सदस्यसम्भाषणम्:Amarjeet singh chandarvansi
विषयः योज्यताम्
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि
|
-- ॐNehalDaveND•✉•✎ ०७:०३, ९ जुलै २०२१ (UTC)
संस्कृतशिक्षणविधय: ( पारम्परिकविधि: , भणडार्करविधि:, पाठ्यपुस्तकविधि:,प्रत्यक्षविधि: समाहारविधि: च )
[सम्पादयतु]संस्कृतशिक्षणस्य विधयः ==
संस्कृतशिक्षणस्य विधयः प्राचीनकाले संस्कृतशिक्षा प्रकृतेः सुरम्यवातावरणे गुरुकुलेषु आश्रमेषु च दीयते स्म । अन्तेवासिनः गुरुगृहे निवासं कुर्वन्ति स्म । तत्र अन्तेवासीनां कृते केषाञ्चित् नियमानां पालनं करणीयमासीत् । विद्यार्थी स्वगुरोराज्ञायाः पालनं सर्वदा करोति स्म । सः गुरोः यत्किमपि सेवायामस्ति तद् विदधाति स्म । विद्यार्थिनः मनसा वाचा कर्मणा सदैव गुरोः हितचिन्तनं कुर्वन्ति स्म । ' तस्मिन् काले इन्द्र - वरुण - अग्नि - उषा - वायु - मेघादीनाम् उपासनायाः कृते वैदिकमन्त्राणां रचनाकृताऽऽसीत् । यज्ञानां महत्त्वमपि विशिष्टम् आसीत् । अध्ययनस्य मूलविषयः श्रुतेरभ्यास एवासीत् । श्रुतिः कथं संरक्षणीया ? प्रयासेऽस्मिन् आचार्यैः शिष्यैश्च मन्त्राणां शुद्धोच्चारणपूर्वकं कण्ठस्थीकरणं क्रियते स्म । श्रुतिपरम्परया एव वेदाः संरक्षिताः आसन् । तत्कालिकशिक्षायाः सम्पूर्णस्वरूपं सामाजिकचिन्तने आधारितम् आसीत् । अन्तेवासीनां कृते तादृशी शिक्षा दीयते स्म यादृशी शिक्षा समाजेन सम्बद्धा आसीत् । तस्मिन् समये कर्गदस्य मुद्रणस्य च आविष्काराभाववशात् कण्ठस्थीकरणे बलम् आसीत् शिक्षणं मौखिकविधिना प्रचलति स्म । भूर्जपत्रेषु ताम्रपत्रेषु च ग्रन्थानां लेखनस्य संग्रहात्परमपि मौखिकपद्धति प्रचलने आसीत् । अनेन सिद्धं भवति यत् कस्यापि विषयस्य शिक्षणपद्धत्यामुपरि भौगोलिक - प्राकृतिक - सामाजिक - वैज्ञानिक मनोवैज्ञानिकपरिस्थितिनाञ्च प्रभावो पतति । संस्कृतशिक्षणे विभिन्नविधानां शिक्षणं विविध - विधिभिः प्रविधिभिश्च क्रियते येषामुल्लेखं प्रतिविधया सम्बद्धपाठे पृथक् - पृथक् रूपेण प्रदत्तमस्ति । संस्कृतशिक्षणं केन केन विधिना प्राचीनकाले प्रदीयते स्म ? आधुनिककाले शिक्षणमिदं कथं प्रचलति ? कथं प्रचाल्येत , एतेषां प्रश्नानां समाधानाय संस्कृतशिक्षणस्य विधयः त्रिषु भागेषु विभकुं शक्यते संस्कृतशिक्षणस्य विधयः प्राचीनविधि : नवीनविधि : नवीनतमविधि : ( नवीनतमोपागमा :) 1. हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ - याज्ञवल्क्यस्मृतिः , आचाराध्यायः 27
पारम्परिकविधि: -
