सदस्यसम्भाषणम्:लावण्यबती दास
विषयः योज्यताम्"सत्यस्य महिमा"
एकस्मिन् ग्रामे हरिश्चन्द्रः नाम एकः सत्यनिष्ठः बालकः आसीत्। सः सर्वदा सत्यं वदति स्म, न कदापि मिथ्यां भाषते स्म। अस्य आचरणेन सर्वे जनाः तेन संतुष्टाः आसन्। एकदा तस्य मित्राः क्रीडार्थं उद्यानं गतवन्तः। ते मार्गे एकं फलं लब्धवन्तः। मित्रेषु कश्चन उक्तवान्— “इदं फलं गुरोः उद्यानात् पतितम्। चल, अस्माभिः एतत् गृहीत्वा खादाम।” हरिश्चन्द्रः तं वचनं श्रुत्वा उवाच— “अयं मार्गः न उचितः। परस्य वस्तुं न हर्तव्यम्। यतः सत्यं धर्मस्य मूलम्।” सः तत् फलं आदाय गुरुसमीपं गतः तथा सर्वं कथितवान्। गुरुः तस्य सत्यवादित्वं दृष्ट्वा अतीव प्रसन्नः अभवत्। सः हरिश्चन्द्रं सर्वेषां विद्यार्थिनां सम्मुखे स्तुतवान्। गुरुणा उक्तम्— “यो जनः सर्वदा सत्यं वदति, सः समाजस्य दीपः भवति। अस्माकं विद्यालये हरिश्चन्द्रवत् सत्यनिष्ठाः विद्यार्थीः आवश्यकाः।” एवं सत्यस्य महिमा सर्वैः अनुभविता। बालकाः अपि प्रतिज्ञां कृतवन्तः— “वयं सर्वदा सत्यं वदिष्यामः, धर्ममार्गं च अनुवर्तिष्यामः।”
लावण्यबती दास के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। लावण्यबती दास के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।