सदस्यसम्भाषणम्:Duryodhanbehera/प्रयोगपृष्ठम्
विषयः योज्यताम्दिखावट
मम्मटकृतं काव्यस्वरुपम्
काव्यप्रकाशग्रन्थकर्ता मम्मटाचार्यः समन्वयवादी काव्यशास्त्री अस्ति । स निरर्गलं परमतं नहि दूषयति । सूत्ररुपेण स्वप्रतिपाग्यविषयं प्रकाशयति । अतः सर्वेषां पूर्वाचार्याणां काव्यस्वरुपविषयकं मतं समीक्ष्य मम्मटाचार्यः वेदादिशास्त्रोपदेशसमानं विधिनिषेधविकल्पात्मकं सर्वविलक्षणं स्वकीयं काव्यस्वरुपं प्रकाशितवान्- ‘तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि’ इति एतस्य काव्यलक्षणेऽपि कतिचित्पूर्वाचार्यलक्षणसमानं विशेष्यपदं ‘शब्दार्थौ’ एव विद्यते । परं यथा भोजराजकाव्यलक्षणम् – अदोषं, गुणवद्, अलक्ङ्कारैरलङ्कृतं, रसान्वितं काव्यमित्यत्र काव्यविशेषणतया दोषाभावः गुणसद्भावश्व अपेक्षितः, तथा मम्मटकाव्यलक्षणेऽपि स्थितिः । परम् अलङ्कारविषये मम्मटेन सर्वविलक्षणः पक्षः प्रकाशितः । इदमेव मम्मटकाव्यलक्षणस्य वैशिष्ट्यमस्ति । अन्यच्च काव्यात्मभूतः परमसूक्ष्मविषयः काव्यसाररुपः केवलास्वादात्मा सहृदयैकस्वाद्यः रसः मम्मटेन स्वकाव्यलक्षणे साक्षात्पदेन नोपात्तः । आत्मपदार्थः इन्द्रयगोचरो न भवति । तथा चोक्तम्-प्रथमं तु इन्द्रियाण्येव सूक्ष्माणि, तेभ्योऽपि सूक्ष्मं मनः, मनसोऽपि सूक्ष्मा बुद्धिः, बुद्धेरपि परं सूक्ष्मम् आत्मतत्त्वम् (गीता-३/४२)
अदोषौ शब्दार्थौ काव्यम्ः
आदौ तु शब्दार्थौ- शब्दार्थयुगलं काव्यम् । आस्वादव्यञ्जकौ उभावपि शब्दार्थौ सामान्येन भवतः , तथाहि-काव्यं पठितं, श्रुतं, गीतं , रचितम्, इत्यादुषु शब्दस्य पठनं, श्रवणं, गानं, रचनं, काव्यं बुद्धम् इत्यादौ अर्थस्य बोधनम्, अतः उभयोः शब्दार्थयोः काव्यस्वरुपत्वेन ग्रहणम्।
सगुणौ शब्दार्थौ काव्यम्ः
निगुर्णौ शब्दार्थौ न काव्यं भवेदिति वारणाय शब्दार्थयोः सगुणत्वविशेषणम् । काव्यगुणमाधुर्यम् ओजः प्रसादश्च ।यथा दोषाभावता तथैव गुणसद्भावना अपेक्ष्यते । यद्यपि गुणा रसधर्मा यथा आत्मधर्माः शौर्यादयः । आत्मनि सति शौर्यादेः अभिव्यक्तिः अङ्गद्वारा भवत्येव लोके यथा, तथा काव्ये आत्मभूते रमे माधुर्यादिगुणानां वर्णरचनावृत्तिभिः अभिव्यञ्जनं भवति । एवं गुणानां रसैकनिष्ठत्वेऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वं कथ्यते ।
सालङ्कारौ शब्दार्थौ काव्यम्ः
सालङ्कारौ शब्दार्थौ काव्यमिति हृदा मन्वानोऽपि साक्षात्पदेन तथा नोक्तवान् । यथा लोके आभूषणरहितस्य निर्धनस्य मनुजस्यापि मनुजत्वं स्वीक्रियते एव अस्फुटाभूषणजन्यसौन्दर्यस्थित्या चैतन्यावस्थित्या च । तथा वृत्तिग्रन्थेन काव्यप्रकाशकारेण उक्तम्-सर्वत्र सालङ्कारौ शब्दार्थौ एव काव्यमिति । शब्दार्थयोः सालङ्कारत्वविशेषणं न दत्तं काव्यलक्षणे, अपितु अलङ्कारः विकल्पपक्षे निहितः, लोकवत् स्फुटसालङ्कारतास्थितिः काव्ये नहि अनिवार्या करणीय इति मम्मटाभिप्रायः ।
क्वापि अनलङ्कारौ अपि शब्दार्थौ काव्यम्ः
मम्मटेन स्वकाव्यलक्षणे काव्यशरीरभूतयोः शब्दार्थयोः सालङ्कारत्वम् अथवा निरलङ्कारत्वं विशेषणं न दत्तम्, अपितु अलङ्कारस्य विकल्पस्थितिः निहिता- ‘अळङ्कृती पुनः क्वापीति । एवं न दोषवत् निषेधः कृतः, न च गुणवद् विधानं कृतम् ।सदस्यः:Duryodhanbehera/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Duryodhanbehera/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।