प्राचीनविधिः वैदिककाले वेदाभ्यासे वेदस्वीकरणं , विचारो , अभ्यासः , जपः शिष्येभ्यो वेदानां दानञ्चेत्यादीनां पञ्चक्रियाणां समावेशो भवति स्म । एवं प्रकारेण वेदाभ्यासेन एव तयुगीनस्य शिक्षणविधे : बोधो भवति । वेदाभ्यासो न केवलं वेदानां विविधैः पद - घन जटेत्यादिभिः पठनं नाम । वैदिककालिक्या : शिक्षायाः अवलोकनेन ज्ञायते यत् केचन शिक्षणविधयः अतीव प्रचलिताः आसन् । एतेषु अधीतिः , बोधः , आचरणं , प्रसारश्च प्रमुखाः सन्ति । अन्येऽपि विधयः प्रचलने आसन् । ' वैदिककाले तथा च पाश्चात्य शिक्षापद्धत्याः आगमनात्परं संस्कृतशिक्षणाय ये विधयः प्रयुज्यन्ते ते सर्वे प्राचीनविधीनामन्तर्गते निधीयन्ते । तेषां वर्णनम् अत्र प्रस्तूयते 1. पाठशालाविधि : अयं संस्कृतशिक्षणस्य प्राचीनतम : विधिरस्ति । परम्परागतरूपेण आश्रीयमाणत्वादयं पारम्परिकविधिरित्यप्युच्यते । पण्डितानां निर्माणाय पण्डितैरादृतत्वात् पण्डितप्रणाली इति चैषा कथ्यते । सप्तदशशताब्दीपर्यन्तं पाठशालेषु आश्रमेषु , गुरुकुलेषु , मठेषु , विद्यापीठेषु च अयं शिक्षाविधिः प्रचलने आसीत् । शनैः शनैः लॉर्डमैकालेमहोदयस्य शिक्षापद्धत्या : विस्तरेण सह अयं विधि उपेक्षितो जातः । अनेन विधिना शिक्षारम्भः उपनयनसंस्कारात्परं भवति स्म । गुरुः छात्रेभ्यो गायत्रीमन्त्रम् उपदिशति । मन्त्रस्यदीक्षात्परं शिक्षा प्रारभ्यते । अध्ययनार्थं गुरोः आह्वानस्य व्यवस्था आसीत् । प्रतिदिनं शिष्यः नित्यकर्म कृत्वा गुरोः समीपं गच्छति । पाठारम्भाय छात्रः स्वदक्षिणहस्तेन गुरोः वामहस्तमादधाति स्म । निवेदयति स्म यत् ' सम्माननीयाः प्रावयन्तु ! " इति छात्र : दत्तचितो भूत्वा ओमिति शब्दमुच्चारयति स्म । गुरोराज्ञां प्राप्य तस्य दक्षिणहस्ततः उपविशति स्म । छात्र : उत्तराभिमुखं भूत्वा आचमनं कृत्वा , ब्रह्माञ्जलिमाबध्य- गुरोः समीपे विद्यां प्राप्नोति स्म । अध्ययनात्पूर्वे पश्चाद् वा चरणस्पर्शे स्वदक्षिणहस्तं गुरोः दक्षिणपादेन स्ववामहस्तं तु गुरोर्वामपादेन सह मेलयति स्म । पठनारम्भस्य प्रक्रियायाः परं ' गुरुः ' छात्रान् आदिशति यत् ' पठतु ' । वैदिककालिकाः प्राचीनतमाः शिक्षणसंस्था ऋषीणां ग्रामेषु आसन् । तस्मिन् काले केचन आचार्याः शिष्यैः सह नैकदेशेषु परिभ्रमन्तः स्वज्ञानं वितरन्ति स्म । ' तदानीं चतुर्वर्गस्यावधारणा प्रचलिता आसीत् । तथा चतुर्वर्गेषु धर्मार्थकाममोक्षेषु चतुर्थस्य प्राप्तिरेव शिक्षायां प्रमुखमुद्देश्यमासीत् । विधिरयं शिक्षणस्य स्थाने मानवस्य जीवनशैल्यामुपरि विशिष्टं बलं दीयते स्म । तस्मिन् काले गुरुशिष्यसम्बन्धः पितापुत्रवत् आसीत् । शिक्षकाः शिष्याणामादरभाजः भवन्ति स्म । ते तु मातृपितृसमाः शिष्याणां कृते आसन् । उच्चशिक्षायाः कृते विश्वविद्यालयस्य प्रवेशद्वारे विद्वद्भिः छात्राणां ज्ञानपरीक्षणं क्रियते स्म । पाठशालाविधौ निम्नलिखिताः शिक्षणविधयः सन्निहिताः आसन् ( अ ) मौखिकविधिः व्यक्तिगतशिक्षणविधिर्वा- सप्तदशशताब्दीपर्यन्तं आश्रमेषु , गुरुकुलेषु , मठेषु , पाठशालासु , विद्यापीठेषु अयं विधिः नियमितरूपेण प्रचलित आसीत् । तद् शिक्षणं मौखिकरूपेणैव भवति स्म । वेदमन्त्राणामुच्चारणं छात्रैः क्रियते स्म । श्रवणस्य , मननस्य , निदिध्यासनस्य प्रक्रियायामपि कण्ठस्थ करणाय । वारं वारं क्रियते । छात्रकृतोच्चारणसम्बद्धदोषाणां निवारणं शिक्षकेण व्यक्तिगतरूपए विशिष्टं स्थानं विद्यते । अस्याभावे निदिध्यासनस्य स्थितिपर्यन्तं गमनमसम्भवो वर्तते ।। स्वीकुर्वन्ति यत् पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ गुणाः - 1. अनेन छात्राणामुच्चारणं शुद्धं भवति । 2. मौखिकाभिव्यक्ति : सशक्ता भवति । ( ब ) पारायणविधिः - अयं विधिरपि कण्ठस्थीकरणोपरि बलं ददाति । वैदिकमन्त्राणां सस्वरपाठकरणं पारायणं कथ्यते स्म । नियमानुसारं पारायणकर्तृछात्रः पारायणिको भवति । पारायणमनेकप्रकारस्य भवति । पाठस्य कठिनतायाः सरलतायाश्चानुसारेण अस्य संख्याऽपि निर्धारिता आसीत् यथा पञ्चकाध्ययनं ( पाठ पञ्चवारं पठनम् ) पञ्चवारं ( शब्दान् पञ्चवारं कथनम् ) तथा पञ्चरूपम् ( पञ्चवार पठनम् ) । अनेन प्रकारेण सप्तवारं , अष्टवारं , नववारमपि पारायणं क्रियते स्म । उच्चारणसमये अशुद्ध्यनुसारेण छात्राणां परीक्षा अपि भवति स्म । एकाशुद्धिकरं छात्र ' एकान्यिकः ' द्वयशुद्धिकर्तारं छात्रं ' द्वैयन्यिकः ' त्र्यशुद्धिकर्तारं छात्रं ' वैयन्यिकः ' कच्यन्ते । गुणः- अनेन विधिना प्राप्तज्ञानस्य रक्षणम् आगामिवंशपरम्परायाः कृते भवति ( स ) वाद - विवादविधिः - पाठशालाविधौ वाद - विवादविधेरपि प्रयोगो भवति स्म । कण्ठस्थीकरणेन सह अवबोधोपरि अपि पर्याप्तबलं दीयते स्म । तत्स्थलीयभाषण भाषण - व्याख्या- सम्यक् अवबोध - सम्यक् ज्ञान - प्रदर्शन - विमति - विप्रलाप विभिन्नमतानामभिव्यक्ति - आदीनां शब्दानां प्रयोगोऽपि पाणिनिना कृतः । एतैः शब्दैः विभिन्नशैक्षिकविधीनां प्रतीतिर्भवति । एते शब्दा : वादविवादस्य द्योतकाः सन्ति यः शिष्यः वादविवादे विजयी भवति स्म तस्यातिसम्मानो भवति स्म तथा स एव तस्य विषयस्य अधिकारी मन्यते स्म । शास्वार्थः संवादश्च अस्य विधेः उदाहरणानि सन्ति यथा- यम - यमी संवादः , गार्गी - मैत्रेयी संवादश्च । दार्शनिकतत्त्वानां शिक्षणं न्यायशास्त्रस्य अध्यापनं तर्कविधिना प्रचलितम् आसीत् । गुणा : - ( 1 ) अनेन छात्राणां भावप्रकाशनस्य शक्तेर्विकासो भवति । ( 2 ) छात्रेषु स्वाध्यायस्य प्रवृत्ति आयाति । मुख्यतः ( द ) प्रश्नोत्तरविधिः - वैदिककाले ' ओंकार ' इति शब्दस्योच्चारणात्परं पाठस्य पाठनारम्भं भवति स्म । शिक्षकेण प्रश्नोत्तरविधिना शिक्षणं क्रियते स्म । प्रतिप्रश्नानन्तरं छात्रेण तस्य आवृत्तिः क्रियते स्म । अनया प्रक्रियया व्याख्यानं सम्पन्नं भवति स्म । यदा कदा प्रश्नानां विस्तृतोत्तरस्थाने केवलं सङ्केतमेव प्रदीयते । छात्राः सङ्केतानामाधारण उचितोत्तरमन्विष्यन्ति स्म । वैदिकशिक्षायां प्रश्नानां गौरवं स्वीकृतमासीत् । वेदे आ शिक्षायै प्रश्निनं तथा च उपशिक्षायै अभिप्रश्निनम् ' इत्यादिभिः मन्त्रैः प्रश्नकर्तुः महत्त्वं प्रतिपादितं वर्तते । यतो हि जिज्ञासायाः अभावे ज्ञानं नास्ति , अत : प्रश्नानाम् आवश्यकता भवत्येव । प्राचीनयूनानीदार्शनिक ' सुकरात ' अनेन विधिना समाजे उपदेशम् अददत् । गुणाः - 1. छात्राः सक्रियाः भवन्ति । 