सदस्यसम्भाषणम्:2010368kolahalan
विषयः योज्यताम्
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि
|
रामस्य अयनं (चरितं) रामायणम् । रामायणमादिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चिदितिहासग्रन्थो भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियश्च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः(निषादः)आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥
रामायणमादिकाव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम ‘वाल्मीकिः’ इति काचित् कथा श्रूयते। तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति। तदा शोकाकुलः सः – ‘मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः’ इति व्याघ्रं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति। सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु। महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते।
अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि·पू·पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति। रामायणे २४००० श्लोकाः सन्ति। रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते। पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना। रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता ज्ञाता भवति। वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन। संस्कृतसाहित्यनिर्माणे वाल्मिकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः।हिन्दीसाहित्ये महाकविना तुलसीदासेन रामचरितमानसस्य रचनापि इदमेव ग्रन्थरत्नमाधारीकृत्य कृता । केनचिद् रूपेण स्वीकृता । हिन्दीसाहित्ये महाकविना तुलसीदासेन रामचरितमानसस्य रचनापि इदमेव ग्रन्थरत्नमाधारीकृत्य कृता । इत्थं चेदं साहित्यिकदृष्ट्याऽतीव महत्त्वपूर्ण महाकाव्यं वर्तते । । । सांस्कृतिकदृष्ट्या सामाजिकदृष्ट्या वा दर्शनेन इदं मानवमात्रस्य महत्त्वपूर्ण नैतिकाचार-शस्त्रमपि वर्तते । एतस्य सर्वा अपि शिक्षाः नैतिक्यो व्यावहारिक्यश्च मन्ति । एतस्मिन् लेखकेन दशरथ-सीताराम-भरत-लक्ष्मण प्रभृतीनामनेकेषां पात्राणामुदाहरणानि ददता मानवजीवनस्य अनेकाः समस्याः समाहिताः । एतस्मिन् लेखकेन समाहितानां जीवनसमस्या समाधानानि सवण्यपि तथाविधानि सौष्ठवपूर्णानि वर्तन्ते यै मनवः स्वीय जीवनमादर्श कतु शक्नोति । । अन्ते च ऐतिहासिकदष्ट्याऽपि इदं महाकाव्यमत्यन्तं महत्वपूर्ण वर्तते । यदि कश्चित् प्राचीनभारतीयसंस्कृते: आधुनिक भारतीय-संस्कृतेश्च तुलनात्मकमध्ययनं कर्तमीहते तदेदं महाकाव्यं तदर्थ मत्यन्त मुपादेयं वर्तते यतोऽस्मिन्नेव ग्रन्थे प्राचीनभारतीयसंस्कृतेः समुचित च चित्रमुपलभ्यते ।इत्थं चेदं साहित्यिकदृष्ट्याऽतीव महत्त्वपूर्ण महाकाव्यं वर्तते। महषिवाल्मीकिना विरचितं रामायणं भारतस्य अतीव महत्त्वपूर्णो ग्रन्थः। रामायणम् आदिकाव्यं वाल्मीकिश्च आदिकविः कथ्यते। अत्र दशरथात्मजस्य रामस्य कथा वणता। रामोऽत्र मर्यादापुरुषोत्तमरूपेण चित्रितः। रामः सर्वगुणसम्पन्नः सर्वप्रियश्च आसीत् । तेन पृथिव्यामधर्मनाशो विहितः, धर्मश्च रक्षितः । दुष्टस्य सर्वदा नाशो भवति, सत्यं च जयति इति रामायणस्य सन्देशः । रामायणे वयमतीव मनोहरं काव्यं लभामहे । अत्र वन-नदी-पर्वत-सूर्योदय-चन्द्रोदय-षड़तु-समुद्रादीनां सुन्दरं प्राकृतिक वर्णनं दृश्यते । सीतासौन्दर्यवर्णनं, तारासौन्दर्यवर्णनं, रामगुणसंकीर्तनं च चित्तावर्जकम् अस्ति । वाल्मीकिना अयोध्याकिष्किन्धालङ्कादिनगराणां सजीव चित्रम् उपस्थापितम् । विविधात युद्धवर्णनानि वाल्मीके: वर्णनकौशलं प्रदर्शयन्ति। रामायणे सर्वेषां वीरादिरसानां सञ्चारः अनुभूयते । उदाहरणार्थ पम्पासरसः शोभावर्णनं दृश्यताम्- (रामः) प्रहृष्टनानाशकुनां पादपैरुशोभिताम् । पुष्पिनोपवनोपेतां सालचम्पकशोभिताम् ॥ षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् । स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंयुताम् (पम्पां ददर्श) । एतदेव कारणं यत् सर्वस्मिन् जगति रामायणस्य भूयान् प्रचारः। भारतस्य सर्वासु भाषासु रामायणस्य अनुवादाः रूपान्तराणि चोपलभ्यन्ते । रामायणमुपजीव्यकाव्यमस्ति, अस्याधारेण कविभिः अनेकानि काव्यानि नाटकानि च विरचितानि । इण्डोनेशिया-कम्बुज-थाइलैण्डादिदेशानां भाषासु रामायणस्य रूपान्तराणि कृतानि । तत्र मन्दिराणां भित्तिषु रामकथादृश्यानि अङ्कितानि, साम्प्रतमपि च काले काले तत्र रामायणनाट्य प्रदर्श्यते । रामायणं पठित्वा जनस्य तृप्तिर्न भवति । पुनः पुनरपि रामायणस्य पाठे जनो नवं रसं प्राप्नोति । रामायणस्य अध्ययनेन वयं जानीमो यत् शोकविह्वलः कारुण्यमग्नः एव कविरुत्कृष्टं काव्यं रचयति, यथा व्याधेन कृतं क्रौञ्चवधं दृष्ट्वा वाल्मीके: मुखात् सहसैव इदं काव्यं जातम्- मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। अतएव वाल्मीकिः कथयति-शोकः श्लोकत्वमागतः इति । रामायणस्य सार्वभौम सार्वकालिकं च महत्त्वं वीक्ष्यैवोच्यते– यावत् स्थास्यन्ति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।
Start a discussion with 2010368kolahalan
Talk pages are where people discuss how to make content on विकिपीडिया the best that it can be. Start a new discussion to connect and collaborate with 2010368kolahalan. What you say here will be public for others to see.