सामग्री पर जाएँ

सदस्यसम्भाषणम्:Amarjeet singh chandarvansi

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०७:०३, ९ जुलै २०२१ (UTC)उत्तर दें

संस्कृतशिक्षणविधय: ( पारम्परिकविधि: , भणडार्करविधि:, पाठ्यपुस्तकविधि:,प्रत्यक्षविधि: समाहारविधि: च )

[सम्पादयतु]

संस्कृतशिक्षणस्य विधयः ==

संस्कृतशिक्षणस्य विधयः प्राचीनकाले संस्कृतशिक्षा प्रकृतेः सुरम्यवातावरणे गुरुकुलेषु आश्रमेषु च दीयते स्म । अन्तेवासिनः गुरुगृहे निवासं कुर्वन्ति स्म । तत्र अन्तेवासीनां कृते केषाञ्चित् नियमानां पालनं करणीयमासीत् । विद्यार्थी स्वगुरोराज्ञायाः पालनं सर्वदा करोति स्म । सः गुरोः यत्किमपि सेवायामस्ति तद् विदधाति स्म । विद्यार्थिनः मनसा वाचा कर्मणा सदैव गुरोः हितचिन्तनं कुर्वन्ति स्म । ' तस्मिन् काले इन्द्र - वरुण - अग्नि - उषा - वायु - मेघादीनाम् उपासनायाः कृते वैदिकमन्त्राणां रचनाकृताऽऽसीत् । यज्ञानां महत्त्वमपि विशिष्टम् आसीत् । अध्ययनस्य मूलविषयः श्रुतेरभ्यास एवासीत् । श्रुतिः कथं संरक्षणीया ? प्रयासेऽस्मिन् आचार्यैः शिष्यैश्च मन्त्राणां शुद्धोच्चारणपूर्वकं कण्ठस्थीकरणं क्रियते स्म । श्रुतिपरम्परया एव वेदाः संरक्षिताः आसन् । तत्कालिकशिक्षायाः सम्पूर्णस्वरूपं सामाजिकचिन्तने आधारितम् आसीत् । अन्तेवासीनां कृते तादृशी शिक्षा दीयते स्म यादृशी शिक्षा समाजेन सम्बद्धा आसीत् । तस्मिन् समये कर्गदस्य मुद्रणस्य च आविष्काराभाववशात् कण्ठस्थीकरणे बलम् आसीत् शिक्षणं मौखिकविधिना प्रचलति स्म । भूर्जपत्रेषु ताम्रपत्रेषु च ग्रन्थानां लेखनस्य संग्रहात्परमपि मौखिकपद्धति प्रचलने आसीत् । अनेन सिद्धं भवति यत् कस्यापि विषयस्य शिक्षणपद्धत्यामुपरि भौगोलिक - प्राकृतिक - सामाजिक - वैज्ञानिक मनोवैज्ञानिकपरिस्थितिनाञ्च प्रभावो पतति । संस्कृतशिक्षणे विभिन्नविधानां शिक्षणं विविध - विधिभिः प्रविधिभिश्च क्रियते येषामुल्लेखं प्रतिविधया सम्बद्धपाठे पृथक् - पृथक् रूपेण प्रदत्तमस्ति । संस्कृतशिक्षणं केन केन विधिना प्राचीनकाले प्रदीयते स्म ? आधुनिककाले शिक्षणमिदं कथं प्रचलति ? कथं प्रचाल्येत , एतेषां प्रश्नानां समाधानाय संस्कृतशिक्षणस्य विधयः त्रिषु भागेषु विभकुं शक्यते संस्कृतशिक्षणस्य विधयः प्राचीनविधि : नवीनविधि : नवीनतमविधि : ( नवीनतमोपागमा :) 1. हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ - याज्ञवल्क्यस्मृतिः , आचाराध्यायः 27


