सदस्यसम्भाषणम्:NR Naik
विषयः योज्यताम्
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि
|
-- ॐNehalDaveND•✉•✎ ०९:०८, १२ जुलै २०२१ (UTC)
प्रजातन्त्रीयशिक्षा तद्गुणाञ्च
[सम्पादयतु]प्रजातंत्रीयशिक्षा तद्गुणाञ्च : शिक्षा :-
मानवस्य जन्मजातशक्तीनां विकास: तथा तस्य ज्ञान-कलाकौशलस्य बुद्धि: उत व्यवहारेषु परिवर्तनं यया माध्यमेन भवति, सा “शिक्षा” इति भवति।शिक्षया मानव:सभ्य-संस्कृतयोग्यनागरिक: भवति। अर्थात् बालकस्य सर्वाङ्गीण विकास: भवति।
प्रजातन्त्रीय शिक्षा :- प्रजातन्त्रीयव्यवस्था सदा जनमङ्गलाय कार्यं करोति। प्रजातन्त्रं समाधिकारस्य समस्वतन्त्रतायाश्च सिद्धांतानां उपरि आधारितं भवति। प्रजातन्त्रं एका प्रगतिशीलविचारधारा भवति। इयं व्यवस्था शिक्षाया: उपरि अपि आगच्छति। तस्य हेतो: प्रजातन्त्रीयशिक्षा सामाजिककार्येषु तथा सम्बन्धेषु व्यक्तिगतरूचीणां उत्पन्नं कर्तुं अर्हति, मानसिकाभ्यासानां अपि निर्माणं करोति ।
प्रजातन्त्रस्य चतुरुपादानं वर्तते। यथा- * भूखन्ड: * प्रजा * सर्वकार: * संप्रभुत्वं । परिभाषा :-
- डेविड ग्रिबल् महोदयानुसारेण “प्रजातान्त्रिकशिक्षा सा शिक्षा भवति, यत्र शिक्षक: शिक्षार्थी च एकत्र समानरूपेण कार्यं कुरुत:।“ इति।
- याकोव हेचतो महोदयानुसारेण “प्रजातान्त्रिकशिक्षा सम्मान-सहिष्णुता-स्नेहस्य च उपरि आधारिता भवति।“ इति।
प्रजातन्त्रीयशिक्षाया: उद्देश्यानि –
- व्यक्तित्वस्य सर्वाङ्गीण विकास: ।
- व्यवसायिककुशलताया: विकास: ।
- प्रजातान्त्रिकमूल्यानां विकास:।
- उत्तमाभ्यासानां तथा रुचिणां विकास: ।
- सामाजिक विकास:।
- राष्ट्रीयस्य उत अन्तराष्ट्रीयभावनानां विकास:।
पाठ्यक्रम: :-
- प्रजातन्त्रीयशिक्षाया: पाठ्यक्रम: विस्तृतं, वहुमुखी च भवेत् ।
- एतस्या: पाठ्यक्रमे विविधता स्यात्, तस्य हेतो: विद्यार्थी स्वस्य रुचि-अभिरुचि-योग्यता-क्षमता-बुद्धि आवश्यकतानुसारं विषयानां चयनं कर्तुं शक्नोन्ति ।
- अस्यां शिक्षायां पाठ्यक्रमस्य निर्माणं स्थानीयसाधनानां आवश्यकतानां च आधारस्योपरि कुर्यात् ।
- सामाजिकक्रियाणां उपरि वलं दीयते तथा व्यवसायिकावश्यकताम् आधारितं भवेत् ।
शिक्षणविधि: :-
- स्वस्य अनुभवेन छात्रा: शिक्षणं कुर्वन्ति ।
- प्रश्नोत्तरविधि:।
- विचारविमर्शविधि:।
- वाद-विवादविधि:।
प्रजातन्त्रीयशिक्षायां शिक्षक: सहयोगानुकूलं भवेत्। छात्रं प्रति तस्य सहानुभूतिभाव: भवेत्। स: सहनशीलता,स्नेहादिगुणयुक्त: स्यात्।
प्रजातन्त्रीयशिक्षाया: गुणा: -:
प्रजातान्त्रिकिक्षा एका शैक्षिकी आदर्श: भवति, यत्र प्रजातन्त्रस्य एक: लक्ष्य: तथा शिक्षाया: विधय: वर्तन्ते। तस्या: गुणेषु मध्येषु निम्नलिखिता: विन्दव: सन्ति ।
