सदस्यसम्भाषणम्:सुजाता महारणा
विषयः योज्यताम्भाषाशिक्षणम्
चिन्तनार्थम्........
भाषायाः ज्ञानाय व्याकरणस्तरे भाषिकतत्त्वानां ज्ञानम् आवश्यकम् वा ?
किमर्थम् ?
कक्ष्यासु शिक्षकच्छात्राणां मध्ये परस्परं ये संवादाः भवन्ति, ते पाठ्यपुस्तके लिखित-संवादान् सजीवान् कुर्वन्ति । छात्राः लिखित-मौखिक-संवादानां मध्ये सहसम्बन्धं संस्थापयन्तः आन्तरिक भाषिक-क्षमतानां बाह्य-यथार्थेन संयोजने समर्थाः भवन्ति । एतेन छात्रेषु क्रमेण भाषाकौशलानां विकासः अपि सञ्जायते । एतानि भाषाकौशलानि -सामाजिक-राजनैतिक-धार्मिक पारिवारिक-प्रशासनिक-शैक्षिकादिषु विविधेषु विषयेषु भाषायाः उच्चारण-वर्ण-शब्द-पद-वाक्य-अर्थस्तरेषु प्रयोगस्य सामर्थ्यं जनयन्ति । इदं स्पष्टमेव यत् विचाराणाम् आदानं प्रदानं च भाषायाः प्रकार्येषु एव अन्तर्भवतः परम् इदं भाषायाः सम्पूर्ण स्वरूपं न इति । एवमेव भाषाशिक्षणम् इत्यनेन व्याकरणशिक्षणम् एव इति केचन चिन्तयन्ति । परं ध्यातव्यं यत् व्याकरणं तु प्रमुखतया भाषिकतत्त्वानि बोधयति परं भाषाशिक्षणस्य सम्बन्धः भाषिकक्षमतायाः भाषिककौशलानां व्यक्तित्वस्य च सर्वाङ्गीणविकासेन सह अस्ति। अतः भाषायाः शिक्षणे व्याकरणस्य भाषिकतत्त्वैः सह समाजभाषिकी, मनोभाषिकी, भाषिक-कौशलानि, भाषायाः विभिन्नानि प्रकार्याणि भाषायाः प्रयोगपरक-तथ्यानि च अन्तर्भवन्ति ।
भाषा-अर्जन-प्रक्रिया
भाषायाः अर्जनप्रक्रियायां पारिवारिकस्य सामाजिकस्य च परिवेशस्य महत्त्वपूर्णा भूमिका भवति ।
मातापित्रोः शैक्षिक-व्यावसायिक-सामाजिक-आर्थिक-सांस्कृतिकस्तराः परोक्षेण बालानां भाषायाः अर्जनं प्रभावयन्ति ।
भाषायाः अर्जने बालानां प्रतिभायाः किञ्चित् विशिष्टं स्थानं मन्यते ।
भाषायाः अर्जनस्य एषा प्रक्रिया आजीवनं प्रचलति ।
मातृभाषायाः प्रयोगः इव अन्यभाषायाः ग्रहणे अपि अर्जनम् अधिकं प्रभावं जनयति ।
भाषायाः अर्जन-प्रक्रियायां भाषायाः श्रवणकौशलस्य भाषणकौशलस्य च प्राधान्यं भवति ।
भाषायाः अर्जनं भाषाशिक्षणस्य व्यावहारिकपक्षः मन्यते ।
भाषायाः अधिगमन-प्रक्रिया
भाषायाः अर्जनस्य अपेक्षया भाषायाः अधिगमनं काचित् औपचारिक-प्रक्रिया अस्ति।
भाषा-अधिगमन-प्रक्रिया सोद्देश्या प्रयोजनयुक्ता च भवति ।
भाषायाः अधिगमनाय मातृभाषायाः अर्जनात्मकं ज्ञानम् अपेक्षितं भवति ।
सुजाता महारणा के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सुजाता महारणा के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।