पारम्परिकविधि: -

                           प्राचीनविधिः वैदिककाले वेदाभ्यासे वेदस्वीकरणं , विचारो , अभ्यासः , जपः शिष्येभ्यो वेदानां दानञ्चेत्यादीनां पञ्चक्रियाणां समावेशो भवति स्म । एवं प्रकारेण वेदाभ्यासेन एव तयुगीनस्य शिक्षणविधे : बोधो भवति । वेदाभ्यासो न केवलं वेदानां विविधैः पद - घन जटेत्यादिभिः पठनं नाम । वैदिककालिक्या : शिक्षायाः अवलोकनेन ज्ञायते यत् केचन शिक्षणविधयः अतीव प्रचलिताः आसन् । एतेषु अधीतिः , बोधः , आचरणं , प्रसारश्च प्रमुखाः सन्ति । अन्येऽपि विधयः प्रचलने आसन् । ' वैदिककाले तथा च पाश्चात्य शिक्षापद्धत्याः आगमनात्परं संस्कृतशिक्षणाय ये विधयः प्रयुज्यन्ते ते सर्वे प्राचीनविधीनामन्तर्गते निधीयन्ते । तेषां वर्णनम् अत्र प्रस्तूयते 1. पाठशालाविधि : अयं संस्कृतशिक्षणस्य प्राचीनतम : विधिरस्ति । परम्परागतरूपेण आश्रीयमाणत्वादयं पारम्परिकविधिरित्यप्युच्यते । पण्डितानां निर्माणाय पण्डितैरादृतत्वात् पण्डितप्रणाली इति चैषा कथ्यते । सप्तदशशताब्दीपर्यन्तं पाठशालेषु आश्रमेषु , गुरुकुलेषु , मठेषु , विद्यापीठेषु च अयं शिक्षाविधिः प्रचलने आसीत् । शनैः शनैः लॉर्डमैकालेमहोदयस्य शिक्षापद्धत्या : विस्तरेण सह अयं विधि उपेक्षितो जातः । अनेन विधिना शिक्षारम्भः उपनयनसंस्कारात्परं भवति स्म । गुरुः छात्रेभ्यो गायत्रीमन्त्रम् उपदिशति । मन्त्रस्यदीक्षात्परं शिक्षा प्रारभ्यते । अध्ययनार्थं गुरोः आह्वानस्य व्यवस्था आसीत् । प्रतिदिनं शिष्यः नित्यकर्म कृत्वा गुरोः समीपं गच्छति । पाठारम्भाय छात्रः स्वदक्षिणहस्तेन गुरोः वामहस्तमादधाति स्म । निवेदयति स्म यत् ' सम्माननीयाः प्रावयन्तु ! " इति छात्र : दत्तचितो भूत्वा ओमिति शब्दमुच्चारयति स्म । गुरोराज्ञां प्राप्य तस्य दक्षिणहस्ततः उपविशति स्म । छात्र : उत्तराभिमुखं भूत्वा आचमनं कृत्वा , ब्रह्माञ्जलिमाबध्य- गुरोः समीपे विद्यां प्राप्नोति स्म । अध्ययनात्पूर्वे पश्चाद् वा चरणस्पर्शे स्वदक्षिणहस्तं गुरोः दक्षिणपादेन स्ववामहस्तं तु गुरोर्वामपादेन सह मेलयति स्म । पठनारम्भस्य प्रक्रियायाः परं ' गुरुः ' छात्रान् आदिशति यत् ' पठतु ' । वैदिककालिकाः प्राचीनतमाः शिक्षणसंस्था ऋषीणां ग्रामेषु आसन् । तस्मिन् काले केचन आचार्याः शिष्यैः सह नैकदेशेषु परिभ्रमन्तः स्वज्ञानं वितरन्ति स्म । ' तदानीं चतुर्वर्गस्यावधारणा प्रचलिता आसीत् । तथा चतुर्वर्गेषु धर्मार्थकाममोक्षेषु चतुर्थस्य प्राप्तिरेव शिक्षायां प्रमुखमुद्देश्यमासीत् । विधिरयं शिक्षणस्य स्थाने मानवस्य जीवनशैल्यामुपरि विशिष्टं बलं दीयते स्म । तस्मिन् काले गुरुशिष्यसम्बन्धः पितापुत्रवत् आसीत् । शिक्षकाः शिष्याणामादरभाजः भवन्ति स्म । ते तु मातृपितृसमाः शिष्याणां कृते आसन् । उच्चशिक्षायाः कृते विश्वविद्यालयस्य प्रवेशद्वारे विद्वद्भिः छात्राणां ज्ञानपरीक्षणं क्रियते स्म । पाठशालाविधौ निम्नलिखिताः शिक्षणविधयः सन्निहिताः आसन् ( अ ) मौखिकविधिः व्यक्तिगतशिक्षणविधिर्वा- सप्तदशशताब्दीपर्यन्तं आश्रमेषु , गुरुकुलेषु , मठेषु , पाठशालासु , विद्यापीठेषु अयं विधिः नियमितरूपेण प्रचलित आसीत् । तद् शिक्षणं मौखिकरूपेणैव भवति स्म । वेदमन्त्राणामुच्चारणं छात्रैः क्रियते स्म । श्रवणस्य , मननस्य , निदिध्यासनस्य प्रक्रियायामपि कण्ठस्थ करणाय । वारं वारं क्रियते । छात्रकृतोच्चारणसम्बद्धदोषाणां निवारणं शिक्षकेण व्यक्तिगतरूपए विशिष्टं स्थानं विद्यते । अस्याभावे निदिध्यासनस्य स्थितिपर्यन्तं गमनमसम्भवो वर्तते ।। स्वीकुर्वन्ति यत् पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ गुणाः - 1. अनेन छात्राणामुच्चारणं शुद्धं भवति । 