सामग्री पर जाएँ

सदस्यसम्भाषणम्:MANJUSHREE RAHALKAR

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संवादशाला

[सम्पादयतु]
                           ॐ
                  संवादशाला

संस्कृतच्छात्राणां परिचयः न तेषां वेषेण अपि तु वाण्या भवति । यदि वाण्याः संस्कृतं निस्सरति तर्हि लोके सः स्वयमेव संस्कृतच्छात्रः इति अभिज्ञानं प्राप्नोति । अपि च जनाः तं संकृतच्छात्रः इति परिचिन्वन्ति । इदानीन्तन - संस्कृतशिक्षणे यः अनुवादविधिः प्रचलति ,तस्मात् कारणात् ज्ञानवान् सन् अपि संस्कृतच्छात्रः संस्कृतसम्भाषणे समर्थः न भवति । दैनन्दिन-व्यवहारे वयं यथा सहजतया सरलतया धाराप्रवाहेण च मातृभाषया वार्तालापं कुर्मः,तथैव संस्कृतेन अपि सहजतया सरलतया धाराप्रवाहेण च सम्भाषणं सम्भवम् अस्ति ।

                   लोके शाला इति शब्दः बहुप्रसिद्धः । विभिन्ने अर्थे एतस्य शब्दस्य प्रयोगः भवति । विभिन्नकार्यार्थं लोके शालाः सन्ति । वयं जानीमः एव यत् सम्भाषणार्थं संवादस्य आवश्यकता भवति इति।  सम्भाषणे तु संवादस्य प्राधान्यं भवति । संवादस्य अभ्यासार्थं संस्कृतेन सम्भाषणार्थं चाऽपि एका शाला  देहल्यां प्रचलति। एतस्यां शालायां संस्कृतसंवादस्य प्राधान्यम् अस्ति । अतः एतस्याः शालायाः नाम संवादशाला इति । एतस्यां संवादशालायां  संस्कृतसम्भाषण-यज्ञः निरन्तरं प्रचलति ।  {1999} नवदशशतनवनवतितमात् वर्षात् एषा संवादशाला निरन्तररूपेण प्रचलन्ती अस्ति । अत्र  त्रिपुरा, नागालैण्ड, मिझोरम,अरुणाचलप्रदेशः इत्यादीनि राज्यानि विहाय  भारतदेशस्य अन्येभ्यः सर्वेभ्यः राज्येभ्यः छात्राः संस्कृतानुरागिणः च संवादशालाम् आगत्य भाषाशिक्षणकौशलं प्राप्नुवन्ति । न केवलं भारतात् अपि तु विश्वस्य विभिन्नेभ्यः देशेभ्यः संस्कृतानुरागिणः अत्र आगत्य सम्भाषणशालिनः भवन्ति ।  अत्र छात्राणां स्तरानुगुणं  भिन्नभिन्नगणे अध्ययनं प्रचलति । 
                श्रवणम्, भाषणम्, पठनम्, लेखनम्, च  भाषायाः यानि कौशलानि सन्ति  तेषां कौशलानाम् अत्र विकासः भवति ।  अत्रागत्य  संस्कृतस्य संस्कृतेन पठनं पाठनं च सहजतया सरलतया आकर्षकतया च कथं कर्तुं शक्नुमः इति नूतनां दृष्टिं प्राप्नुवन्ति छात्राः । 
                       संवादशाला  मे- मास- तः फरवरी-मासं यावत्{ MAY + FEBRUARY } निरन्तरं प्रचलति । प्रतिमासे वर्गद्वयं भवति । प्रथमवर्गः –प्रतिमासं प्रथमदिनाङ्कतः चतुर्दशदिनाङ्क-पर्यन्तं प्रचलति ।

द्वितीयवर्गः - प्रतिमासं षोडशदिनाङ्कतः नवविंशतिदिनाङ्क-पर्यन्तं प्रचलति ।

                            वर्गे भागं ग्रहीतुं  वर्गारम्भदिनात्  एकदिनपूर्वं  वर्गस्थानं प्राप्तव्यं भवति ।  संवादशालायां प्रवेश-अर्हता  स्नातककक्षा [शास्त्री / B.A.], स्नातकोत्तरकक्षा [आचार्यM.A.],शोधच्छात्राः [P.H.D.] इत्यादिषु कक्षाषु अध्ययनं कुर्वाणाः छात्राः, संस्कृतशिक्षकाः, शोधकर्तारः, संस्कृतानुरागिणः च अत्र प्रवेशं प्राप्तुं अर्हन्ति । मनः बुद्धिः च अध्ययने योजनाय छात्राः वर्गे जङ्गमवाण्याः प्रयोगं न कुर्वन्ति । अपि च वर्गनियमानां पालनं कुर्वन्तः सर्वेऽपि छात्राः चतुर्दशदिनानि यावत् सम्भाषणरूपि-यज्ञशालायाम् एतस्यां संवादशालायां स्वस्य ज्ञानवर्धनं कुर्वन्तः भाषासौष्ठवं सम्भाषणकौशलं च सम्पादयन्ति ।