सामग्री पर जाएँ

सदस्यसम्भाषणम्:NR Naik

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०९:०८, १२ जुलै २०२१ (UTC)उत्तर दें

प्रजातन्त्रीयशिक्षा तद्गुणाञ्च

[सम्पादयतु]

प्रजातंत्रीयशिक्षा तद्गुणाञ्च : शिक्षा :-

मानवस्य जन्मजातशक्तीनां विकास: तथा तस्य ज्ञान-कलाकौशलस्य बुद्धि: उत व्यवहारेषु परिवर्तनं यया माध्यमेन भवति, सा “शिक्षा” इति भवति।शिक्षया मानव:सभ्य-संस्कृतयोग्यनागरिक: भवति। अर्थात् बालकस्य सर्वाङ्गीण विकास: भवति।

प्रजातन्त्रीय शिक्षा :- प्रजातन्त्रीयव्यवस्था सदा जनमङ्गलाय कार्यं करोति। प्रजातन्त्रं समाधिकारस्य समस्वतन्त्रतायाश्च सिद्धांतानां उपरि आधारितं भवति। प्रजातन्त्रं एका प्रगतिशीलविचारधारा भवति। इयं व्यवस्था शिक्षाया: उपरि अपि आगच्छति। तस्य हेतो: प्रजातन्त्रीयशिक्षा सामाजिककार्येषु तथा सम्बन्धेषु व्यक्तिगतरूचीणां उत्पन्नं कर्तुं अर्हति, मानसिकाभ्यासानां अपि निर्माणं करोति ।

प्रजातन्त्रस्य चतुरुपादानं वर्तते। यथा- * भूखन्ड: * प्रजा * सर्वकार: * संप्रभुत्वं ।
परिभाषा :-
  • डेविड ग्रिबल् महोदयानुसारेण “प्रजातान्त्रिकशिक्षा सा शिक्षा भवति, यत्र शिक्षक: शिक्षार्थी च एकत्र समानरूपेण कार्यं कुरुत:।“ इति।
  • याकोव हेचतो महोदयानुसारेण “प्रजातान्त्रिकशिक्षा सम्मान-सहिष्णुता-स्नेहस्य च उपरि आधारिता भवति।“ इति।

प्रजातन्त्रीयशिक्षाया: उद्देश्यानि –

  • व्यक्तित्वस्य सर्वाङ्गीण विकास: ।
  • व्यवसायिककुशलताया: विकास: ।
  • प्रजातान्त्रिकमूल्यानां विकास:।
  • उत्तमाभ्यासानां तथा रुचिणां विकास: ।
  • सामाजिक विकास:।
  • राष्ट्रीयस्य उत अन्तराष्ट्रीयभावनानां विकास:।

पाठ्यक्रम: :-

  • प्रजातन्त्रीयशिक्षाया: पाठ्यक्रम: विस्तृतं, वहुमुखी च भवेत् ।
  • एतस्या: पाठ्यक्रमे विविधता स्यात्, तस्य हेतो: विद्यार्थी स्वस्य रुचि-अभिरुचि-योग्यता-क्षमता-बुद्धि आवश्यकतानुसारं विषयानां चयनं कर्तुं शक्नोन्ति ।
  • अस्यां शिक्षायां पाठ्यक्रमस्य निर्माणं स्थानीयसाधनानां आवश्यकतानां च आधारस्योपरि कुर्यात् ।
  • सामाजिकक्रियाणां उपरि वलं दीयते तथा व्यवसायिकावश्यकताम् आधारितं भवेत् ।

शिक्षणविधि: :-

  • स्वस्य अनुभवेन छात्रा: शिक्षणं कुर्वन्ति ।
  • प्रश्नोत्तरविधि:।
  • विचारविमर्शविधि:।
  • वाद-विवादविधि:।

प्रजातन्त्रीयशिक्षायां शिक्षक: सहयोगानुकूलं भवेत्। छात्रं प्रति तस्य सहानुभूतिभाव: भवेत्। स: सहनशीलता,स्नेहादिगुणयुक्त: स्यात्।

प्रजातन्त्रीयशिक्षाया: गुणा: -:

   प्रजातान्त्रिकिक्षा एका शैक्षिकी आदर्श: भवति, यत्र प्रजातन्त्रस्य एक: लक्ष्य: तथा शिक्षाया: विधय: वर्तन्ते। तस्या: गुणेषु मध्येषु निम्नलिखिता: विन्दव: सन्ति ।