2. मौखिकाभिव्यक्ति : सशक्ता भवति । ( ब ) पारायणविधिः - अयं विधिरपि कण्ठस्थीकरणोपरि बलं ददाति । वैदिकमन्त्राणां सस्वरपाठकरणं पारायणं कथ्यते स्म । नियमानुसारं पारायणकर्तृछात्रः पारायणिको भवति । पारायणमनेकप्रकारस्य भवति । पाठस्य कठिनतायाः सरलतायाश्चानुसारेण अस्य संख्याऽपि निर्धारिता आसीत् यथा पञ्चकाध्ययनं ( पाठ पञ्चवारं पठनम् ) पञ्चवारं ( शब्दान् पञ्चवारं कथनम् ) तथा पञ्चरूपम् ( पञ्चवार पठनम् ) । अनेन प्रकारेण सप्तवारं , अष्टवारं , नववारमपि पारायणं क्रियते स्म । उच्चारणसमये अशुद्ध्यनुसारेण छात्राणां परीक्षा अपि भवति स्म । एकाशुद्धिकरं छात्र ' एकान्यिकः ' द्वयशुद्धिकर्तारं छात्रं ' द्वैयन्यिकः ' त्र्यशुद्धिकर्तारं छात्रं ' वैयन्यिकः ' कच्यन्ते । गुणः- अनेन विधिना प्राप्तज्ञानस्य रक्षणम् आगामिवंशपरम्परायाः कृते भवति ( स ) वाद - विवादविधिः - पाठशालाविधौ वाद - विवादविधेरपि प्रयोगो भवति स्म । कण्ठस्थीकरणेन सह अवबोधोपरि अपि पर्याप्तबलं दीयते स्म । तत्स्थलीयभाषण भाषण - व्याख्या- सम्यक् अवबोध - सम्यक् ज्ञान - प्रदर्शन - विमति - विप्रलाप विभिन्नमतानामभिव्यक्ति - आदीनां शब्दानां प्रयोगोऽपि पाणिनिना कृतः । एतैः शब्दैः विभिन्नशैक्षिकविधीनां प्रतीतिर्भवति । एते शब्दा : वादविवादस्य द्योतकाः सन्ति यः शिष्यः वादविवादे विजयी भवति स्म तस्यातिसम्मानो भवति स्म तथा स एव तस्य विषयस्य अधिकारी मन्यते स्म । शास्वार्थः संवादश्च अस्य विधेः उदाहरणानि सन्ति यथा- यम - यमी संवादः , गार्गी - मैत्रेयी संवादश्च । दार्शनिकतत्त्वानां शिक्षणं न्यायशास्त्रस्य अध्यापनं तर्कविधिना प्रचलितम् आसीत् । गुणा : - ( 1 ) अनेन छात्राणां भावप्रकाशनस्य शक्तेर्विकासो भवति । ( 2 ) छात्रेषु स्वाध्यायस्य प्रवृत्ति आयाति । मुख्यतः ( द ) प्रश्नोत्तरविधिः - वैदिककाले ' ओंकार ' इति शब्दस्योच्चारणात्परं पाठस्य पाठनारम्भं भवति स्म । शिक्षकेण प्रश्नोत्तरविधिना शिक्षणं क्रियते स्म । प्रतिप्रश्नानन्तरं छात्रेण तस्य आवृत्तिः क्रियते स्म । अनया प्रक्रियया व्याख्यानं सम्पन्नं भवति स्म । यदा कदा प्रश्नानां विस्तृतोत्तरस्थाने केवलं सङ्केतमेव प्रदीयते । छात्राः सङ्केतानामाधारण उचितोत्तरमन्विष्यन्ति स्म । वैदिकशिक्षायां प्रश्नानां गौरवं स्वीकृतमासीत् । वेदे आ शिक्षायै प्रश्निनं तथा च उपशिक्षायै अभिप्रश्निनम् ' इत्यादिभिः मन्त्रैः प्रश्नकर्तुः महत्त्वं प्रतिपादितं वर्तते । यतो हि जिज्ञासायाः अभावे ज्ञानं नास्ति , अत : प्रश्नानाम् आवश्यकता भवत्येव । प्राचीनयूनानीदार्शनिक ' सुकरात ' अनेन विधिना समाजे उपदेशम् अददत् । गुणाः - 1. छात्राः सक्रियाः भवन्ति । 2. तेषां चिन्तन - तर्क - निरीक्षणशक्तेश्च विकासो भवति । ( य ) सूत्रविधिः - विधिरयं संस्कृतव्याकरणशिक्षणस्य , दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विद्यते । सूत्राणां मुख्यम् उद्देश्यं ' घटे समुद्रपूरणम् ' आसीत् । अनेन नियमानां सूत्ररूपेण कण्ठस्थीकरणं क्रियते स्म । एतेषां सूत्राणां व्याख्यायाः कृते भाष्यविधे : टीकाविधेश्च अनुसरणं क्रियते स्म । गुणः- क्लिष्टविषयाणाम् अवगमने स्मरणे च सौविध्यं भवति स्म । ( २ ) कथाकथनविधि : कथा श्रावणमपि एका कला वर्तते । विषये रुच्युत्पादनाय , विषयस्य स्पष्टीकरणाय च प्राचीनकालेऽपि पाठस्य मध्ये मध्ये पञ्चतन्त्र हितोपदेशसदृशीकथानाम् उदाहरणानि शिक्षकैः दीयन्ते स्म । गुणाः - 1. बालकेषु कल्पनाशक्ते : विकासो भवति । 2. शिक्षणं , सरलं सरसञ्च भवति । 3. बालकेषु श्रुत्वा अर्थग्रहणस्य क्षमतोत्पादनं भवति । ( ल ) कक्षानायकविधिः - प्राचीनकाले प्रतिभाशालिनः छात्राः अध्यापनकार्ये गुरोः सहायकाः भवन्ति स्म । यदा आचार्यः अस्वस्थो भवति स्म तदा ते गुरुकुलस्य छात्रान् पाठयन्ति स्म । गुणाः - 1. अनेन मेधाविछात्राणां ज्ञानं परिपुष्टं भवति स्म । 2. आत्मविश्वासस्य विकासो भवति स्म । ( व ) भाषणविधिः - विषयस्पष्टीकरणाय गुरु उदाहरणानां कथानां च प्रयोगं करोति स्म अष्टाध्यायीग्रन्थे प्रयुक्तभाषणशब्दात् भाषणविधे : आभासो भवति । गुणः- अनेन छात्राः कस्मिन्नपि विषये विस्तृतं ज्ञानं प्राप्नुवन्ति ।