• स्वतन्त्रता : लोकतांत्रिकनागरिताया: निर्माणं निमित्तं, छात्रा: स्वस्य अधिकारस्य प्रयोगं कुर्वन्ति । स्वस्य शैक्षिकमार्गे स्वायत्ततां स्थापनस्य क्षमतां नियन्त्रणक्षमतामादि शैक्षिकावश्यकतानां पूरणार्थं इयं शिक्षा आवश्यकी भवति।
• सक्रियप्रतिभागी : शिक्षणप्रक्रियायां छात्रान् सक्रियप्रतिभागीरूपेण इयं शिक्षा पश्यति । यं छात्रं निकषा स्वकीयस्य कौशलानि रुचय: च सन्ति तं छात्रं अग्रे बर्द्धितुं मार्गदर्शनं करोति ।अत: छात्रेभ्य: निर्मित्तं समस्यासमाधानं, रचनात्मकं वाद-विवाद:,महत्वपूर्णचिन्ताशक्ति:, सहयोग:, समूहकार्यं आदीनां कौशलशिक्षणानाम् आवश्यकतां वर्तते ।
• समग्रशिक्षा : लोकतान्त्रिकशिक्षा छात्रान् अन्यसंस्कृतीनां विषये ज्ञानम् अववोधनं च, अविभाज्याधिकारेभ्य: रक्षाकरणार्थं प्रतिबद्घतां विकसितम् अवसर: प्रदानं करोति। एतेन छात्राणां दृष्टिकोणस्य विस्तारं भवति ।
• समानता : अस्यां शिक्षायां शिक्षक: शिक्षार्थी च परस्परेण सह समरूपेण कार्यं करोति । प्रजातन्त्रीयशिक्षा सम्मान-सहिष्णुता-विचारविमर्शस्योपरि आधारिता भवति ।इयं शिक्षा नियमं परम्परां विश्वासस्य स्वतन्त्रं अभिव्यञ्जकसंवादं च विना उत्पत्ति:भवति ।
• उत्तमनागरिकस्य निर्माणं : छात्रा: विद्यालयशिक्षया सह संप्रति सामाजिकघटनाभि: विवादभि: च सह राजनीतिविषयानां उपरि चर्च्चां कृत्वा एक: विचारशीलनागरिकरूपे संवादशिक्षणं कुर्वन्ति । रचनात्मकप्रवचने अंशग्रहणं कुर्वन्ति । प्रजातान्त्रिकप्रणाल्याम् असहमतिं स्वीकारं कुर्वन्ति। एतदर्थं स्वतन्त्रस्य विचारशीलविनिमयस्य आवश्यकतां अस्ति । इयं शिक्षा सर्वेभ्य: हितकारीछात्रेभ्य:, अभिभावकेभ्य:, शिक्षकेभ्य:, कर्मचारिभ्य: प्रशासकेभ्यश्च गम्भीरचिन्तनार्थं, सक्रियरूपेण श्रवणार्थं व्यक्तिगतविश्वासव्यक्तकरणार्थं एकं मञ्चं प्रदायति ।
• छात्राणां निर्णयकरणशिक्षणं : विषयस्य निर्णयकरणार्थं छात्रा: प्रशिक्षिता: भवन्ति तथा तदनुरूपं निर्णयं कुर्वन्ति । कक्षाया: कार्यक्रम: मुख्यत: वाद-विवादनिमित्तं भवति ।इयं शिक्षा छात्रेभ्य: शशैक्षिकयोजनाक्षेत्रेषु अन्येषु कार्यक्रमक्षेत्रेषु विद्यालयाय निमित्तं निर्णयकरणार्थं वास्तविकशक्तिं प्रदानं करोति ।
• स्वामित्वभावना : लोकतांत्रिकशिक्षाया: महत्त्वपूर्णं लाभं छात्राणां स्वामित्वं भवति । यदा छात्र: स्वस्य इच्छाया: स्वामी भवति, तदा स: उत्तमकार्यनिमित्तम् अधिकं व्यस्तं भवति ।वलपूर्वकं को£पि कार्यं न स्यात् । स्वामित्वभावनाया: हेतो: एव स: सुकार्यं कर्तुं अधिक: समर्थ: भवति । NR Naik (चर्चा) १०:३६, १२ जुलै २०२१ (UTC)