सामग्री पर जाएँ

सदस्यसम्भाषणम्:Pramila Ghosh

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालःस्वरूपम् --- ज्योतिषशास्रानुसारेण कालो द्विविधः। एकस्तु परमेश्वररूपः लोकानामन्त-कारकोऽपरश्च कलनात्मकोऽर्थात् दिवस-पक्ष-मास-वर्षादीनां मापक इति। कलनात्मकोऽपि कालः गणनायां स्थूल-सूक्ष्मभेदात् क्रमेण मूर्त्तामूर्त्तसंज्ञया द्विधात्मको भवति। यथोक्तं भगवता सूर्येण-
**लोकानामन्तकृत् कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त्त उच्यते ।। प्राणादिः कथितो मूर्तखुट्याद्योऽ मूर्तसंज्ञकः । षद्भिः प्राणैर्विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता ।।* 

तत्र प्राणादयो कालाः मूर्त्तसंज्ञकास्त्रुट्यादयश्च सूक्ष्मा अमूर्तसंज्ञकाः भवन्ति । अत्र कालस्य सूक्ष्मतमं मानं त्रुटिसंज्ञकमस्ति ।*

  • १-नाक्षत्रमानम्* - "भवासरस्तु भभ्रमः" इति भास्करोक्तया प्रवहवायुना प्रेरितगत्या नक्षत्रमण्डलस्यैकं परिभ्रमणं।
  • २-चान्द्रमानम्-* चन्द्रसम्बन्धिमानं चान्द्रमानमिति। एतद् सूर्याचन्द्रमसोर्गत्यन्तरस्यद्वादशांशमितं सिद्धयति।
  • ३-सौरमानम्-* सूर्यसम्बन्धिमानं सौरमानम्।
  • ५-पितृमानम् -"विधोर्मासएतच्चपैत्र्यंद्युरात्रम्*"।इतिपरिभाषयाचान्द्रमासात्मकं पितॄणामहोरात्रं भवति।
  • ६-दिव्यमानम्* - देवसम्बन्धिमानं दिव्यमानम्। *७-गौरवमानम्* - अस्यापरनाम गुरुमानं, जैवमानं, बार्हस्पत्यमानमपि विद्यते।
  • ८-प्राजापत्यमानम् - मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्। न तत्र द्युनिशोर्भेदः .............11

अर्थात् मन्वन्तरव्यवस्था एव प्राजापत्यमानं कथितमस्ति।

  • ९-ब्राह्ममानम्* -सहस्रसंख्यामहायुगैः कल्पः सिद्धयति, सैव कल्पः ब्रह्मणो दिनमेकम्।

Start a discussion with Pramila Ghosh

Start a discussion
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Pramila_Ghosh&oldid=496903" इत्यस्माद् प्रतिप्राप्तम्