2. तेषां चिन्तन - तर्क - निरीक्षणशक्तेश्च विकासो भवति । ( य ) सूत्रविधिः - विधिरयं संस्कृतव्याकरणशिक्षणस्य , दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विद्यते । सूत्राणां मुख्यम् उद्देश्यं ' घटे समुद्रपूरणम् ' आसीत् । अनेन नियमानां सूत्ररूपेण कण्ठस्थीकरणं क्रियते स्म । एतेषां सूत्राणां व्याख्यायाः कृते भाष्यविधे : टीकाविधेश्च अनुसरणं क्रियते स्म । गुणः- क्लिष्टविषयाणाम् अवगमने स्मरणे च सौविध्यं भवति स्म । ( २ ) कथाकथनविधि : कथा श्रावणमपि एका कला वर्तते । विषये रुच्युत्पादनाय , विषयस्य स्पष्टीकरणाय च प्राचीनकालेऽपि पाठस्य मध्ये मध्ये पञ्चतन्त्र हितोपदेशसदृशीकथानाम् उदाहरणानि शिक्षकैः दीयन्ते स्म । गुणाः - 1. बालकेषु कल्पनाशक्ते : विकासो भवति । 2. शिक्षणं , सरलं सरसञ्च भवति । 3. बालकेषु श्रुत्वा अर्थग्रहणस्य क्षमतोत्पादनं भवति । ( ल ) कक्षानायकविधिः - प्राचीनकाले प्रतिभाशालिनः छात्राः अध्यापनकार्ये गुरोः सहायकाः भवन्ति स्म । यदा आचार्यः अस्वस्थो भवति स्म तदा ते गुरुकुलस्य छात्रान् पाठयन्ति स्म । गुणाः - 1. अनेन मेधाविछात्राणां ज्ञानं परिपुष्टं भवति स्म । 2. आत्मविश्वासस्य विकासो भवति स्म । ( व ) भाषणविधिः - विषयस्पष्टीकरणाय गुरु उदाहरणानां कथानां च प्रयोगं करोति स्म अष्टाध्यायीग्रन्थे प्रयुक्तभाषणशब्दात् भाषणविधे : आभासो भवति । गुणः- अनेन छात्राः कस्मिन्नपि विषये विस्तृतं ज्ञानं प्राप्नुवन्ति ।
( स ) व्याख्याविधिः - छात्राणां शङ्कासमाधानाय गुरुः व्याख्याविधेरनुसरण करोति स्म । व्याख्यानस्य षडङ्गत्वं , यथा पदच्छेदः पदार्थोक्तिः संशयो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं स्मृतम् ॥ एतादृश षड्विधव्याख्यानाय शक्तिग्रहोपायाः शास्त्रकारैः ज्ञापिताः । ते च - शक्तिग्रह व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेवाद्विवृतेर्वदन्ति सन्निध्यतः सिद्धपदस्य वृद्धाः ॥ माधवाचार्येण व्याख्यायाः कृते पञ्चबिन्दवः स्वीकृता : विषयो संशयश्चैव पूर्वपक्षस्तथोत्तरः । संगतिश्चेति पंचाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥ भर्तृहरिणाप्युक्तम् संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ शनैः शनैः क्लिष्टपदानामर्थज्ञापनाय संस्कृतभाषया सहैव प्राकृतान्यभाषाणाव प्रयोगः भवति स्म । गुणा : - 1. शब्दानां संरचनया परिचयो भवति स्म । 2. विषयस्य विस्तृतं ज्ञानं भवति स्म । 