सदस्यसम्भाषणम्:2030279aditikhandelwal
विषयः योज्यताम्केदारनाथः (Kedarnath ):
केदारनाथ-ज्योतिर्लिङ्गं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । एतदेकं प्राचीनं शिवक्षेत्रम् । हिमालये केदारनाथः यत्र अस्ति तं भागं "रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः "सुमेरुपर्वतः” "पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम "पञ्चपर्वतः” इति । गन्धमादनः रुद्रहिमालयस्य कश्चन भागः । नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मध्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकिलोमीटरमिेते दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनाथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० किलोमीटरमिेते दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति ।
2030279aditikhandelwal के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। 2030279aditikhandelwal के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।