सामग्री पर जाएँ

सदस्यसम्भाषणम्:Omkaar rathore

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०८:३७, १२ जुलै २०२१ (UTC)उत्तर दें

स्किनरस्य क्रियाप्रसूत – अनुबन्धनम्

[सम्पादयतु]

स्किनरस्य क्रियाप्रसूत – अनुबन्धनम्

भूमिका ' क्रिया - प्रसूतानुबन्धनम् ' यत् आङ्ग्ले ' ऑपरेण्ट - कण्डिशनिङ्ग इतिनाना कथ्यते , प्रसिद्धस्य अमेरिकन - मनोवैज्ञानिकस्य प्रोफेसर बी.एफ्.स्किनरस्य उपायनं वर्तते । एतादृशस्य अनुबन्धनस्य अन्तर्गत कश्चन अपेक्षाकृतं स्वतन्त्रपर्यावरणस्य सन्दर्भ प्रबलनस्य समुचितानुप्रयोगेण प्राणिनः व्यवहारस्य नियन्त्रणं क्रियते । आङ्ग्लस्य ' ऑपरेण्ट एवं च हिन्द्या रूपान्तरितं ' क्रियाप्रसूत ' इति पदं परिभाषयितुम् एतत् कथयितुं शक्यते यत् एतेषु तासाम् अनुक्रियाणां समूहः अथवा कार्याणां सञ्चः निहितो वर्तते ये च प्रायेण सदृशपरिणामानां माध्यमेन नियन्त्रिताः क्रियन्ते । एतस्य उदाहरणानि सन्ति : खादन संभाषणं कस्मिंश्चित् विषये विचारणादिकञ्च । अन्यशब्देषु ' ऑपरेण्ट ' इति व्यवहारस्य समानार्थकं मन्तुं शक्यते , किन्तु एतत् एतादृशस्य व्यवहारस्य सूचक न वर्तते यस्मिन् ज्ञातोद्दीपकस्य माध्यमेन अनुक्रिया उद्दीमा भवति । अस्य मुख्य विशेषता इयं वर्तते यत् एतत् कस्यचित् पर्यावरणस्य सन्दर्भ प्राणिनः संक्रियाद्वारा व्यक्तीभूय काञ्चन निश्चितान् परिणामान् जनयति । एतत् उद्दीप्तं न भूत्वा उत्सर्जितं ( emitted ) भवति । येन केनापि विशिष्टोद्दीपकस्य माध्यमेन उत्पन्न क्रियायाः उपरि बलं न प्रदीयते । 6.2 क्रिया - प्रसूत - अनुबन्धनेन तात्पर्यम्  ) पवलोवियनानुबन्धन - विषये अस्माभिः एतत् दृष्टं यत् द्वयोः उद्दीपकयोः साहचर्येण अथवा युग्मनेन प्राणिनि अनुबन्धितानुक्रियायाः उत्पन्नकरणस्य क्षमता विकसिता भवति । इयं सम्पूर्णा प्रक्रिया एकप्रकारेण सक्रिया अभूत्वा निष्क्रिया भवति । ' क्रिया - प्रसूत - अनुबन्धनम् ' इत्यस्मिन् प्राणिनः क्रिया एवं च ततः उत्पन्नाः परिणामाः अत्यन्तं महत्त्वपूर्णाः मन्यन्ते । एतदन्तर्गतं प्राणी सक्रियो भूत्वा अनुक्रियां कर्तुं बाध्यः क्रियते तथा च तया अनुक्रियया प्रसूतपरिणामानाम् अनुसारं तस्य दृढीकरणं क्रियते । स्वीयपरिवारस्य अनौपचारिकप्रसङ्गेषु भवद्भिः दृष्टं स्यात् यत् बालकः कश्चित् नवागन्तुकं नमस्ते इति करोति तथा च भवान् तस्य माता उत पिता इति स्तरेण तस्य एवं व्यवहारेण मुग्धो भूत्वा आस्पर्शनं तथा च पृष्ठे मृदुतया ताडयन्ति । सः भविष्ये अपि ' नमस्ते ' इति अनुक्रियां शिक्षते । अत्र ध्यातव्यं भविष्यति यत् सर्वप्रथमम् ‘ अनुक्रिया ' इतिरूपेण बालकेन ' नमस्ते ' कथनं तदुपरान्तं तस्य परिणामः यथा मात्रा पित्रा वा आस्पर्शनं करतलेन मृदुतया पृष्ठभागे ताडनम् अत्यन्तम् आवश्यकं मन्यते । एवं नबीनानुक्रियाणाम् अधिग्रहणस्य प्रक्रिया एव ' क्रिया - प्रसूत - अनुबन्धनम् ' इति नाम्रा अभिज्ञायते । अस्याः धारणायाः सम्बन्धे विस्तृतज्ञानम् अग्रे प्रदत्तं वर्तते । स्किनरदृष्ट्या अधिकांशः मानवीयव्यवहारः ' क्रिया - प्रसूत - प्रबलनम् ' परिणामः मन्तव्यः । तस्यानुसारं वयं