सदस्यसम्भाषणम्:2040581 sahana
विषयः योज्यताम्परेषामपि रक्ष जीवितम्
'सिंहासनद्वात्रिंशिका' नामककथासङ्ग्रहे द्वात्रिंशत् कथा: सन्ति । अस्य ग्रन्थस्य कर्ता वररुचिर्नामा कश्चित् कविरिति श्रूयते । ‘परेषामपि रक्ष जीवितम्' इति शिरोनामाङ्किते अस्मिन् पाठ्यभागे विक्रमादित्यस्य परदुःखस्पन्दनगुणः हृदयङ्गमरीत्या निरूपितो वर्तते एषा कथा 'परोपकाराय शरीरलाभः' इति नीतिं बोधयति । "कस्यापि जन्तोः हिंसा न कार्या" इति सन्देशः अत्र सुस्पष्टः वर्तते ।
अथ भोजे समाचङ्क्रम्यमाणे सिंहासने पुत्थलिका अन्या कथयति भो राजन् ! श्रूयताम् । विक्रमे राज्यं शासति भूमण्डले, पिशुनः तस्करः पापकर्मनिरतश्च नासीत् । अन्यच्च यस्य राज्ञः सदा राज्यमारचिन्ता बलवद्वैरिविजयचिन्ता च अस्ति स रात्रौ निद्रामपि नाधिगच्छति। उक्तश्च 'चिन्तातुराणां न सुखं न निद्रा' इति ।
अयं विक्रमादित्यो राजा तथाविधो न भवति । सर्वान् अर्थिभूभुजः स्वपादपद्माश्रितान् विधाय आज्ञाप्रदानेन राज्यं करोति
एकदा स राज्यमारं मन्त्रिषु निधाय स्वयं योगिवेषेण देशान्तरं निर्गतः । यत्रात्मनश्चित्तस्य सुखं भवति तत्र कतिचिद्दिनानि तिष्ठति, यत्राश्चर्यं पश्यति तत्रापि कालं नयति । एवं पर्यटन् एकस्मिन् दिवसे यावत् सः महारण्यमध्यं प्राविशत्, तावत् सूर्योऽस्तंगतः । अतः राजा वृक्षमूलमेकमाश्रित्य रात्रौ स्थितः । तस्य वृक्षस्योपरि वृद्धः चिरञ्जीवीनामा कश्चित् पक्षिराज आसीत् । तस्य पुत्राः पौत्राश्व देशान्तरं गत्वा, स्वोदरं पूरयित्वा, सायंकाले प्रत्येकम् एकैकं फलमादाय वृद्धाय तस्मै चिरञ्जीविने प्रतिदिनं प्रयच्छन्ति स्म ।
ततो रात्रौ चिरञ्जीवी सुखेनोपविष्टः तान् पक्षिणः अपृच्छत् । राजाऽपि वृक्षमूले स्थितस्तद्वचः शृणोति । ‘भोः पुत्राः ! युष्माभिर्नानादेशान् पर्यटद्भिः किं विचित्रं दृष्टम् ?' तत्र एकेन पक्षिणा भणितम्-‘मया किमप्याश्चर्यं न दृष्टम्, परमद्य मम चेतसि महद्दुःखं भवति' । चिरञ्जीविनोक्तम्-‘तत् कथय किं निमित्तं दुःखस्य ?' तेनोक्तम्- 'केवलं कथनेन किं भवति?' वृद्धेनोक्तम्-‘भोःपुत्र! यो दुःखी सः सुहृदि दुःखं निवेद्य सुखी भवति' इति ।
तस्य वाक्यं श्रुत्वा स दुःखकारणं कथयति- "भोः तात ! श्रूयताम् अस्ति उत्तरदेशे शैवलघोषो नाम पर्वतः । तत्पर्वतसमीपे पलाशनगरमस्ति । तस्मिन्, पर्वते स्थितः कश्चित् राक्षसः प्रतिदिनं नगरमागत्य सम्मुखायान्तं यं कञ्चनमानुषं, स्त्रियं, बालकादिकं वा पर्वते नीत्वा भक्षयति। एकदा स नगरवासिभिः जनैः उक्तः - 'भो बकासुर ! त्वं यथेच्छं सम्मुखपतितं यं कमेवं मा भक्षय, वयं तुभ्यं प्रतिदिनमाहरार्थमेकं मानवं दास्यामः' इति । तद्वचः तेनाङ्गीकृतम्।
तदनन्तरं तत्रत्याः जनाः प्रतिदिनम् अनुक्रमं गृहक्रमेण एकैकं मानवं तस्मै प्रयच्छन्ति । एवं महान् कालो गतः । अद्य पूर्वजन्मनि सञ्जातसौहार्दस्य मम मित्रस्य कस्यचित् ब्राह्मणस्य पर्याय: समायातः । तस्य एक एव पुत्रः । पुत्रं ददाति चेत् सन्ततिच्छेदो भविष्यति, आत्मानं प्रयच्छति चेत् भार्या विधवा भविष्यति, वैधव्यं पुनर्महद्दुःखम् । पुत्रीं दास्यति चेत् आश्रमभ्रंशो भवति । तेषां परेषां दुःखेन अहं महद्दुःखी” इति ।
