सामग्री पर जाएँ

सदस्यसम्भाषणम्:सुमी सूत्रधर

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रसोद्भवः सारांशः – रसः कश्चन व्यापारः अस्ति यस्य सम्बन्धः भावेन सह अस्ति। भावः एव रसत्वं प्राप्नोति। सामान्यतया काव्यपठनेन, नाटकादिदर्शनेन एवं कथादि श्रवणेन मनसि यः आनन्दः जायते, प्रफुल्लितः भवति मनः स एव रसः उच्यते। शास्त्रकाराः अयं बहुविधरूपेण परिभाषितवन्तः। वस्तुतः रसेन सम्बन्धितसम्पूर्णतत्त्वस्य द्वो पक्षौ स्तः यथा – कृतिः पाठकश्च। एतत्विषयं रसदृष्ट्या भागत्रयेण विभज्यते – विभावः अनुभावः संचारिभावश्चेति। प्रत्युतः रसस्योद्भवः एतैः साधनैः भवतीति शास्त्रोक्तः। मूलशब्दाः – नाट्यशास्त्रम् , कृतिः, पाठकः, विभावः , अनुभावः, संचारिभावः, उत्पत्तिः च। अर्थः एवं परिभाषा:- रसस्य आद्यप्रतिष्ठाता भवति ‘भरतमुनिः’। प्रप्रथपमं भरतमुनिः एव स्वकीये “नाट्यशास्त्रम्” इति ग्रन्थे ‘रसस्वरूपम्’ प्रतिपादितवान्। तेन मते रसः भवति – “न हि रसादृते कश्चिदर्थः प्रवर्तते” अर्थात् रसं विना कोऽपि अर्थः न प्रकाशते । आचार्येण भरतमुनिना नाट्यशास्त्रस्य षष्ठाऽध्याये ‘रससूत्रम्’ व्याख्याति- “विभावानुभावव्यभिचारिभावसंयोगाद्रसनिष्पत्तिः” अर्थात् तेन मते पाठकस्य मनः कृत्यां कल्पितः भूत्वा विभाव-अनुभाव-व्यभिचारिभावानां सम्पर्के आगत्य में भावमाह्लादयति तदेव रससंज्ञा उच्यते। आचार्याभिनवगुप्तः वदति – “सर्वथा रसात्मकः वीतविघ्नः प्रतीतीग्राह्यो भावः एव रसः” । आचार्य विश्वनाथ एन रसः परिभाष्यते – सत्वोद्रेकादखण्डस्वप्रकाशानंदचिन्मयः वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वाद सहोदरः। लोकोत्तरचमत्कार प्राणः कैश्चित्यमातृभिः । स्वाकाखदभिन्नत्वेनाध्यमास्वाद्यते रसः ।। अर्थात् विश्वनाथानुसारं लोके रसादिन् उद्बोधयति विभावः एवं विभावः द्वौ प्रकारौ भवतः – आलम्बनम् उद्दीपनञ्च। रसस्य प्राप्तिः वेदेऽपि मिलति अर्थात् तैतरीयोपनिषदि उच्यते – “रसो वै सः”।  भरतमुनिः रसोत्पत्तिसन्दर्भे ४९ भावानां वर्णना अकरोत् यत्र ८ स्थायिभावाः(रति-हास-शोक-क्रोध-उत्साह-भय-जुगुप्सा-विस्मयाः), ८ सात्विकभावाः(स्तम्भ-स्वेद-रोमाञ्च-स्वरभंग-वेपथु-वैवर्ण्य-अश्रु-प्रलयाः), ३३ व्यभिचारिभावाः च।  भरतमुनिना प्रोक्तस्य रससूत्रस्य प्रधानत्वेन चतस्रः व्याख्याकाराः सन्ति। रसविषयकाः चत्वारः सिद्धान्ताः प्रमुखाः भवन्ति,एतान् मिलितरूपेण ‘रससम्प्रदायः’ इति कथ्यते। ये भवन्ति यथा- १. उत्पत्तिवादः – ‘उत्पत्तिवादः’ इति सिद्धान्तस्य प्रवर्तकः भवति भट्टलोल्लटः। भट्टलोल्लटस्य उत्पत्तिवादः मीमांशादर्शनाधारितः अस्ति। तेन मते विभावानुभावव्यभिचारिभावैः सह स्थायीभावस्य कार्य-कारणः सम्बन्धः वर्तते। एवंप्रकारेण विभावादिकारणात् स्थायिभावस्य जागृतिः एवं रसस्योत्पत्तिः अस्ति। अस्य मते निष्पत्तिः इति शब्दस्यार्थः ‘उत्पत्तिः’ अस्ति । संयोगस्यार्थः ‘परिपुष्टः’। व्यभिचारिभावः एवं रसः द्वयोर्मध्ये “पोष्य-पोषक” सम्बन्धः वर्तते। २. अनुमितिवादः – ‘अनुमितिवादः’ इति सिद्धान्यस्य प्रतिष्ठाता नैयाकिकः शंकुकः। नैयायिकः शंकुकः रसानुभूतिम् अनुमानों कथयति। अर्थात् अयं वादः न्यायदर्शनाधारितः। सः संयोगस्यार्थः ‘अनुमानः’ इति स्वीकरोति तथा निष्पत्तेः अर्थः ‘अनुमितिः’ इति। यस्य मते विभावानुभावव्यभिचारिभावेन संयोगेन रसस्य अनुमितिः भवति। उदाहरणत्वेन वदति – “चित्रतुरगन्यायः” । ३. भुक्तिवादः – ‘भुक्तिवादः’ इति सिद्धान्तस्य अधिष्ठाता आचार्यः भट्टनायकः। अयं सिद्धान्तः सांख्यदर्शनाधारिताऽस्ति। तेन मते रसः न उत्पद्यते न अनुमीयते, अपि तु अभिव्यज्यते। सः वदति विभावादिनां भोगात् रसस्य भुक्तिः भवति। एवंप्रकारेण निष्पत्तिः भुक्त्यर्थे स्वीकृतः। अस्य नाम भट्टनायकः ‘साधारणीकरणम्’ अददात्। ४. अभिव्यक्तिवादः – “अभिव्यक्तिवादः” इति वादस्य निर्माता आचार्यः अभिनवगुप्तः। अभिनवगुप्तः रससूत्रस्य सर्वश्रेष्ठव्याख्याकारः अस्ति । तेन मते विभावानुभावसंचारिभावाः व्यञ्जनाव्यापारः अस्ति। अत्र संयोगस्यार्थः व्यञ्जनाव्यापारः अस्ति। निष्पत्तेः अर्थः अभिव्यक्तिः भवति। भरतेन प्रदत्तरससूत्रस्यार्थः भवति – विभानानुभावव्यभिचारिभावस्य व्यञ्जनाद्वारा रसस्य अभिव्यक्तिः भवति। अस्य व्याख्यायाः आधारः ‘अलंकारशास्त्रम्’ अस्ति।

सुमी सूत्रधर के साथ चर्चा शुरू करें

चर्चा शुरू करें