3. अनेन बालकस्य मानसिकक्रियाशीलतयाः वृद्धिर्भवति । दोषा : - 1. प्राथमिक - माध्यमिकस्तरयोः कृते अस्य प्रयोगः समुचितः नास्ति । 2. छात्रस्य स्वाध्यायस्य अभिव्यक्त्याश्च महत्त्वं नास्ति । ( ष ) व्याकरणविधिः - भाषायाः प्राणतत्त्वमस्ति ' व्याकरणम् ' । व्याकरणं शब्दानुशासनमेव कथ्यते । अस्य शिक्षा विना भाषायाः ज्ञानमपूर्णं भवति अतः भाषाज्ञानाय तस्याः भाषायाः व्याकरणस्य ज्ञानमावश्यकमस्ति । प्राचीनसमये वेदाध्ययनाय व्याकरणस्य पठनपाठनं विशेषरूपेण भवति स्म । पतञ्जलिना महाभाष्ये लिखितम्- ' रक्षार्थं वेदानाम् , अध्येयं व्याकरणम् ' । गुणा : - 1. अनेन भाषायाः ध्वनितत्त्वैः छात्रा : परिचिताः भवन्ति । 2. भाषायाः शुद्धलेखनस्य उच्चारणस्य च ज्ञानं भवति । पाठशालाविधेः गुणाः 1. अनेन सांस्कृतिकाध्यात्मिकमूल्यानां विकासाय महत्त्वं प्रदीयते । 2. छात्रेषु अनुशासनभावनाया : विकासः करोति । 3. अभ्यासस्य स्मरणशक्तेश्च अधिकं प्राधान्यं प्रदीयते । 4. विधिरयं भारतीयसंस्कृते : संरक्षणाय , संस्कृतसाहित्यस्य अनुसन्धानाय च उपयोगी अस्ति । 5. छात्रेषु मौलिकचिन्तनस्य , तर्कशक्तेः , निरीक्षणशक्तेश्च विकासो भवति । 6. स्वाध्यायस्य अभ्यासो भवति । 7. गुरुशिष्ययोर्मध्ये मधुरः सम्बन्धो भवति । पाठशालाविधे : दोषाः 1. अयं विधि : नीरसोऽस्ति यतो हि व्याकरणं प्रधानं भवति । 2. भाषाया : अन्यविधाः यथा- गद्य - पद्य - कथादयः उपेक्षिताः भवन्ति । 3. अयं विधिः सामान्य - मन्दबुद्धिछात्राणां कृते अनुपयोगी अस्ति । 4. शिक्षणम् अध्यापककेन्द्रितं भवति । 5. पाठ्यसहगामिक्रियाणां कृते अवकाशं नास्ति । अतः छात्राणां सर्वांगीण विकासे असफलोऽस्ति अयं विधिः । निष्कर्षतः वयं कथयितुं शक्नुमः यत् व्याकरणस्य ज्ञानाय , भारतीयसंस्कृते : साहित्यस्य च संरक्षणाय अयं विधि : उपयोगी अस्ति । 2. व्याकरण -( भण्डारकरविधिः ) -
विधिरयं 1835 ईसवीयवर्षे लॉर्डमैकालेमहोदयेन प्रदत्तशिक्षापद्धत्याः अनन्तरं विकसितोऽभूत् । डॉ . रामकृष्णगोपालभण्डारकरमहोदयेन पाश्चात्यप्रणालीमाश्रित्य संस्कृतभाषामध्यापनाय एक : नवीनविधिराविष्कृतः । तस्यैव नाम्ना विधिरयं भण्डारकरविधिरिति प्रसिद्धि मलभत । तेन व्याकरण - अनुवादविधिमाश्रित्य पुस्तकद्वयं विरचितं प्रथमं मार्गोपदेशिका द्वितीयञ्च संस्कृतमन्दिरान्तः प्रवेशिका च । आङ्ग्लभाषामाध्यमेन रचितं पुस्तकद्वयं सरलतया संस्कृतभाषां , तस्याः व्याकरणञ्च अध्येतुं छात्राणामुपकारकमभूत् । वामनशिवरामआप्टेमहोदयेन ' The Student's guide to Sanskrit Compo sition ' इत्यस्यां रचनायाम् अस्य विधे : अनुकरणं कृतम् । कैलहोरन - मोनियरविलियम मैक्डॉनल - अन्यपाश्चात्यविद्वद्भिः विधिरयं स्वीकृतः ।
