सामग्री पर जाएँ

सदस्यसम्भाषणम्:117.247.142.37

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्रह्मचर्याश्रमः


     भारतीयसंस्कृतौ आश्रमव्यवस्थायाः महत्वपूर्णस्थानमस्ति । मानवकल्याणार्थं जीवन विकासार्थञ्च	भारतीयप्राचीनमहर्षिभिराश्रमव्यवस्थाःविहिताः।मानवजीवनं शतवार्षिक-मिति पुरा लोकधारणा आसीत्। आश्रमा चतुर्विधः। यथा-

"ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा। एते गृहस्थ प्रभवाश्चत्वारः पृथगाश्रमाः।। " तदनुसारेण ब्रह्मचर्य -गृहस्थ-वानप्रस्थ-सऩ्यासाश्च इमे चत्वारः आश्रमाः । जीवनयापनस्येषा आदर्शव्यवस्था चतुर्भिः कर्मभिश्च व्यवस्थितास्ति - तानि यथा- 1.ब्रह्मचर्याश्रमः - अध्ययनात्मकः । 2.वानप्रस्थाश्रमः - तपस्यात्मकः। 3.गृहस्थाश्रमः - सर्जनात्मकः। 4.सन्यासाश्रमः - योगात्मकः। एतेषु ब्रह्मचर्याश्रमः प्रधानः आलोच्यविषयः अस्ति। 1. ब्रह्मचर्याश्रमः - प्रथमाश्रमः ब्रह्मचर्य्याभिधः । अयमेव जीवनस्य मूलाधारत्वेन तिष्ठति । ब्रह्मचर्याश्रमस्य नियमाः - उपनयनान्तरं विद्यार्थी गुरोरादेशानुसारेण ब्रह्मचर्य्यं पालयन् गुर्रोनिकटे अध्ययनञ्च करोति। ब्रह्मचारी गुरुकुले स्थित्वा स्वस्य इन्द्रियान् संयम्य दास इव सर्वदा गुरोः हितमाचरेत् । सः सायं प्रातः गुरु - अग्नि - अर्क - सुरोत्तमानामुपासनां कुर्यात् । सर्वदा मौनं भूत्वा एकाग्रेण उभयकाले गायत्रीमन्त्रं जपन् गुरोः समीपे वसन् च्छन्दसां पाठं कुर्यात् । पाठस्य आरम्भे शेषे च गुरोः चरणौ शिरसा नमेत् । शास्रानुसारेण सः सर्वदा मेखला- मृग-चर्म-वस्त्र-जटा-दण्ड-कमण्डलु-यज्ञोपवितान् च धारयेत् तथा हस्ते कुशं धारणं कुर्यात् । सः सायं प्रातः भैक्ष्यं गुरवे निवेदयेत् । गुरोराज्ञानुसारेण भक्षणं कुर्यात् । यदि गुरुणा आज्ञा न दियते तर्हि उपवसेत् । गुरुस्त्रीभिर्युवतिभिः च आलापं न कुर्यात् । केशप्रसाधनोन्मर्दस्नपनाभ्यञ्नादिकं त न कारयेत् । अस्मिन् विषये उक्तम् यथा - "नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ।।" (श्री .भा.पु- 7.12.9) अर्थात् प्रमदा अग्नि समा , पुमान् च घृतकुम्भसमः । अतः उभौ एकस्थाने न वसेत् । स्वस्य कन्यया सह पिता अपि न तिष्ठेत् । एवं प्रकारेण गुरुकुले वसन् द्विजाः स्वस्य शक्तिआवश्यकतानुसारेण वेदपाठं , वेदाङ्गादीनां उपनिषदाम् अध्ययनं कृत्वा ज्ञानं लभेयुः। सामर्थ्यानुसारेण गुरुदक्षिणां दत्वा गुरोः आज्ञया गृहस्थाश्रमे प्रविशेत् अथवा आजीवनं ब्रह्मचर्याश्रमे तिष्ठेत् ।

Welcome to this talk page

Start a discussion

एतत् सम्भाषणपृष्ठम् अनामकसदस्येभ्यः अस्ति । एतत् तेभ्यः अनामकसदस्येभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति । तेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन सदस्याः स्वस्य अन्तर्जालसंविदम् अन्यान् सदस्यान् कथयन्ति । यद्यपि अनामकसदस्यः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् create an account एतत् log in वा कृत्वा भविष्यस्य अनामकसदस्यानां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:117.247.142.37&oldid=431736" इत्यस्माद् प्रतिप्राप्तम्