( स ) व्याख्याविधिः - छात्राणां शङ्कासमाधानाय गुरुः व्याख्याविधेरनुसरण करोति स्म । व्याख्यानस्य षडङ्गत्वं , यथा पदच्छेदः पदार्थोक्तिः संशयो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं स्मृतम् ॥ एतादृश षड्विधव्याख्यानाय शक्तिग्रहोपायाः शास्त्रकारैः ज्ञापिताः । ते च - शक्तिग्रह व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेवाद्विवृतेर्वदन्ति सन्निध्यतः सिद्धपदस्य वृद्धाः ॥ माधवाचार्येण व्याख्यायाः कृते पञ्चबिन्दवः स्वीकृता : विषयो संशयश्चैव पूर्वपक्षस्तथोत्तरः । संगतिश्चेति पंचाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥ भर्तृहरिणाप्युक्तम् संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ शनैः शनैः क्लिष्टपदानामर्थज्ञापनाय संस्कृतभाषया सहैव प्राकृतान्यभाषाणाव प्रयोगः भवति स्म । गुणा : - 1. शब्दानां संरचनया परिचयो भवति स्म । 2. विषयस्य विस्तृतं ज्ञानं भवति स्म । 3. अनेन बालकस्य मानसिकक्रियाशीलतयाः वृद्धिर्भवति । दोषा : - 1. प्राथमिक - माध्यमिकस्तरयोः कृते अस्य प्रयोगः समुचितः नास्ति । 2. छात्रस्य स्वाध्यायस्य अभिव्यक्त्याश्च महत्त्वं नास्ति । ( ष ) व्याकरणविधिः - भाषायाः प्राणतत्त्वमस्ति ' व्याकरणम् ' । व्याकरणं शब्दानुशासनमेव कथ्यते । अस्य शिक्षा विना भाषायाः ज्ञानमपूर्णं भवति अतः भाषाज्ञानाय तस्याः भाषायाः व्याकरणस्य ज्ञानमावश्यकमस्ति । प्राचीनसमये वेदाध्ययनाय व्याकरणस्य पठनपाठनं विशेषरूपेण भवति स्म । पतञ्जलिना महाभाष्ये लिखितम्- ' रक्षार्थं वेदानाम् , अध्येयं व्याकरणम् ' । गुणा : - 1. अनेन भाषायाः ध्वनितत्त्वैः छात्रा : परिचिताः भवन्ति । 2. भाषायाः शुद्धलेखनस्य उच्चारणस्य च ज्ञानं भवति । पाठशालाविधेः गुणाः 1. अनेन सांस्कृतिकाध्यात्मिकमूल्यानां विकासाय महत्त्वं प्रदीयते । 2. छात्रेषु अनुशासनभावनाया : विकासः करोति । 3. अभ्यासस्य स्मरणशक्तेश्च अधिकं प्राधान्यं प्रदीयते । 4. विधिरयं भारतीयसंस्कृते : संरक्षणाय , संस्कृतसाहित्यस्य अनुसन्धानाय च उपयोगी अस्ति । 5. छात्रेषु मौलिकचिन्तनस्य , तर्कशक्तेः , निरीक्षणशक्तेश्च विकासो भवति । 6. स्वाध्यायस्य अभ्यासो भवति । 7. गुरुशिष्ययोर्मध्ये मधुरः सम्बन्धो भवति । पाठशालाविधे : दोषाः 1. अयं विधि : नीरसोऽस्ति यतो हि व्याकरणं प्रधानं भवति । 2. भाषाया : अन्यविधाः यथा- गद्य - पद्य - कथादयः उपेक्षिताः भवन्ति । 3. अयं विधिः सामान्य - मन्दबुद्धिछात्राणां कृते अनुपयोगी अस्ति । 4. शिक्षणम् अध्यापककेन्द्रितं भवति । 5. पाठ्यसहगामिक्रियाणां कृते अवकाशं नास्ति । अतः छात्राणां सर्वांगीण विकासे असफलोऽस्ति अयं विधिः । निष्कर्षतः वयं कथयितुं शक्नुमः यत् व्याकरणस्य ज्ञानाय , भारतीयसंस्कृते : साहित्यस्य च संरक्षणाय अयं विधि : उपयोगी अस्ति । 2. व्याकरण -( भण्डारकरविधिः ) -