व्याकरण - अनुवादविधे : गुणाः 1. विधिरयं मनोवैज्ञानिकसिद्धान्तानाम् अनुसरणं करोति । 2. प्रौढानां स्वयंपाठिछात्राणां - पत्राचारपाठ्यक्रमाणां च कृते उपयोगी अस्ति । 3. विषयाणां सम्यग्रूपेण वर्गीकरणेन अध्ययनकाठिन्यं निवारयति । 4. अनेन विधिना आधारितानि पुस्तकानि छात्राणां पथप्रदर्शिकानि भवन्ति । 5. कण्ठस्थीकरणस्य अपेक्षया छात्राणां चिन्तनशक्ते : निरीक्षणशक्तेश्च विकासो भवति । व्याकरण - अनुवादविधे : दोषाः 1. विधिरयम् उच्चस्तरस्य कृते एव उपयोगी अस्ति । 2. भाषायाः विविधपक्षाः यथा- उच्चारणाभ्यासः , मौखिककार्य , पद्यानां रसानुभूतिः , गद्यानां मुख्यभावादयः उपेक्षिताः भवन्ति । 3. केवलं व्याकरणे अनुवादे च बलं दीयते अतः अयं विधि एकाङ्गी अस्ति । नवीनविधिः - लॉर्डमैकालेमहोदयस्य शिक्षापद्धत्याः परं संस्कृतशिक्षणस्य कृते अद्यावधि प्रयुज्यमानाः विधयः अर्वाचीनविधयः कथ्यन्ते । ते विधयः निम्न लिखितास्सन्ति पाठ्यपुस्तकविधिः -
भारते पाठ्यपुस्तकविधेः समर्थकाः डॉ . वेस्टमहोदया : आसन् तेषां मतानुसार शिक्षणम् ईदृशं स्यात् यत् छात्रः यस्याम् अवस्थायामपि विद्यालय परित्यजेत् तेन अधीतस्य प्रयोजनं लब्धुं शक्यते । अस्मिन् विधौ कक्षास्तरानुसारं विषयवस्तु वर्गीक्रियते । वर्गीकरणमिदं छात्राणां वातावरणे आधारितं भवति । संस्कृतशिक्षणाय निर्मितेषु पाठ्यपुस्तकेषु वर्णमालायाः आरभ्य पदानि , वाक्यानि , अनुच्छेदाश्च भवन्ति । एतेषां पुस्तकानां मुख्योद्देश्यमस्ति यत् छात्राः स्वयमेव अध्ययन कृत्वा सारल्येन संस्कृतस्य ज्ञान प्राप्तुं शक्नुवन्ति । पाठ्यपुस्तकस्य पाठाः एव सम्पूर्णाध्ययनस्य केन्द्रबिन्दवः भवन्ति । मातृभाषया नवीनशब्दानामर्थः स्पष्टीक्रियते । आदर्शवाचनम् , अनुवाचनं , पाठप्रवर्धनमङ्गीकृत्य मौनपाठनं कार्यते । इत्थं कठिन शब्दानामाः , विशेषांशानां विवरणं , मूल्याङ्कनप्रश्नाः , व्याकरणस्य , अनुवादस्य चाभ्यासा : अध्यापकानां कृते सूचनाश्च अन्तर्भवन्ति । गुणाः - 1. अस्मिन् विधौ शिक्षणसूत्राणामनुसरणं पूर्णरूपेण क्रियते अतः विधिरयं मनोवैज्ञानिकोऽस्ति । 2. छात्राणां शब्दकोशस्य वृद्धिकरणे सहायको भवति । 3. सस्वरवाचनेन छात्रेभ्यः शुद्धोच्चारणाभ्यासस्य अवसर : दीयते । 4. पाठ्यपुस्तकद्वारा शिक्षणेन संस्कृतशिक्षणप्रक्रियायां समरूपता , नियमितता च सिद्ध्यति ।
5. अवकाशसमये छात्रः पाठान् स्वयमध्येतुं प्रभवति । 6. छात्रेषु जिज्ञासायाः विकासो भवति । ते सक्रियाः भवन्ति । 7. संस्कृतसाहित्य प्रति अनुरागः प्रादुर्भवति । दोषाः- 1. अस्मिन् विधौ छात्राणां ध्यानं केवलं पाठ्यपुस्तकपर्यन्तमेव सीमितं भवति । ते संस्कृतसाहित्यस्य व्यापकज्ञानाय प्रेरिता : न भवन्ति । 2. छात्राणां शिक्षकाणाञ्च समीक्षात्मकशक्तिः शनैः शनैः लुप्ता भवति । तेषु रटनस्य प्रवृत्तिः आयाति । 3. व्याकरणस्य क्रमबद्धज्ञानस्य अभावो भवति । 4. अयमेकः यान्त्रिकविधिरस्ति । अस्मिन् वाक्यानां वाचनपुरस्सरं मातृभाषायाम् अनुवादः कार्यते , किन्तु पाठस्य मुख्य भावान् अवगन्तुं छात्रैः अवसरः न लभ्यते । प्रत्यक्षविधि : ( Direct Method ) -