जीवनस्य प्रत्येकस्मिन् क्षेत्रे विशेषतः शिक्षणस्य एवं च प्रशिक्षणस्य अन्तर्गतं व्यक्तेः व्यवहारे परिवर्तनानयनाय नवीनानुक्रियाणां सम्भावनानां वर्धनाय ' प्रबलपरिणामानां व्यवस्था क्रियते । स्किनरः अयं मनुते यत् " प्राणिना स्वयम् अथवा बाह्यवस्तूनां तथा च बाह्यतत्त्वानां सन्दर्भे व्यक्तं तस्य सम्पूर्णा तथा चक्षमतायाः आंशिकगतिं व्यवहारः इति कथनीयः वर्तते । " 18 एतत् एव कारणं यत् असो व्यवहारस्य व्याख्यायाः अथवा तस्य भविष्यकथनस्य विषये कस्यचित् सिद्धान्तस्य प्रयोगकरणस्य पक्षे न वर्तते । क्रिया - प्रसूतः एवं च नैमित्तिकानुबन्धनम् अधिगममनोविज्ञानस्य प्रयोगात्मकसाहित्यस्य विलोकनेन एतत् ज्ञातं भविष्यति यत् ' क्लासिकी ' क्रिया - प्रसूतः ( ऑपरेण्ट ) तथा च नैमित्तिक ( इन्स्टुमेण्टल ) -अनुबन्धनस्य विधिषु धारणासु च पर्याप्तम् अन्तरं वर्तते । क्लासिकी अथवा उद्दीपकप्रसूत - अनुबन्धने प्रयोगकर्तुः अधीनं ज्ञातोद्दीपकस्य माध्यमेन विश्वस्तरूपेण अनुक्रिया उत्पन्ना भवति । तथा च एकस्य उद्दीपकस्य अपरेण उद्दीपकेन सह युग्मनं महत्त्वपूर्णं भवति । अस्यां सम्पूर्णायां परिस्थिती अनानुबन्धितोद्दीपकस्य अनुबन्धितोद्दीपके हस्तान्तरणं साहचर्यात्मकसंयोजनस्य माध्यमेन सम्पन्नं भवति । नैमित्तिकानुबन्धनस्य अन्तर्गतम् अधिगमकर्ता प्राणिनः व्यवहारः रूपये सीमितः क्रियते । प्रथमः, अधिगमकर्ता एतादृश्यां परिस्थितौ स्थाप्यते यत्र तेन अनुक्रियायाः उत्पत्रकरणस्य स्वतन्त्रता उपकरणम् अथवा स्पष्टतया निर्दिष्टविकल्पानां माध्यमेन सीमितो जायेत । द्वितीयः , अधिगमप्रक्रियायाः अध्ययनं प्रयोगकर्तृभिः आयोजितप्रयासाणां माध्यमेन क्रियते । एवं प्रयोगकर्ता प्राणिनं कस्याञ्चित् विशेषपरिस्थिती स्थाप्यते , तस्मै प्रदत्तविकल्पेषु कस्यचित् एकस्य चयनाय अवसरः प्रदीयते । चितानां विकल्पानामनुसारं तस्मै प्रबलनं प्रददाति तथा च अनुक्रियायाः आधारेण प्रयासस्य परिसमाप्तिं करोति। एतत् विपरीतं क्रिया-प्रसूत -अनुबन्धने प्राणिना स्वीयेच्छानुसारम् अनुक्रियोत्पन्नकरणस्य स्वतन्त्रता भवति । अत्र स्मरणीयं भविष्यति यत् प्रयोगकर्ता प्राणिनः व्यवहारं प्रबलनस्य अनुप्रयोगेण नियन्त्रितं करोति । एवं यथा पूर्वमेव इङ्गितं कृतं वर्तते यत् क्रिया - प्रसूत - अनुबन्धनस्य अन्तर्गत प्राणिनः व्यवहारः उत्सर्जः भवति न तु उद्दीपः नैमित्तिकानुबन्धने प्राणिनः प्रयासस्य प्रारम्भिकतां प्रयोगकर्ता निर्धारयति । तथा च तस्य अन्तं प्राणी स्वयं यद्यपि क्रिया - प्रसूत - अनुबन्धने प्रयासस्य प्रारम्भः तथा च अन्तः द्वयमपि प्राणिषु आश्रितो भवतः । अतः इयं प्रक्रिया अधिगमका प्राणिना नियन्त्रिता ' मन्यते । अग्रे प्रदत्ते आरेखे नैमित्तिकानुबन्धनस्य प्रक्रिया प्रदर्शिता वर्तते , यत् मूलतः क्रिया प्रसूतानुबन्धनस्य प्रणालेः परिसूचकः वर्तते : अनुक्रियायाः पश्चात् भोजनम् अर्थात् पुरस्कार ( प्रबलनस्य ) प्राप्तिः जायते तर्हि भविष्ये अपि अस्याः अनुक्रियायाः घटनस्य सम्भावना संवर्धयिष्यते । एतादृशाय शिक्षणाय नैमित्तिकानुबन्धनस्य अथवा चयनात्मकाधिगमस्य (संज्ञा प्रदीयते ।

