सदस्यसम्भाषणम्:शिवम कुमार दुबे
विषयः योज्यताम्शिक्षा काचित् सोद्देश्यात्मिका प्रक्रिया, अपि च शिक्षा ज्ञानस्य, कौशलस्य, मूल्यस्य च सम्यक् विकासप्रक्रिया। सा केवलं पाठानां स्मरणमेव न, अपि तु व्यक्तित्वनिर्माणस्य साधनम्।अतः स्पष्टतया उद्देश्यानां निर्धारणम् अनिवार्यम् । अस्याः प्रमुखं लक्ष्यम् अस्ति छात्राणां सर्वाङ्गीणविकासः । शिक्षणम् एव अस्याः साधनम् ।शिक्षणे अनेकाः क्रियाः सन्निविष्टाः भवन्ति । एतासां क्रियाणां क्रमबद्धं व्यवस्थीकरणम् अपेक्षितं भवति, यथा - विषयस्य पूर्वसिद्धता, विषयस्य प्रस्तुतीकरणम्, स्पष्टीकरणम्, प्रश्नकरणम्, अभिप्रेरणम्, ध्यानाकर्षणम्, मूल्याङ्कनम्, प्रतिपुष्टिः इत्यादयः । एताः क्रियाः परस्परं सम्बद्धाः सन्ति । 'शिक्षकच्छात्र-पाठ्यक्रम-विधयः' इत्येतेषां मध्ये बौद्धिकस्तरे व्यवहारे च परस्परम् अन्तः क्रिया एव शिक्षणस्य प्राणाः इति प्रसिद्धम् । शिक्षणे शिक्षकच्छात्राणां मध्ये प्रभावः परस्परं प्रभावः च उभयपक्षीयः ।वाचिकव्यवहारस्य प्रयोगः शिक्षणे अधिकतया भवति । अतः शिक्षणकार्ये दक्षतायाः कौशलस्य च सम्पादनार्थं शिक्षकाणां छात्राणां च भाषायाम् अधिकारः सर्वाधिकः अपेक्षितः ।शिक्षणस्य गुणात्मकसंवर्धनदृष्ट्या तर्कयुक्तानां विचाराणां, तथ्यानां, युक्तीनां, विधीनां पद्धतीनां च गुणात्मकता अनिवार्या ।एवमेव छात्राणां वैयक्तिकभेदाः अपि अवगन्तव्याः । शिक्षा जीवनस्य दीपः इव।यथा दीपः अन्धकारं नाशयति, तथा शिक्षा अविद्यां दूरं कृत्वा मानवजीवनं प्रकाशमयं करोति।
शिवम कुमार दुबे के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। शिवम कुमार दुबे के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।