विधिरयं सुगनपद्धतिः , निर्बाधविधिः , मातृविधिश्चेति नाम्नाऽपि ज्ञायते । सर्वप्रथमाङ्ग्लभाषाबोधनाय अस्य प्रयोगो दृश्यते । यदा आङ्ग्लीया अस्माकं देशे आगतवन्तः तदारभ्य प्रत्यक्षविधिरपि व्यवहारे आगतः । प्रत्यक्षविधेः तात्पर्यमस्ति यत् या भाषा अध्यापनीया , सा स्वमाध्यमेनैव बोधनीया । यथा- संस्कृतं संस्कृतमाध्यमेन , आङ्ग्लभाषा आङ्ग्लभाषामाध्यमेन । अस्मिन् विधौ ध्येयाः बिन्दवः 1. मौखिकार्यस्य प्रधानता स्यात् । 2. कामपि भाषां बोधयितुं मातृभाषायाः प्रयोगः न करणीयः । 3 , पदपदार्थयो : मिथः साक्षात् सम्बन्धं संस्थाप्य पाठयेत् । संस्कृतशिक्षणे अस्य विधेः प्रयोगः सर्वप्रथमं प्रो . वी.पी. बोकीलमहोदयेन अल्फिन्स्टोननाम्निविद्यालये , मुम्बईनगरे कृतः । ' A New Approach to Sanskrit इत्यस्मिन् पुस्तके प्रो . बोकीलमहाभागेन प्रत्यक्षविधेः उपयोगितायाः वर्णनं सम्यग्रूपेण प्रतिपादितम् । तेन स्वीकृतं यत् भाषाशिक्षणे अयं विधिः अत्युपयोगी अस्ति । अनेन विधिना शिक्षणसमये कक्षायाः परिवेश : संस्कृतमय : स्यात् । अध्यापकैः छात्रैरपि कक्षायां संस्कृतभाषा व्यवहता स्यात् । गुणाः- 1. अयं विधिः भाषाशिक्षणसिद्धान्तानुकूलोऽस्ति । यतो हि अनेन विधिना संस्कृतं संस्कृतमाध्यमेनैव पाठ्यते ।
2. छात्रशिक्षकयो : मध्ये सम्भाषणं प्रचलति अत : ते सक्रिय भवन्ति । 3. श्रवणे- पठने - लेखने - भाषणे च पर्याप्तावसर उपलभ्यते । 4. अयं विधि : संस्कृतशिक्षायाः स्तरोन्नयनाय सहायको भवति । 5. छात्रेषु संस्कृतमाध्यमेन स्वतन्त्ररूपेण स्वविचारान् प्रकटयि कृत क्षमताया : विकासो भवति । दोषाः - 1. अनेन विधिना संस्कृतशिक्षणस्य गतिः मन्दा भवति । 2. प्रतिभाशालिनः छात्रा : उपकृता भवन्ति न तु सामान्याः मन्दाश्न 3. प्राथमिकस्तरे एष अनुपयुक्तो भवति । 4. संस्कृतस्य प्रत्येकं विधायाः कृते तेषां प्रत्येकं सोपानस्य उपयोगी नास्ति । 5. भाषणकौशलस्य प्राधान्यात् अन्यभाषाकौशलानामुपेक्षा भवति । 6. अनेन विधिना शिक्षणाय अधिकसमयस्य शक्तेश्च आवश्यकता भवति । TIGERT 2CGT समाहार_ विधिः -
अयं हरबार्टीयपञ्चपदी ' इत्यस्य विकसितरूपम् वर्तते । अस्मिन् प्रतिसोपानेन सम्बद्धोद्देश्यानां प्राप्तये कक्षायामायोजितक्रियाकलापानां संयोजन कृत्वा मूल्याङ्कनं क्रियते । अनेन छात्र - शिक्षकयोः दृष्ट्या पाठस्य सफलतायाः परीक्षणं भवति । शिक्षणक्षेत्रे उद्देश्यानां व्यवहारगतपरिवर्तनैः सह लेखनं बी.एस. ब्लूममहोदयेन सर्वप्रथमं प्रारब्धम् । शिक्षणोद्देश्यानि तानि अपेक्षितव्यवहारगतपरिवर्तनानि सन्ति यानि शिक्षणस्य माध्यमेन छात्रेषु आनेयानि भवन्ति । इमानि अपेक्षितपरिवर्तनानि व्यवहारस्य त्रिषु पक्षेषु भवन्ति - संज्ञानात्मक - भावात्मक - क्रियात्मक - भेदात् । बी.