क्रिया – प्रसूतानुबन्धनम् एवं च तस्य प्रक्रियात्मक प्रकारता

      क्रियाप्रमूतानुबन्धनं किञ्चन एतादृशी प्रक्रिया वर्तते यस्याः माध्यमेन अधिगमकर्ता प्राणिनं विभेदकोद्दीपकस्य ( discrimination stimulus ) उपस्थिती अथवा अनुपस्थिती सकारात्मकस्थ ( positive) अथवा नकारात्मकस्य ( negative ) प्रबलनस्य अनुप्रयोगं कुर्वन् कल्याचित् अनुक्रियायाः उत्पन्नकरणम् अथवा अवरोधन शिक्ष्यते । एवं प्रकारेण एतत् कथयितुं शक्यते यत् अस्याः अन्तर्गत सकारात्मक – प्रबलनं यथा : पुरस्कारः प्रशंसा प्रोत्साहनम् एवं च फलप्रात्यादिकम् अथवा नकारात्मक प्रबलनं यथा : दण्डः तर्जनं भर्त्सना अवमाननादिकं च व्यवहाराशोधनाय अथवा अनुक्रियानियन्त्रणाय महत्त्वपूर्णप्रविधिरूपेण स्वीक्रियते । वयं स्वानुभवः अपि जानीमः यत् व्यक्तिः पारितोषिक – प्रशंसा – यशवृद्ध्यादीनां प्राप्तये एवं च दण्ड – उपहास – अपमानजनकपरिस्थितिभ्यः रक्षितुं न जाने किं किं न करोति । एते व अपि प्रकारके प्रबलने विभेवकोद्दीपकस्य उपस्थिती अथवा अनपस्थिती प्रयुक्ते भवितुं शक्तः । एतदतिरिक्तम् अनुक्रिया अपि भागद्वये विभक्तुं शक्यते । प्रथमः , सकारात्मकानुक्रिया या प्राणी उत्पन्नां करोति तथा च द्वितीयः , नकारात्मकानुक्रिया यस्यां व्यक्तिः कमपि अवाञ्छनीय व्यवहार न उत्पन्नं कृत्वा अवरुद्धकरणाय सचेष्टो भवति । उपर्युक्तदृष्टिभिः क्रिया – प्रसूतानुबन्धनस्य अष्टमूलभूताः प्रतिक्रियाः परिभाषिताः कृताः वर्तन्ते , यासु अनेकप्रयोगाः अभिकल्पिताः अभूवन् । एते तालिकायां प्रदर्शिताः सन्ति ।एतासाम् अष्टी मूलभूतप्रक्रियाणां विषये संक्षिप्त विवरणम् अग्रे प्रस्तुतं वर्तते । 

