सामग्री पर जाएँ

सदस्यसम्भाषणम्:Khokanc

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १७:२६, ७ मार्च २०१८ (UTC)

                                             == पुरूषार्थचतुष्टयम् ==

उपक्रम्—

           अस्मिन् संसारे वहवः विषयाः सन्ति । ते पुरूषार्थनाम्ना अविधीयन्ते । फलदृष्ट्या ते च विषया विभक्ताः । केचन् धर्मान्, इतरे अर्थान्, अपरे कामान्, अन्ये परं पुरूषार्थान् प्रतिपादन्ति । चतुर्थस्तु पुरूषार्थेषु धर्मार्थकामाः अनित्याः एवञ्च मोक्षः नित्यम् भवति । 
       धर्मः—
          ‘धृञ्’ धारण-पोषणयोः इत्यस्मात् धातोः ‘मन्’ प्रत्यये कृते धर्मशब्दो निष्पद्यते । अयं धर्मशब्दः धारणार्थं अभिव्यक्ति । धर्मशब्दस्य व्युत्पत्तिः इयं भवति यत्-ध्रियते लोकः अनेन इति धर्मः । धरति धारयति वा लोकं इति धर्मः । ध्रियते लोकः यात्रा निर्वाहार्थं वेति धर्मः । मनुस्मृतौ धर्मस्य दशलक्षणानि विहितानि—
                                 धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
                                 धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।।
       अर्थः—
            चतुर्षु पुरुषार्थेषु द्वितीयपुरुषार्थः भवति अर्थः । धर्मकामयोः मूलम् अर्थः । अर्थस्य आवश्यकता सर्वदा वर्त्तते । यतः सुखस्य कारणं धनम् । धनस्य मूलम् अर्थः । कामान्दकनीतिशास्त्रे दृश्यते यत्—
                                 धर्मात् अर्थो अर्थतः कामः कामात् सुखः फलोदयः ।
                                 आत्मनहन्तितां हत्वा युक्तयो न निसेवते ।।
       कामः—
            ‘काम्यते इति कामः’ इति अनया व्युत्पत्या विषयैः सह इन्द्रियाणां सम्पर्केण उत्पन्नं मानसिक सुखम् एव कामः । त्वक्-जिह्वा-कर्ण-नासिकादि ज्ञानेन्द्रिय पञ्चकैः शब्द-स्पर्श-रूप-रस-गन्धान् विषयान् भूक्ते जीवः । तेन जन्यम् इन्द्रियं सुखं कामः । महाभारते उक्तं यत्—
                                 इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
                                 विषये वर्त्तमानानां या प्रितिः उपजायेत ।।
       मोक्षः—
           चतुर्षु-पुरुषार्थेषु मोक्ष एव चतुर्थः परमः च । तद्यता वेदान्त-परिभाषायाम्-इह खलु धर्मार्थकाममोक्षेषु चतुर्विध पुरुषार्थेषु मोक्ष एव परम पुरुषार्थः । मुच्यते येन सर्वेभ्यः दुःख बन्धनादिभ्यः स मोक्षः इति । अर्थात् यत् पदं जीवः आध्यात्मिकादि दःखेभ्यः विमुक्तो भवति स मोक्षः । मनुस्मृतौ मनुना उक्तम् यत्— ‘जीवः त्रीणिर्णानि अपाकृत्य मनः निवेसयेत्’ इति ।

Start a discussion with Khokanc

Start a discussion
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Khokanc&oldid=431814" इत्यस्माद् प्रतिप्राप्तम्