभिनन्दामि | तेषां प्रत्येकमपि निर्णयः अतितरां प्रेरकः अस्ति | अपि च, सर्वतोsधिकतरम् अवधेयमिदं यत् तैः मुबारकपुरम् अनावृत-शौचाचरणात् मुक्तं विहितम् | वयं जानीमः यत् सिक्किम-हिमाचल-केरळ-इति राज्य-त्रयं पूर्वतः एव अनावृत-शौचाचरणात् मुक्तं घोषितम् | सप्ताहेsस्मिन् उत्तराखण्ड-हरियाणा-इति राज्य-द्वयमपि ODF- इति अनावृत-शौचाचरणात् मुक्तं घोषितम् | एतत्-कार्य-पूर्त्यर्थम् अहम् एतेषां पञ्चानां राज्यानां प्रशासनाय, शासनाय, विशेषेण च, जनता-जनार्दनाय साधुवादान् व्याहरामि | वयं संयुक्तया जानीमः - व्यक्तेः जीवने, समाजस्य जीवने च यत् किमपि समुचितं करणीयम् अस्ति चेत्, प्रतीकः (चर्चा) १६:३८, ११ अप्रैल २०१८ (UTC)