सामग्री पर जाएँ

सदस्यसम्भाषणम्:2030995sahithiallu/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

'रत्नमाला व्याकरणम्' एकं पर्यालोचनम्'

प्रबन्धेऽस्मिन् प्रथमतः विष्णोरूपासनाया: कारणं फल सविस्तरं दर्शितमस्ति माला व्याकरणे आष्ट प्रकरणानि सन्ति। सूत्र संख्या द्विसहस्राधिक आष्टशतपरिमित द्विरंशांति इति संज्ञा प्रकरणमारभ्य कृत् प्रकरणपर्यन्तं प्रणालीबद्धभावेन लिखितमस्ति व्याकरणमिदम् व्याकरणस्य उद्देश्य अध्ययनोपयोगिता सूत्राणां कारिका समन्विता विस्तृत उदाहरणञ्च रत्नमालाव्याकरणे वर्णितमस्ति । विष्टियात् उदाहरणमत्र सन्निविष्टं भवति। विशिष्ट सूत्राणां उल्लेखोऽत्रास्ति। पञ्चविधनिरुक्तस्य विवरण ग्रन्थकारेण सोदाहरणं वर्ण्यते तथा "अपि" उपसर्गस्य पञ्च विपर्ययाच अत्र आलोचिताः वर्तन्ते। तेषां उदाहरणच विस्तृततया दीयते प्रस्तूयमानेऽस्मिन् प्रबन्धे रखमालाव्याकरणस्य पाणिन्यादिव्याकरण अयान संस्कृतशिक्षाप्रसक्तानां छात्राणां कृते महौषधम् इति प्रतिपाद्यते। अस्य व्याकरणस्योपयोग दर्शवितुमत्र प्रयत्नः क्रियते सुख-साध्यत्वेऽपि अत्र कठिन शब्दप्रयोगोऽपि स्थाने स्थाने कृतो वाति तदपि दर्शयितुं यत्रः क्रियते इति I

संस्कृत पत्रिकासु "सम्भाषण-सन्देश" मासिक पत्रिका समालोचनात्मकम् अध्ययनम्

समाजस्य मार्गदर्शका: विद्वान्सः भवन्ति विदुषां विचारा आधुनिकसमाजे पुस्तकेषु संकलिता भवन्ति। किन्तु तानू पठितुं जनाः उत्साहिता न भवन्ति। अतःपूर्वक शोधमेव विद्वान् समाजे प्रेषयितुम् एकं साधनं पत्रिका तन्त्र पुस्तकाकार पत्रमिव पत्रालयद्वारा जनद्वारा वा निर्दिष्टांके गृहं गृच्छति अत: पत्रम् अथवा पत्रिका प्रतिकृया अपि यः पत्रका मन्तितसुकृत संस्कृतवार्थ एका बहुत "सम्भाषण-सन्देश" नामका मासिककृतकप्रदेशे) प्रकाशित भवति। अस्या उद्देश्य संस्कृतस्याभकाम्वप्रकार प्रकाशनीयमित्येव प्रतीयते। अस्यां सरलेन शुद्धेन संस्कृतेन कथा धारावाहिनी, बालकमा हास्यकणिक संस्कृतम कविता लेख इत्यादिविषयाः निरन्तरूपेण प्रकाशिताः भवन्ति।

नाट्यरसविवेचने रसवसुमूर्त्तिकारस्य पाण्डित्यप्रगल्भः

महागुरोः प्रो. चन्द्रमौतिद्विवेदिमहाशयस्य यशः रसरश्मिभूता इयं कृतिः संस्कृत-जगति तनोति । सम्प्रति ते काशीहिन्दूविश्वविद्यालयस्य संस्कृतविद्याधर्मविज्ञानसंकायस्य शिखरभूतसाहित्यविभागे विभागाध्यक्षरूपे कार्यरताः सन्ति। रसवसुमूर्तिग्रन्थस्य नाट्यरसविवेचनप्रकरणे प्रायः इतः पूर्व या खलु समस्या पाठकानां वा सहृदयानां हृदि उत्पन्ना आसीत् तां सर्वा समाधातुं तथा च परिवर्तनशीलप्रवाहेऽस्मिन् संसारे यत्किञ्चिदत्र ग्रन्थे उपस्थापितं तत्तु न प्राचीनविलक्षणं किन्तु प्राचीनगहरान्तः निपातास्फुटितार्थाधुनिक समीक्षकाणां बुद्धानवभासितमिवावश्यं प्रतिभाति । यथा- नाट्यरसः इत्यत्र विग्रहः नाट्यस्य रसः वा नाट्याद्रस: ? कि रसः सर्वेषां नाट्यार्थानां प्रवर्तकः उताहो सर्वोऽपि नाट्यार्थो रसानां प्रवर्तकः ? रससूत्रे विभाव: रामादि अथवा रामादेरनुकतनिटः ? विभावः कारणं वा लिङ्गम् ? कस्य कारणं स्थायिनो वा रसस्य ? उभयोर्वा ? लिङ्गत्वे सति कस्य लिङ्गम ? लिङ्गत्वेऽपि सत्यतया वाऽसत्यतया लिङ्गस्यासत्यत्वे कथं लिङ्गिनो रत्यादेः सत्यतः सुखात्मकत्वम् ? विभावस्य काव्यानुसन्धानं वा नेति? अनुकारः विभावे घटते वा न ? अनुकारोऽपि वेषस्य वा वस्तुवृत्तस्य ? रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति ? रसः प्रमेयः अप्रमेयः वा ? तथा च भावादिविषयेऽपि समेषामाचार्याणां मतानि निर्मथ्य किमपि प्रस्तुतं तत्तु नवीनमिवि भाति । एतत् सर्वमङ्गीकृत्य यथाकालं मया विवेचितम I