                                                विधिरयं 1835 ईसवीयवर्षे लॉर्डमैकालेमहोदयेन प्रदत्तशिक्षापद्धत्याः अनन्तरं विकसितोऽभूत् । डॉ . रामकृष्णगोपालभण्डारकरमहोदयेन पाश्चात्यप्रणालीमाश्रित्य संस्कृतभाषामध्यापनाय एक : नवीनविधिराविष्कृतः । तस्यैव नाम्ना विधिरयं भण्डारकरविधिरिति प्रसिद्धि मलभत । तेन व्याकरण - अनुवादविधिमाश्रित्य पुस्तकद्वयं विरचितं प्रथमं मार्गोपदेशिका द्वितीयञ्च संस्कृतमन्दिरान्तः प्रवेशिका च । आङ्ग्लभाषामाध्यमेन रचितं पुस्तकद्वयं सरलतया संस्कृतभाषां , तस्याः व्याकरणञ्च अध्येतुं छात्राणामुपकारकमभूत् । वामनशिवरामआप्टेमहोदयेन ' The Student's guide to Sanskrit Compo sition ' इत्यस्यां रचनायाम् अस्य विधे : अनुकरणं कृतम् । कैलहोरन - मोनियरविलियम मैक्डॉनल - अन्यपाश्चात्यविद्वद्भिः विधिरयं स्वीकृतः ।