( अ ) पुरस्कारप्रशिक्षणम् ( Reward Training ) – यदा प्रबलनसहकेतस्य अनुपस्थिती कस्यचित् पुरस्कारस्य प्राप्तिः विशेषानुक्रियायाः उत्पत्ती आबिता भवति तदा एतादृशं क्रिया – प्रसूत – अनुबन्धन पुरस्कारप्रशिक्षणम् ‘ इति नाना जायते । उदाहरणार्थम् पण्टाद्वये प्रतिदिनं प्रस्तरखण्डनेन ( 12 / - ) द्वादशरूप्यकाणि दैनिक पारिश्रमिकं लप्यते , षट्कालांशं यावत् प्रतिदिन पाठनेन शिक्षकाय 1200 / रूप्यकाणि मासिक वेतनं लप्यते , लीवरे अधिकबलप्रदानेन मूषकाय खाद्यप्राप्तिः एवं च नलस्य चक्रभामणेन जलावास्यादिकम् । एतादृशैः अन्यैः उदाहरणः वयं सुपरिचिताः स्मः अत्र ध्यातव्यं भविष्यति यत् पुरस्कारस्य स्वरूपं भौतिकम् अभौतिकं वा यथा : प्रोत्साहनं , प्रशंसा , संस्कृतिः च इत्यं भवितुं शक्नोति ।

( ब ) अकर्मप्रशिक्षणम् ( Omission Training ) यदा प्रबलनसंकेतस्य अनुपस्थिती कस्यचित् पुरस्कारय प्राप्तिः निश्चितानुक्रियायाः अवरोधने आथिता भवति तदा तत् ‘ अकर्मप्रशिक्षणम् ‘ इत्युच्यते । उदाहरणार्थ परिवारे माता बालकाय कथायाः कवितायाः च पुस्तकं तदा ददाति यदा सः चिरं शयनस्य अभ्यास परित्यजति अथवा कक्षा – शिक्षणकाले अध्यापकः तस्मिन् समये कक्ष्यायाः छात्राणां प्रशंसां करोति यदा ते विषयान्तरवाती समापयन्ति । 