तस्य वचनं श्रुत्वा तत्रत्यैः पक्षिभिर्मणितम्-अहो अयमेव सुहृत् यः सुहृदो दुःखेन स्वयं दुःखी भवति । एतदेव मित्रत्वम् । उक्तञ्च - 'सुखिते सुखी सुहृदि, यः दुःखिनि दुःखी च स बन्धुर्भवति' इति पक्षिणो वचः श्रुत्वा, विहङ्गरवार्थविज्ञः राजा तत्र नगरे वध्यशिलासमीपं गतः । तत्र ब्राह्मणं निरीक्ष्य, अभयं दत्वा, स्वगृहं सम्प्रेष्य च तत्समीपस्थे सरोबरे स्नात्वा वध्यशिलायाम् उपाविशत् ।
तस्मिन् समये राक्षसः समागत्य प्रहसितबदनं पुरुषं दृष्ट्वा विस्मितः तं पृच्छति 'भो महासत्त्व ! अत्र शिलायां प्रतिदिनं यः उपविशति, स मदागमनात् पूर्वमेव म्रियते । त्वं पुनः महाधैर्यसम्पन्नः प्रहसितबदनो दृश्यले । यस्य मरणकालः समायातः, तस्येन्द्रियाणि ग्लानिं प्राप्नुवन्ति । त्वं पुनः अधिकां कान्तिं प्राप्य प्रहससि । तर्हि कथय को भवान् ?' इति ।
राजा मणति 'मया परार्थमेतत् शरीरं दीयते स्वेच्छया, अतो न मे कापि ग्लानिः । भवतु, किमनेन विचारेण तव ? त्वमात्मनः समीहितं कुरु' इति । तदा राक्षसः मनसा चिन्तयति 'अहो ! साधुरयं यः आत्मनः सुखभोगेच्छां विहाय परदुःखेन दुःखी भूत्वा अत्र एति ।
उक्तञ्च- त्यक्त्वात्मसुखदुःखेच्छां सर्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधबोऽत्यन्तदुःखिनः l
एवं विचार्य स राजानमब्रवीत् 'भो महापुरुष ! त्वं सर्वस्यार्तिहरो गुरुः, यतः त्वं विश्वस्य आर्ति परिहरसि । परार्थं शरीरं प्रयच्छतस्तवैव एतच्छरीरं श्लाज्यम् । कुतः पशवोऽपि हि जीवन्ति केवलं स्वोदरम्भराः । तस्यैव जीवितं श्लाघ्यं यः परार्थे हि जीवति ।
भवावृशां परोपकारिणामेतञ्चित्रं न भवति । भोः ! महासत्व ! अनेनैव परोपकारेण त्वं सर्वाः सम्पदः प्राप्नोषि । त्वयि अहं तुष्टोऽस्मि, वरं वृणीष्व' इति । राज्ञोक्तम्- 'भो राक्षस ! त्वं यदि मयि प्रसन्नोऽसि तर्हि अद्यप्रभृति मनुष्यमक्षणं परित्यज । अन्यमपि मया अभिधीयमानम् उपदेशं शृणु । यथा -
भवज्जीवितमात्मनः प्रियं तथा परेषामपि जीवितं प्रियम् ।
निरीक्ष्यते जीवितमात्मनो यथा तथा परेषामपि रक्ष जीवितम्' । इति । राज्ञा प्रबोधितः राक्षसः तदा प्रभृति जीवमारणं तत्याज । राजा च स्वनगरीं प्रत्यगात् । इमां कथां कथयित्वा पुत्थलिका भोजराजं प्रति अब्रवीत्- 'त्वयि एवं परोपकारदयादयः गुणाः विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश' इति । राजा मौनम् अबाप ।
Start a discussion with 2040581 sahana
Talk pages are where people discuss how to make content on विकिपीडिया the best that it can be. Start a new discussion to connect and collaborate with 2040581 sahana. What you say here will be public for others to see.