सदस्यसम्भाषणम्:Duryodhanbehera/प्रयोगपृष्ठम्
विषयः योज्यताम्दिखावट
मम्मटकृतं काव्यस्वरुपम्
काव्यप्रकाशग्रन्थकर्ता मम्मटाचार्यः समन्वयवादी काव्यशास्त्री अस्ति । स निरर्गलं परमतं नहि दूषयति । सूत्ररुपेण स्वप्रतिपाग्यविषयं प्रकाशयति । अतः सर्वेषां पूर्वाचार्याणां काव्यस्वरुपविषयकं मतं समीक्ष्य मम्मटाचार्यः वेदादिशास्त्रोपदेशसमानं विधिनिषेधविकल्पात्मकं सर्वविलक्षणं स्वकीयं काव्यस्वरुपं प्रकाशितवान्- ‘तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि’ इति एतस्य काव्यलक्षणेऽपि कतिचित्पूर्वाचार्यलक्षणसमानं विशेष्यपदं ‘शब्दार्थौ’ एव विद्यते । परं यथा भोजराजकाव्यलक्षणम् – अदोषं, गुणवद्, अलक्ङ्कारैरलङ्कृतं, रसान्वितं काव्यमित्यत्र काव्यविशेषणतया दोषाभावः गुणसद्भावश्व अपेक्षितः, तथा मम्मटकाव्यलक्षणेऽपि स्थितिः । परम् अलङ्कारविषये मम्मटेन सर्वविलक्षणः पक्षः प्रकाशितः । इदमेव मम्मटकाव्यलक्षणस्य वैशिष्ट्यमस्ति । अन्यच्च काव्यात्मभूतः परमसूक्ष्मविषयः काव्यसाररुपः केवलास्वादात्मा सहृदयैकस्वाद्यः रसः मम्मटेन स्वकाव्यलक्षणे साक्षात्पदेन नोपात्तः । आत्मपदार्थः इन्द्रयगोचरो न भवति । तथा चोक्तम्-प्रथमं तु इन्द्रियाण्येव सूक्ष्माणि, तेभ्योऽपि सूक्ष्मं मनः, मनसोऽपि सूक्ष्मा बुद्धिः, बुद्धेरपि परं सूक्ष्मम् आत्मतत्त्वम् (गीता-३/४२)
अदोषौ शब्दार्थौ काव्यम्ः
आदौ तु शब्दार्थौ- शब्दार्थयुगलं काव्यम् । आस्वादव्यञ्जकौ उभावपि शब्दार्थौ सामान्येन भवतः , तथाहि-काव्यं पठितं, श्रुतं, गीतं , रचितम्, इत्यादुषु शब्दस्य पठनं, श्रवणं, गानं, रचनं, काव्यं बुद्धम् इत्यादौ अर्थस्य बोधनम्, अतः उभयोः शब्दार्थयोः काव्यस्वरुपत्वेन ग्रहणम्।
सगुणौ शब्दार्थौ काव्यम्ः
निगुर्णौ शब्दार्थौ न काव्यं भवेदिति वारणाय शब्दार्थयोः सगुणत्वविशेषणम् । काव्यगुणमाधुर्यम् ओजः प्रसादश्च ।यथा दोषाभावता तथैव गुणसद्भावना अपेक्ष्यते । यद्यपि गुणा रसधर्मा यथा आत्मधर्माः शौर्यादयः । आत्मनि सति शौर्यादेः अभिव्यक्तिः अङ्गद्वारा भवत्येव लोके यथा, तथा काव्ये आत्मभूते रमे माधुर्यादिगुणानां वर्णरचनावृत्तिभिः अभिव्यञ्जनं भवति । एवं गुणानां रसैकनिष्ठत्वेऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वं कथ्यते ।
सालङ्कारौ शब्दार्थौ काव्यम्ः
सालङ्कारौ शब्दार्थौ काव्यमिति हृदा मन्वानोऽपि साक्षात्पदेन तथा नोक्तवान् । यथा लोके आभूषणरहितस्य निर्धनस्य मनुजस्यापि मनुजत्वं स्वीक्रियते एव अस्फुटाभूषणजन्यसौन्दर्यस्थित्या चैतन्यावस्थित्या च । तथा वृत्तिग्रन्थेन काव्यप्रकाशकारेण उक्तम्-सर्वत्र सालङ्कारौ शब्दार्थौ एव काव्यमिति । शब्दार्थयोः सालङ्कारत्वविशेषणं न दत्तं काव्यलक्षणे, अपितु अलङ्कारः विकल्पपक्षे निहितः, लोकवत् स्फुटसालङ्कारतास्थितिः काव्ये नहि अनिवार्या करणीय इति मम्मटाभिप्रायः ।
क्वापि अनलङ्कारौ अपि शब्दार्थौ काव्यम्ः
मम्मटेन स्वकाव्यलक्षणे काव्यशरीरभूतयोः शब्दार्थयोः सालङ्कारत्वम् अथवा निरलङ्कारत्वं विशेषणं न दत्तम्, अपितु अलङ्कारस्य विकल्पस्थितिः निहिता- ‘अळङ्कृती पुनः क्वापीति । एवं न दोषवत् निषेधः कृतः, न च गुणवद् विधानं कृतम् ।
Start a discussion about सदस्यः:Duryodhanbehera/प्रयोगपृष्ठम्
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। सदस्यः:Duryodhanbehera/प्रयोगपृष्ठम् में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।