वर्त्तमानसमये संस्कृतमाध्यमेन संस्कृताध्यापनस्य औचित्यम्

प्रस्तुतशोधपत्रे वर्त्तमानकालिकसन्दर्भे संस्कृतभाषायाः भाषात्वसंरक्षणाय गुणवत्तासंरक्षणाय च संस्कृतभाषायाः साहित्यादिविषयाणां संस्कृतमाध्यमेन अध्यायपनस्य औचित्यं विचारयितुं प्रयासं विधास्यते । सम्प्रति भारतवर्षे प्रायः विद्यालयमहाविद्यालय विश्वविद्यालयेषु संस्कृताध्यापनं संस्कृतमाध्यमेन नैव क्रियते तत्र सामान्यतः अनुवादविधिना मूलतत्त्वस्य अर्थः क्रियते पुनश्च आंग्ल-हिन्दीप्रभृतिक्षेत्रीयभाषा द्वारा व्याख्यादिकं सम्पाद्यते। अस्य विधेः परिणामः अयं वर्तते यत् यदा कस्यापि मूलांशस्य व्याख्या संस्कृतेन करणीया भवति तदा छात्रः स्वमातामहीं स्मरति तथा च शिक्षकोऽपि येनकेन प्रकारेण शिरसि अंगुल्या स्वबुद्धिं प्रेरयन् स्मारयन् च कामपि कार्यसाधिकां व्याख्यां लेखपति मम समीपे एतादृशानि बहूनि साक्ष्याणि सन्ति यैः संस्कृतस्य भाषात्वं प्रदूषितं भवति। एतत्पृष्ठभूमी अनेकानि कारणानि सन्ति । किन्तु मम विचारे संस्कृतमाध्यमेन संस्कृताध्यापनस्य अभावे एवंविधं तथ्यं समागच्छति। अतः विस्तृत शोधपत्रे एतत्सम्बद्धविविधपक्षान् समीक्ष्य संस्कृतमाध्यमेन संस्कृताध्यापनस्य औचित्य प्रतिपादयितुं यथातथ्यं प्रयत्नाः करिष्यन्ते। इतिशम् ॥

श्रीहर्षप्रभावितः कविसम्राट् उपेन्द्रभञ्जः

पुण्यभूमौ भारतवर्षे ये केचन कविपण्डिताः स्वजनुषा संस्कृतसाहित्यभाण्डागारस्य श्रीसमृद्धि साधितवन्तः तेषु महान् प्रतिभावान् महाकविः श्रीहर्षः विद्वन्मूर्द्धन्यश्चेत्यभिनन्द्यते। अयं महाकविः संस्कृतभाषा शास्त्रस्य महान् साधकः इति प्रतीयते संपूर्णेऽपि नैषधीयचरिते तदीयं वैदुष्यं सुव्यक्तम् । महाभारतस्य कथामाश्रित्य रचितेऽस्मिन् महाकाव्ये नलदमयन्त्याः पूतं चरित्रं वर्णितमस्ति श्रीहर्षस्य एवंभूतकाव्यकौशलेन भारतीयाः कवयोऽपि प्रभाविताः सन्ति। संस्कृते नलोपख्यानमवलम्ब्य वामनभट्टबाणस्य नलाभ्युदयम्, केरलकवेः वासुदेवस्य नलोदयम् त्रिविक्रमभट्टस्य नलचम्मूः, कृष्णानन्दस्य सहह्मानन्दादोनि प्रधानकाव्यानि सन्ति। एवं च गुजुराटी मराठी-हिन्दी-ओडिआसाहित्येषु नलदमयन्तीकथा कविभिः वर्णिता। ओडिआभाषायां नैषधीयचरितस्य पद्यानुवादोऽपि दृश्यते। किन्तु श्रीहर्षपरिवर्तिनः ओडिआकवयः नैषधीयचरितद्वारा बहुधा प्रभाविता: दृश्यन्ते। तेषु कविसम्राट् उपेन्द्रभञ्जः अन्यतमः । भारतीयसाहित्येऽयमेक एव सुप्रसिद्धः कविः यः कविसम्राट् इति विरुदमवाप प्रसिद्धरामतारकमन्त्रेण सिद्धि प्राप्य उत्कलभाषया विपुलं साहित्य च विरव्य रीतियुगप्रवर्त्तकरूपेण सहृदयसमाजे प्रख्यातोऽस्ति। उत्कलराज्ये घुमुसरराजवंशे कविवरोऽयं जन्मग्रहणमकरोत् । अस्य पितामहः धनञ्जयभञ्जः संस्कृतसाहित्यकलाप्रियः विद्वदभिमानी राजा कविश्वासोत् । उपेन्द्रभञ्जस्य पिता नीलकण्ठोऽपि कविरिति ज्ञायते। अतः बाल्यकालत एवं उपेन्द्रभञ्जस्य कविप्रतिभा परामुत्कर्षतां प्राप। एतस्य बहुविधासु रचनासु लावण्यवतीति महाकाव्यं नैषधीयचरितस्य वर्णनाकौशलेन प्रभावितं प्रतिभाति उपेन्द्रभञः तदीयकाव्यकदम्बे नैषधीयचरितमादर्शरूपेणाङ्गीकरोतीति स्पष्टं वर्णयति कोटी ब्रह्माण्डसुन्दरीकाव्ये ।

सदस्यः:2030995sahithiallu/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें

चर्चा शुरू करें