एस. ब्लूममहोदय : संज्ञानात्मकक्षेत्रस्य विषये , डेविड आर . क्रेथोल महाभागः भावात्मकक्षेत्रस्य विषये , डॉ . ए.जे. हैरो महोदय : मनोगत्यात्मक क्षेत्रस्य विषये कार्यं कृतवन्तः । रॉबर्टमेजर रॉबर्टमिलरइत्यनयोः प्रयासा : अप्युद्देश्यानां निर्धारणे प्रशंसनीयास्सन्ति । मूल्याङ्कनविधौ ज्ञातविषयसामग्र्याः मूल्यनिर्धारणं भवति । मूल्याङ्कन हि विषयवस्त्वाधारेण भवति पूर्वं विषयवस्तुनः मूल्यनिर्धारणम् उद्देश्यानामाधारेण क्रियते अस्मिन् विधौ निम्नलिखितानि सोपानानि अनुस्रियन्ते ( i ) उद्देश्यम् - सर्वप्रथममुद्देश्यानां निर्धारणं क्रियते । ( उद्देश्यानां विस्तृतज्ञानाय पश्यन्तु पञ्चमाध्यायम् ) । ( ii ) व्यवहाररूपम् - निर्धारितोद्देश्यानामाधारण छात्राणां पूर्वज्ञाने कियत्परिवर्तन भविष्यति ? ते कियत्ज्ञानं प्राप्स्यन्ति ? एतस्योल्लेखो भवति । ( iii ) पाठ्यबिन्दुः - पाठानां बिन्दूनां निर्धारणं क्रियते यथा भाषाशिक्षणस्य पाठेषु वाचन , प्रश्नोत्तरं , काठिन्यनिवारणं , सारकथनं , पुनरावर्तनम् इत्यादीनि सम्मिलितानि भवन्ति । ( iv ) शिक्षककार्यम् - विषयवस्तुस्पष्टीकरणाय शिक्षक : काः काः क्रिया : करिष्यति ? केषां केषामुपकरणानां प्रयोगं करिष्यति ? केन विधिना पाठयिष्यति ? एतेश बिन्दूनामुल्लेखोऽस्मिन् क्रियते ।
संस्कृतशिक्षप ( v ) छात्रकार्यम् - प्रत्येकं पाठाय छात्राणामभिप्रेरणाय , तेषां सक्रिय सहभागितायाः कृते ये क्रियाकलापा : निर्धार्यन्ते तेषामुल्लेखः अस्मिन् सोपाने क्रियते । ( vi ) मूल्याङ्कनम् - इदमुद्देश्यनिष्ठशिक्षणस्य एक महत्त्वपूर्ण सोपानमस्ति । प्रतिसोपानं सफलतायाः परीक्षणाय मूल्याङ्कप्रश्नानां रचना क्रियते । पालस्यान्तेऽपि मूल्याङ्कनप्रश्ना : भवन्ति । गुणाः 1. अयं मनोवैज्ञानिकविधिरस्ति यतो हि प्रतिसोपानं मूल्याङ्कन क्रियते । उचितप्रतिक्रियासु छात्रेभ्यः अभिप्रेरणं पुनर्बलनञ्च दीयते । 2. शिक्षकाणां कृते शिक्षणे परिष्काराय मार्गदर्शनं भवति । दोषाः - 1. मूल्याङ्कनोन्मुखिशिक्षणेन शिक्षणे कृत्रिमतायाः समावेशो भवति । 2. सततमूल्याङ्कनेन छात्रा : व्यग्राः भयाक्रान्ताश्च भवन्ति । उपर्युक्तवर्णनेन इदं स्पष्टं भवति यत् प्रत्येकस्मिन् विधौ गुण - दोषाः भवन्ति । कोऽपि विधिः पूर्ण : नास्ति , अतः कक्षायाः स्तरं , विधां , प्रकरणञ्च मनसि निधाय समस्तविधीनां समवायरूपम् अनुसरणीयम् । शिक्षकप्रशिक्षणमहाविद्यालयेषु प्रशिक्षणार्थिनां कृते प्रशिक्षका : ईदृशान् प्रयत्नान् कुर्वन्ति यैः शिक्षणं रुचिकरं सरलञ्च भवेत् । विशेषतः वर्तमानकाले संस्कृतशिक्षणं नवीनतमोपागममाश्रित्य करणीयम् ।। Amarjeet singh chandarvansi (वार्ता) 03:15, 9 जुलाई 2021 (UTC) Amarjeet singh chandarvansi Amarjeet singh chandarvansi (चर्चा) ०७:५६, ९ जुलै २०२१ (UTC)