व्याकरण - अनुवादविधे : गुणाः 1. विधिरयं मनोवैज्ञानिकसिद्धान्तानाम् अनुसरणं करोति । 2. प्रौढानां स्वयंपाठिछात्राणां - पत्राचारपाठ्यक्रमाणां च कृते उपयोगी अस्ति । 3. विषयाणां सम्यग्रूपेण वर्गीकरणेन अध्ययनकाठिन्यं निवारयति । 4. अनेन विधिना आधारितानि पुस्तकानि छात्राणां पथप्रदर्शिकानि भवन्ति । 5. कण्ठस्थीकरणस्य अपेक्षया छात्राणां चिन्तनशक्ते : निरीक्षणशक्तेश्च विकासो भवति । व्याकरण - अनुवादविधे : दोषाः 1. विधिरयम् उच्चस्तरस्य कृते एव उपयोगी अस्ति । 2. भाषायाः विविधपक्षाः यथा- उच्चारणाभ्यासः , मौखिककार्य , पद्यानां रसानुभूतिः , गद्यानां मुख्यभावादयः उपेक्षिताः भवन्ति । 3. केवलं व्याकरणे अनुवादे च बलं दीयते अतः अयं विधि एकाङ्गी अस्ति । नवीनविधिः - लॉर्डमैकालेमहोदयस्य शिक्षापद्धत्याः परं संस्कृतशिक्षणस्य कृते अद्यावधि प्रयुज्यमानाः विधयः अर्वाचीनविधयः कथ्यन्ते । ते विधयः निम्न लिखितास्सन्ति पाठ्यपुस्तकविधिः -

                                                 भारते पाठ्यपुस्तकविधेः समर्थकाः डॉ . वेस्टमहोदया : आसन्    तेषां मतानुसार शिक्षणम् ईदृशं स्यात् यत् छात्रः यस्याम् अवस्थायामपि विद्यालय परित्यजेत् तेन अधीतस्य प्रयोजनं लब्धुं शक्यते । अस्मिन् विधौ कक्षास्तरानुसारं विषयवस्तु वर्गीक्रियते । वर्गीकरणमिदं छात्राणां वातावरणे आधारितं भवति । संस्कृतशिक्षणाय निर्मितेषु पाठ्यपुस्तकेषु वर्णमालायाः आरभ्य पदानि , वाक्यानि , अनुच्छेदाश्च भवन्ति । एतेषां पुस्तकानां मुख्योद्देश्यमस्ति यत् छात्राः स्वयमेव अध्ययन कृत्वा सारल्येन संस्कृतस्य ज्ञान प्राप्तुं शक्नुवन्ति । पाठ्यपुस्तकस्य पाठाः एव सम्पूर्णाध्ययनस्य केन्द्रबिन्दवः भवन्ति । मातृभाषया नवीनशब्दानामर्थः स्पष्टीक्रियते । आदर्शवाचनम् , अनुवाचनं , पाठप्रवर्धनमङ्गीकृत्य मौनपाठनं कार्यते । इत्थं कठिन शब्दानामाः , विशेषांशानां विवरणं , मूल्याङ्कनप्रश्नाः , व्याकरणस्य , अनुवादस्य चाभ्यासा : अध्यापकानां कृते सूचनाश्च अन्तर्भवन्ति । गुणाः - 1. अस्मिन् विधौ शिक्षणसूत्राणामनुसरणं पूर्णरूपेण क्रियते अतः विधिरयं मनोवैज्ञानिकोऽस्ति । 2. छात्राणां शब्दकोशस्य वृद्धिकरणे सहायको भवति । 3. सस्वरवाचनेन छात्रेभ्यः शुद्धोच्चारणाभ्यासस्य अवसर : दीयते । 4. पाठ्यपुस्तकद्वारा शिक्षणेन संस्कृतशिक्षणप्रक्रियायां समरूपता , नियमितता च सिद्ध्यति । 

5. अवकाशसमये छात्रः पाठान् स्वयमध्येतुं प्रभवति । 6. छात्रेषु जिज्ञासायाः विकासो भवति । ते सक्रियाः भवन्ति । 7. संस्कृतसाहित्य प्रति अनुरागः प्रादुर्भवति । दोषाः- 1. अस्मिन् विधौ छात्राणां ध्यानं केवलं पाठ्यपुस्तकपर्यन्तमेव सीमितं भवति । ते संस्कृतसाहित्यस्य व्यापकज्ञानाय प्रेरिता : न भवन्ति । 2. छात्राणां शिक्षकाणाञ्च समीक्षात्मकशक्तिः शनैः शनैः लुप्ता भवति । तेषु रटनस्य प्रवृत्तिः आयाति । 3. व्याकरणस्य क्रमबद्धज्ञानस्य अभावो भवति । 4. अयमेकः यान्त्रिकविधिरस्ति । अस्मिन् वाक्यानां वाचनपुरस्सरं मातृभाषायाम् अनुवादः कार्यते , किन्तु पाठस्य मुख्य भावान् अवगन्तुं छात्रैः अवसरः न लभ्यते । प्रत्यक्षविधि : ( Direct Method ) -