( स ) पलायनप्रशिक्षणम् ( Escape Training ) – यदा प्रबलनसकेतस्य अनुपस्थिती कस्याश्चित निश्चितानुक्रियायाः उत्पत्ती अपवर्तिनः उद्दीपकात ( acersive stimulus ) अथवा दण्डात्मकस्थितेः मुक्तिः प्राप्येत् तदा इयं प्रक्रिया पलायनप्रशिक्षणम् इति नाम्मा जायते । कक्षायां छात्रैः सामान्यतः उत्तमव्यवहारप्रदर्शनाय शिक्षकस्य रोषात् रक्षणम् अथवा परिवारे बालेन स्वीयकार्य स्वयं करणेन मातुः कोपभाजस्य न भवनम् एतादृशस्य प्रशिक्षणस्य विधयः सन्ति । ( द ) दण्डप्रशिक्षणम् – यदा प्रबलनसंकेतस्य अनुपस्थितौ कस्याश्वित् निश्चितक्रियायाः अवरोधनेन दण्डात् मुक्तिः प्राप्येत् तदा इयं प्रक्रिया ‘ दण्डप्रशिक्षणम् ‘ कथ्यते । उदाहरणार्थ कक्ष्यायाम् एतत् कथन यत् यदि कोलाहलं करिष्यन्ति तर्हि कक्षायाः बहिः निष्कासन भविष्यति तथा च एवं छात्राः कोलाहलस्य स्थितेः अवरोधं कृत्वा कक्षायाः बहिः निष्कासनस्य परिस्थितेः रक्षिताः भवन्ति । स्वस्य मित्रेभ्यः एतत् कथनं यत् यदि पत्राणां समयेन उत्तर न दास्यन्ति तर्हि रोपभाजः भविष्यन्ति इत्यादयः दण्डप्रशिक्षणस्य विधयः सन्ति ।

( य ) विमेवनप्रशिक्षणम् -यचा प्रवलनसंकेतस्य उपस्थिती पुरस्कारस्य प्राप्तिः अनुक्रियायाः उत्पत्ती आथिता भवति तदा इय अवस्था विभेदनप्रशिक्षणम् ‘ इति नाम्ना कथयते । उदाहरणार्थम् प्रयोगशालायां प्रकाशस्थिती मूषकेण लीवरनोदनं तथा च वाद्यपदार्थाना प्राप्तिकरणम् अथवा कक्ष्यायां परीक्षातिथेः घोषणेन छात्रः शिक्षकस्य वार्तानाम् अवधानेन धवणं येन च परीक्षायाम् उत्तमानाम् अङ्काना प्राप्तिः जायेत – विभेदनप्रशिक्षणस्य दृष्टान्ताः कथयितुं शक्यन्ते ।
( र ) विभेदित – अकर्म – प्रशिक्षणम् – यदा प्रवलनसंकेतस्य उपस्थिती पुरस्कारस्य प्राप्तिः निश्चितानुक्रियायाः अवरोधकरणे आश्रिता भवेत् तदा ईदृशी व्यवस्था‘ विभेदित –अकर्म – प्रशिक्षणम् इति कथ्यते । उदाहरणार्थ छात्रः स्वशिक्षकस्य उपस्थिती धूमपानं न करोति येन अन्ये जनाः तस्य प्रशंसां कुर्यः अथवा प्रधानाचार्यस्य उपस्थिती शिक्षकः स्वकक्षामु बिलम्बन न गच्छन्ति येन च ते तस्य दृष्टी उत्तमाः तिष्ठेयः– एतानि सर्वाणि उदाहरणानि‘विभेदित– अकर्म  प्रशिक्षणम् ‘इत्यस्य घेण्यां स्थापयितुं शक्यन्ते ।
( ल ) परिहारप्रशिक्षणम् – यदा प्रबलसंकेतस्य उपस्थिता दण्डात्मकपरिस्थितेः अथवा अपवर्ति– उद्दीपकात् रक्षणं कस्याश्चित् निश्चितानुक्रियायाः उत्पत्ती आथितः भवति तदा तस्मै‘परिहारप्रशिक्षणस्य संज्ञा प्रदीयते । 2409:4070:2404:147E:5399:8105:68F7:24F2 ०८:५३, १२ जुलै २०२१ (UTC)उत्तर दें
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Omkaar_rathore&oldid=460798" इत्यस्माद् प्रतिप्राप्तम्