• स्वतन्त्रता : लोकतांत्रिकनागरिताया: निर्माणं निमित्तं, छात्रा: स्वस्य अधिकारस्य प्रयोगं कुर्वन्ति । स्वस्य शैक्षिकमार्गे स्वायत्ततां स्थापनस्य क्षमतां नियन्त्रणक्षमतामादि शैक्षिकावश्यकतानां पूरणार्थं इयं शिक्षा आवश्यकी भवति।

• सक्रियप्रतिभागी : शिक्षणप्रक्रियायां छात्रान् सक्रियप्रतिभागीरूपेण इयं शिक्षा पश्यति । यं छात्रं निकषा स्वकीयस्य कौशलानि रुचय: च सन्ति तं छात्रं अग्रे बर्द्धितुं मार्गदर्शनं करोति ।अत: छात्रेभ्य: निर्मित्तं समस्यासमाधानं, रचनात्मकं वाद-विवाद:,महत्वपूर्णचिन्ताशक्ति:, सहयोग:, समूहकार्यं आदीनां कौशलशिक्षणानाम् आवश्यकतां वर्तते ।

• समग्रशिक्षा : लोकतान्त्रिकशिक्षा छात्रान् अन्यसंस्कृतीनां विषये ज्ञानम् अववोधनं च, अविभाज्याधिकारेभ्य: रक्षाकरणार्थं प्रतिबद्घतां विकसितम् अवसर: प्रदानं करोति। एतेन छात्राणां दृष्टिकोणस्य विस्तारं भवति ।

• समानता : अस्यां शिक्षायां शिक्षक: शिक्षार्थी च परस्परेण सह समरूपेण कार्यं करोति । प्रजातन्त्रीयशिक्षा सम्मान-सहिष्णुता-विचारविमर्शस्योपरि आधारिता भवति ।इयं शिक्षा नियमं परम्परां विश्वासस्य स्वतन्त्रं अभिव्यञ्जकसंवादं च विना उत्पत्ति:भवति ।

• उत्तमनागरिकस्य निर्माणं : छात्रा: विद्यालयशिक्षया सह संप्रति सामाजिकघटनाभि: विवादभि: च सह राजनीतिविषयानां उपरि चर्च्चां कृत्वा एक: विचारशीलनागरिकरूपे संवादशिक्षणं कुर्वन्ति । रचनात्मकप्रवचने अंशग्रहणं कुर्वन्ति । प्रजातान्त्रिकप्रणाल्याम् असहमतिं स्वीकारं कुर्वन्ति। एतदर्थं स्वतन्त्रस्य विचारशीलविनिमयस्य आवश्यकतां अस्ति । इयं शिक्षा सर्वेभ्य: हितकारीछात्रेभ्य:, अभिभावकेभ्य:, शिक्षकेभ्य:, कर्मचारिभ्य: प्रशासकेभ्यश्च गम्भीरचिन्तनार्थं, सक्रियरूपेण श्रवणार्थं व्यक्तिगतविश्वासव्यक्तकरणार्थं एकं मञ्चं प्रदायति ।

• छात्राणां निर्णयकरणशिक्षणं : विषयस्य निर्णयकरणार्थं छात्रा: प्रशिक्षिता: भवन्ति तथा तदनुरूपं निर्णयं कुर्वन्ति । कक्षाया: कार्यक्रम: मुख्यत: वाद-विवादनिमित्तं भवति ।इयं शिक्षा छात्रेभ्य: शशैक्षिकयोजनाक्षेत्रेषु अन्येषु कार्यक्रमक्षेत्रेषु विद्यालयाय निमित्तं निर्णयकरणार्थं वास्तविकशक्तिं प्रदानं करोति ।

• स्वामित्वभावना : लोकतांत्रिकशिक्षाया: महत्त्वपूर्णं लाभं छात्राणां स्वामित्वं भवति । यदा छात्र: स्वस्य इच्छाया: स्वामी भवति, तदा स: उत्तमकार्यनिमित्तम् अधिकं व्यस्तं भवति ।वलपूर्वकं को£पि कार्यं न स्यात् । स्वामित्वभावनाया: हेतो: एव स: सुकार्यं कर्तुं अधिक: समर्थ: भवति । NR Naik (चर्चा) १०:३६, १२ जुलै २०२१ (UTC)उत्तर दें

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:NR_Naik&oldid=460854" इत्यस्माद् प्रतिप्राप्तम्