                                                    विधिरयं सुगनपद्धतिः , निर्बाधविधिः , मातृविधिश्चेति नाम्नाऽपि ज्ञायते । सर्वप्रथमाङ्ग्लभाषाबोधनाय अस्य प्रयोगो दृश्यते । यदा आङ्ग्लीया अस्माकं देशे आगतवन्तः तदारभ्य प्रत्यक्षविधिरपि व्यवहारे आगतः । प्रत्यक्षविधेः तात्पर्यमस्ति यत् या भाषा अध्यापनीया , सा स्वमाध्यमेनैव बोधनीया । यथा- संस्कृतं संस्कृतमाध्यमेन , आङ्ग्लभाषा आङ्ग्लभाषामाध्यमेन । अस्मिन् विधौ ध्येयाः बिन्दवः 1. मौखिकार्यस्य प्रधानता स्यात् । 2. कामपि भाषां बोधयितुं मातृभाषायाः प्रयोगः न करणीयः । 3 , पदपदार्थयो : मिथः साक्षात् सम्बन्धं संस्थाप्य पाठयेत् । संस्कृतशिक्षणे अस्य विधेः प्रयोगः सर्वप्रथमं प्रो . वी.पी. बोकीलमहोदयेन अल्फिन्स्टोननाम्निविद्यालये , मुम्बईनगरे कृतः । ' A New Approach to Sanskrit इत्यस्मिन् पुस्तके प्रो . बोकीलमहाभागेन प्रत्यक्षविधेः उपयोगितायाः वर्णनं सम्यग्रूपेण प्रतिपादितम् । तेन स्वीकृतं यत् भाषाशिक्षणे अयं विधिः अत्युपयोगी अस्ति । अनेन विधिना शिक्षणसमये कक्षायाः परिवेश : संस्कृतमय : स्यात् । अध्यापकैः छात्रैरपि कक्षायां संस्कृतभाषा व्यवहता स्यात् । गुणाः- 1. अयं विधिः भाषाशिक्षणसिद्धान्तानुकूलोऽस्ति । यतो हि अनेन विधिना संस्कृतं संस्कृतमाध्यमेनैव पाठ्यते ।

2. छात्रशिक्षकयो : मध्ये सम्भाषणं प्रचलति अत : ते सक्रिय भवन्ति । 3. श्रवणे- पठने - लेखने - भाषणे च पर्याप्तावसर उपलभ्यते । 4. अयं विधि : संस्कृतशिक्षायाः स्तरोन्नयनाय सहायको भवति । 5. छात्रेषु संस्कृतमाध्यमेन स्वतन्त्ररूपेण स्वविचारान् प्रकटयि कृत क्षमताया : विकासो भवति । दोषाः - 1. अनेन विधिना संस्कृतशिक्षणस्य गतिः मन्दा भवति । 2. प्रतिभाशालिनः छात्रा : उपकृता भवन्ति न तु सामान्याः मन्दाश्न 3. प्राथमिकस्तरे एष अनुपयुक्तो भवति । 4. संस्कृतस्य प्रत्येकं विधायाः कृते तेषां प्रत्येकं सोपानस्य उपयोगी नास्ति । 5. भाषणकौशलस्य प्राधान्यात् अन्यभाषाकौशलानामुपेक्षा भवति । 6. अनेन विधिना शिक्षणाय अधिकसमयस्य शक्तेश्च आवश्यकता भवति । TIGERT 2CGT समाहार_ विधिः -

                           अयं हरबार्टीयपञ्चपदी ' इत्यस्य विकसितरूपम् वर्तते । अस्मिन् प्रतिसोपानेन सम्बद्धोद्देश्यानां प्राप्तये कक्षायामायोजितक्रियाकलापानां संयोजन कृत्वा मूल्याङ्कनं क्रियते । अनेन छात्र - शिक्षकयोः दृष्ट्या पाठस्य सफलतायाः परीक्षणं भवति । शिक्षणक्षेत्रे उद्देश्यानां व्यवहारगतपरिवर्तनैः सह लेखनं बी.एस. ब्लूममहोदयेन सर्वप्रथमं प्रारब्धम् । शिक्षणोद्देश्यानि तानि अपेक्षितव्यवहारगतपरिवर्तनानि सन्ति यानि शिक्षणस्य माध्यमेन छात्रेषु आनेयानि भवन्ति । इमानि अपेक्षितपरिवर्तनानि व्यवहारस्य त्रिषु पक्षेषु भवन्ति - संज्ञानात्मक - भावात्मक - क्रियात्मक - भेदात् । बी.एस. ब्लूममहोदय : संज्ञानात्मकक्षेत्रस्य विषये , डेविड आर . क्रेथोल महाभागः भावात्मकक्षेत्रस्य विषये , डॉ . ए.जे. हैरो महोदय : मनोगत्यात्मक क्षेत्रस्य विषये कार्यं कृतवन्तः । रॉबर्टमेजर रॉबर्टमिलरइत्यनयोः प्रयासा : अप्युद्देश्यानां निर्धारणे प्रशंसनीयास्सन्ति । मूल्याङ्कनविधौ ज्ञातविषयसामग्र्याः मूल्यनिर्धारणं भवति । मूल्याङ्कन हि विषयवस्त्वाधारेण भवति पूर्वं विषयवस्तुनः मूल्यनिर्धारणम् उद्देश्यानामाधारेण क्रियते अस्मिन् विधौ निम्नलिखितानि सोपानानि अनुस्रियन्ते ( i ) उद्देश्यम् - सर्वप्रथममुद्देश्यानां निर्धारणं क्रियते । ( उद्देश्यानां विस्तृतज्ञानाय पश्यन्तु पञ्चमाध्यायम् ) । ( ii ) व्यवहाररूपम् - निर्धारितोद्देश्यानामाधारण छात्राणां पूर्वज्ञाने कियत्परिवर्तन भविष्यति ? ते कियत्ज्ञानं प्राप्स्यन्ति ? एतस्योल्लेखो भवति । ( iii ) पाठ्यबिन्दुः - पाठानां बिन्दूनां निर्धारणं क्रियते यथा भाषाशिक्षणस्य पाठेषु वाचन , प्रश्नोत्तरं , काठिन्यनिवारणं , सारकथनं , पुनरावर्तनम् इत्यादीनि सम्मिलितानि भवन्ति । ( iv ) शिक्षककार्यम् - विषयवस्तुस्पष्टीकरणाय शिक्षक : काः काः क्रिया : करिष्यति ? केषां केषामुपकरणानां प्रयोगं करिष्यति ? केन विधिना पाठयिष्यति ? एतेश बिन्दूनामुल्लेखोऽस्मिन् क्रियते ।

संस्कृतशिक्षप ( v ) छात्रकार्यम् - प्रत्येकं पाठाय छात्राणामभिप्रेरणाय , तेषां सक्रिय सहभागितायाः कृते ये क्रियाकलापा : निर्धार्यन्ते तेषामुल्लेखः अस्मिन् सोपाने क्रियते । ( vi ) मूल्याङ्कनम् - इदमुद्देश्यनिष्ठशिक्षणस्य एक महत्त्वपूर्ण सोपानमस्ति । प्रतिसोपानं सफलतायाः परीक्षणाय मूल्याङ्कप्रश्नानां रचना क्रियते । पालस्यान्तेऽपि मूल्याङ्कनप्रश्ना : भवन्ति । गुणाः 1. अयं मनोवैज्ञानिकविधिरस्ति यतो हि प्रतिसोपानं मूल्याङ्कन क्रियते । उचितप्रतिक्रियासु छात्रेभ्यः अभिप्रेरणं पुनर्बलनञ्च दीयते । 2. शिक्षकाणां कृते शिक्षणे परिष्काराय मार्गदर्शनं भवति । दोषाः - 1. मूल्याङ्कनोन्मुखिशिक्षणेन शिक्षणे कृत्रिमतायाः समावेशो भवति । 2. सततमूल्याङ्कनेन छात्रा : व्यग्राः भयाक्रान्ताश्च भवन्ति । उपर्युक्तवर्णनेन इदं स्पष्टं भवति यत् प्रत्येकस्मिन् विधौ गुण - दोषाः भवन्ति । कोऽपि विधिः पूर्ण : नास्ति , अतः कक्षायाः स्तरं , विधां , प्रकरणञ्च मनसि निधाय समस्तविधीनां समवायरूपम् अनुसरणीयम् । शिक्षकप्रशिक्षणमहाविद्यालयेषु प्रशिक्षणार्थिनां कृते प्रशिक्षका : ईदृशान् प्रयत्नान् कुर्वन्ति यैः शिक्षणं रुचिकरं सरलञ्च भवेत् । विशेषतः वर्तमानकाले संस्कृतशिक्षणं नवीनतमोपागममाश्रित्य करणीयम् ।। Amarjeet singh chandarvansi (वार्ता) 03:15, 9 जुलाई 2021 (UTC) Amarjeet singh chandarvansi Amarjeet singh chandarvansi (चर्चा) ०७:५६, ९ जुलै २०२१ (UTC)उत्तर दें